HinduMantavya
Loading...

मनुस्मृति अध्याय १०

Google+ Whatsapp

___________________________________

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः  ।
प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः  ॥ १०.१ ॥
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान् यथाविधि  ।
प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ १०.२ ॥
वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।
संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः  ॥ १०.३ ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः  ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः  ॥ १०.४ ॥
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु  ।
आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते  ॥ १०.५ ॥
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान्  ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान्  ॥ १०.६ ॥
अनन्तरासु जातानां विधिरेष सनातनः  ।
द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम्  ॥ १०.७ ॥
ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते  ।
निषादः शूद्रकन्यायां यः पारशव उच्यते  ॥ १०.८ ॥
क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान्  ।
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते  ॥ १०.९ ॥
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः  ।
वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः  ॥ १०.१० ॥
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः  ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ  ॥ १०.११ ॥
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम्  ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः  ॥ १०.१२ ॥
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ  ।
क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि  ॥ १०.१३ ॥
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्  ।
ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते  ॥ १०.१४ ॥
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते  ।
आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः  ॥ १०.१५ ॥
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम्  ।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः  ॥ १०.१६ ॥
वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु  ।
प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः  ॥ १०.१७ ॥
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः  ।
शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः  ॥ १०.१८ ॥
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते  ।
वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते  ॥ १०.१९ ॥
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान्  ।
तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥ १०.२० ॥
व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः  ।
आवन्त्यवाटधानौ च पुष्पधः शैख एव च  ॥ १०.२१ ॥
झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च  ।
नटश्च करणश्चैव खसो द्रविड एव च  ॥ १०.२२ ॥
वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च  ।
कारुषश्च विजन्मा च मैत्रः सात्वत एव च  ॥ १०.२३ ॥
व्यभिचारेण वर्णानामवेद्यावेदनेन च  ।
स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः  ॥ १०.२४ ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः  ।
अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः  ॥ १०.२५ ॥
सूतो वैदेहकश्चैव चण्डालश्च नराधमः  ।
मागधः तथायोगव एव च क्षत्रजातिश्च  ॥ १०.२६ ॥
एते षट्सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु  ।
मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु  ॥ १०.२७ ॥
यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते  ।
आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ १०.२८ ॥
ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान्  ।
परस्परस्य दारेषु जनयन्ति विगर्हितान्  ॥ १०.२९ ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते  ।
तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते  ॥ १०.३० ॥
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः  ।
हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु  ॥ १०.३१ ॥
प्रसाधनोपचारज्ञमदासं दासजीवनम्  ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे  ॥ १०.३२ ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते  ।
नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये  ॥ १०.३३ ॥
निषादो मार्गवं सूते दासं नौकर्मजीविनम्  ।
कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः  ॥ १०.३४ ॥
मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च  ।
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः  ॥ १०.३५ ॥
कारावरो निषादात्तु चर्मकारः प्रसूयते  ।
वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ  ॥ १०.३६ ॥
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान्  ।
आहिण्डिको निषादेन वैदेह्यामेव जायते  ॥ १०.३७ ॥
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान्  ।
पुक्कस्यां जायते पापः सदा सज्जनगर्हितः  ॥ १०.३८ ॥
निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम्  ।
श्मशानगोचरं सूते बाह्यानामपि गर्हितम्  ॥ १०.३९ ॥
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः  ।
प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः  ॥ १०.४० ॥
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः  ।
शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः  ॥ १०.४१ ॥
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे  ।
उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः  ॥ १०.४२ ॥
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः  ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च  ॥ १०.४३ ॥
पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः  ।
पारदापह्लवाश्चीनाः किराता दरदाः खशाः  ॥ १०.४४ ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः  ।
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः  ॥ १०.४५ ॥
ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः  ।
ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः  ॥ १०.४६ ॥
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम्  ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः  ॥ १०.४७ ॥
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च  ।
मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम्  ॥ १०.४८ ॥
क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम्  ।
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम्  ॥ १०.४९ ॥
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च  ।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः  ॥ १०.५० ॥
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः  ।
अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम्  ॥ १०.५१ ॥
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम्  ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः  ॥ १०.५२ ॥
न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन्  ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह  ॥ १०.५३ ॥
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने  ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च  ॥ १०.५४ ॥
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः  ।
अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः  ॥ १०.५५ ॥
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया  ।
वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च  ॥ १०.५६ ॥
वर्णापेतमविज्ञातं नरं कलुषयोनिजम्  ।
आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥ १०.५७ ॥
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता  ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्  ॥ १०.५८ ॥
पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा  ।
न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति  ॥ १०.५९ ॥
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः  ।
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु  ॥ १०.६० ॥
यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः  ।
राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति  ॥ १०.६१ ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः  ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम्  ॥ १०.६२ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः  ।
एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः  ॥ १०.६३ ॥
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते  ।
अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् ॥ १०.६४ ॥
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम्  ।
क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च  ॥ १०.६५ ॥
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया  ।
ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् ॥ १०.६६ ॥
जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः  ।
जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः  ॥ १०.६७ ॥
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः  ।
वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः  ॥ १०.६८ ॥
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा  ।
तथार्याज्जात आर्यायां सर्वं संस्कारमर्हति  ॥ १०.६९ ॥
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः  ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः  ॥ १०.७० ॥
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति  ।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन्  ।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते  ॥ १०.७२ ॥
अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम्  ।
संप्रधार्याब्रवीद्धाता न समौ नासमाविति  ॥ १०.७३ ॥
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः  ।
ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम्  ॥ १०.७४ ॥
अध्यापनमध्ययनं यजनं याजनं तथा  ।
दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः  ॥ १०.७५ ॥
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका  ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः  ॥ १०.७६ ॥
त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति  ।
अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः  ॥ १०.७७ ॥
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः  ।
न तौ प्रति हि तान् धर्मान्मनुराह प्रजापतिः  ॥ १०.७८ ॥
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः  ।
आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः  ॥ १०.७९ ॥
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम्  ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु  ॥ १०.८० ॥
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा  ।
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः  ॥ १०.८१ ॥
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम्  ॥ १०.८२ ॥
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा  ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः  ।
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्  ॥ १०.८४ ॥
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणं  ।
विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम्  ॥ १०.८५ ॥
सर्वान् रसानपोहेत कृतान्नं च तिलैः सह  ।
अश्मनो लवणं चैव पशवो ये च मानुषाः  ॥ १०.८६ ॥
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च  ।
अपि चेत्स्युररक्तानि फलमूले तथौषधीः  ॥ १०.८७ ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः  ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्  ॥ १०.८८ ॥
आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च  ।
मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा  ॥ १०.८९ ॥
काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः  ।
विक्रीणीत तिलाञ्शूद्रान् धर्मार्थमचिरस्थितान्  ॥ १०.९० ॥
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः  ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति  ॥ १०.९१ ॥
सद्यः पतति मांसेन लाक्षया लवणेन च  ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥
इतरेषां तु पण्यानां विक्रयादिह कामतः  ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति  ॥ १०.९३ ॥
रसा रसैर्निमातव्या न त्वेव लवणं रसैः  ।
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः  ॥ १०.९४ ॥
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः  ।
न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥ १०.९५ ॥
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः  ।
तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ १०.९६ ॥
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः  ।
परधर्मेण जीवन् हि सद्यः पतति जातितः  ॥ १०.९७ ॥
वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्नकार्याणि निवर्तेत च शक्तिमान्  ॥ १०.९८ ॥
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम्  ।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः  ॥ १०.९९ ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः  ।
तानि कारुककर्माणि शिल्पानि विविधानि च  ॥ १०.१०० ॥
वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः  ।
अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ १०.१०१ ॥
सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः  ।
पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते  ॥ १०.१०२ ॥
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते  ॥ १०.१०३ ॥
जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः  ।
आकाशमिव पङ्केन न स पापेन लिप्यते  ॥ १०.१०४ ॥
अजीगर्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः  ।
न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन्  ॥ १०.१०५ ॥
श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः  ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्  ॥ १०.१०६ ॥
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने  ।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः  ॥ १०.१०७ ॥
क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम्  ।
चण्डालहस्तादादाय धर्माधर्मविचक्षणः  ॥ १०.१०८ ॥
प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि  ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः  ॥ १०.१०९ ॥
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम्  ।
प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः  ॥ १०.११० ॥
जपहोमैरपैत्येनो याजनाध्यापनैः कृतम्  ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च  ॥ १०.१११ ॥
शिलोञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः  ।
प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते  ॥ १०.११२ ॥
सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः  ।
याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति  ॥ १०.११३ ॥
अकृतं च कृतात्क्षेत्राद्गौरजाविकमेव च  ।
हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥ १०.११४ ॥
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः  ।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च  ॥ १०.११५ ॥
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः  ।
धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः  ॥ १०.११६ ॥
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम्  ॥ १०.११७ ॥
चतुर्थमाददानोऽपि क्षत्रियो भागमापदि  ।
प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते  ॥ १०.११८ ॥
स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः  ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद्बलिम्  ॥ १०.११९ ॥
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम्  ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा  ॥ १०.१२० ॥
शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद्यदि  ।
धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥
स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः  ।
जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता  ॥ १०.१२२ ॥
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते  ।
यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम्  ॥ १०.१२३ ॥
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः  ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम्  ॥ १०.१२४ ॥
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च  ।
पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः  ॥ १०.१२५ ॥
न शूद्रे पातकं किं चिन्न च संस्कारमर्हति  ।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्  ॥ १०.१२६ ॥
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः  ।
मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च  ॥ १०.१२७ ॥
यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः  ।
तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः  ॥ १०.१२८ ॥
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः  ।
शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते  ॥ १०.१२९ ॥
एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः  ।
यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम्  ॥ १०.१३० ॥
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः  ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्  ॥ १०.१३१ ॥
 

॥इति  दशमोऽध्यायः॥

 
अन्य अध्याय पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *