HinduMantavya
Loading...

शतपथब्राह्मणम् काण्डम् ११

Google+ Whatsapp

॥काण्डम् ११॥

 

संवत्सरो वै यज्ञः प्रजापतिः  तस्यैतद्द्वारं यदमावास्या चन्द्रमा एव
द्वारपिधानः
 
११/१/१/२
स योऽमावास्यायामग्नी आधत्ते  यथा विवृतायां द्वारि द्वारा पुरं प्रपद्येत स तत
एव स्वर्गं लोकमियादेवं तद्योऽमावास्यायामाधत्ते
 
११/१/१/३
अथ यो नक्षत्र आधत्ते  यथापिहितायां द्वार्यद्वारा पुरं प्रपित्सेत्स जिह्मः
पुरः स्यादेवं तद्यो नक्षत्र आधत्ते तस्मान्न नक्षत्र आदधीत
 
११/१/१/४
यदहरेवैषः  न पुरस्तान्न पश्चाद्दृश्येत तदहरुपवसेत्तर्हि ह्येष इमं
लोकमागचति तस्मिन्निह वसति
 
११/१/१/५
सर्वे देवा वसन्ति  सर्वाणि भूतानि सर्वा देवताः सर्व ऋतवः सर्वे स्तोमाः सर्वाणि
पृष्ठानि सर्वाणि चन्दांसि

 
११/१/१/६
सर्वेषु ह वा अस्य देवेषु  सर्वेषु भूतेषु सर्वासु देवतासु सर्वेष्वृतुषु
सर्वेषु स्तोमेषु सर्वेषु पृष्ठेषु सर्वेषु चन्दःस्वग्नी आहितौ भवतो
योऽमावास्यायामाधत्ते तस्मादमावास्यायामेवाग्नी आदधीत
 
११/१/१/७
योऽसौ वैशाखस्यामावास्या तस्यामादधीत सा रोहिण्या सम्पद्यत आत्मा वै प्रजा
पशवो रोहिण्यात्मन्येवैतत्प्रजायां पशुषु प्रतितिष्ठत्यमावास्या वा
अग्न्याधेयरूपं तस्मादमावास्यायामेवाग्नी आदधीत
पौर्णमास्यामन्वारभेतामावास्यायां दीक्षेत
 
११/१/२/१
घ्नन्ति वा एतद्यज्ञम्  यदेनं तन्वते यन्न्वेव राजानमभिषुण्वनि तत्तं
घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां
दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति
 
११/१/२/२
तं हत्वा यज्ञम्  अग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः
प्रजायते तद्दश ता आहुतीः सम्पादयेद्याभ्यो वषट्क्रियते
 
११/१/२/३
अयं वै यज्ञो योऽयं पवते  सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टो
दशधाविहितः स एवं कॢप्तैः प्राणैरग्नेर्योनेरधिजायते सैषा दशाक्षरा विराट्
सैषा सम्पत्स यज्ञः
 
११/१/२/४
अथो अपि नव स्युः  तन्न्यूनां विराजं करोति प्रजननाय न्यूनाद्वा इमाः प्रजाः
प्रजायन्ते सैषा सम्पत्स यज्ञः
 
११/१/२/५
अथो अप्येकातिरिक्ता स्यात्  सा प्रजापतिमभ्यतिरिच्यते सैषा सम्पत्स यज्ञः
 
११/१/२/६
अथो अपि द्वे अतिरिक्ते स्याताम्  द्वन्द्वं वै मिथुनं प्रजननम्
मिथुनमेवैतत्प्रजननं क्रियते सैषा सम्पत्स यज्ञः
 
११/१/२/७
अथो अपि तिस्रोऽतिरिक्ता स्युः  द्वन्द्वमह मिथुनं प्रजननमथ यज्जायते
तत्तृतीयं सैषा सम्पत्स यज्ञः

११/१/२/८
अथो अपि चतस्रोऽतिरिक्ताः स्युः  तद्यथैकैवं चतस्रस्त्रयो वा इमे लोकास्तदिमानेव
लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांलोकांश्चतुर्थस्तत्प्रजापतिमेव
चतुर्थ्याप्नोति सैषा सम्पत्स यज्ञः
 
११/१/२/९
स यद्द्वाभ्यामूनं तदूनं  सोऽयज्ञो यत्पञ्चभिरतिरिक्तं तदतिरिक्तं सोऽयज्ञः
सैषैव दशत्यधि सम्पदेषा विंशत्यामेषा सहस्रात्
 
११/१/२/१०
आजिं वा एते धावन्ति  ये दर्शपूर्णमासाभ्यां यजन्ते स वै पञ्चदश वर्षाणि यजेत
तेषां पञ्चदशानां वर्षाणां त्रीणि च शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च
त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयस्तद्रात्रीराप्नोति
 
११/१/२/११
अथापराणि पञ्चदशैव वर्षाणि यजेत  तेषां पञ्चदशानां वर्षाणां त्रीणि चैव
शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च
संवत्सरस्याहानि तदहान्याप्नोति  तद्वेव संवत्सरमाप्नोति
 
११/१/२/१२
मर्त्या ह वा अग्रे देवा आसुः  स यदैव ते संवत्सरमापुरथामृता आसुः सर्वं वै
संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः
 
११/१/२/१३
स आजिसृतामेकः  य एवं विद्वांस्त्रिंशतं वर्षाणि यजते तस्मादु त्रिंशतमेव
वर्षाणि यजेत यद्यु दाक्षायणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेतात्र
ह्येव सा सम्पत्सम्पद्यते द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये अत्रो एव खलु
सा सम्पद्भवति
 
११/१/३/१
पौर्णमासेनेष्ट्वा  इन्द्राय विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजत
आमावास्येनेष्ट्वादित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते

११/१/३/२
स यत्पौर्णमासेनेष्ट्वा  इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य
देवताथैदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्राय त्वेति किं चन
क्रियत एतेनो हास्यैतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति
सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हन्ति
 
११/१/३/३
अथ यदामावास्येनेष्ट्वा  अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा
देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे
तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्यदितिः सेयमद्धा
सेयं प्रतिष्ठितैतेनो हास्यैतदद्धेव हविर्भवत्येतेन प्रतिष्ठितमेतन्नु
तद्यस्मादनुनिर्वपत्यथ यस्मान्नानुनिर्वपेत्
 
११/१/३/४
स यत्पौर्णमासेनेष्ट्वा  इन्द्राय विमृधेऽनुनिर्वपति सेन्द्रो मे यज्ञोऽसदिति सर्वो
वै यज्ञ इन्द्रस्यैव स यत्सर्वो यज्ञ इन्द्रस्यैवैतेनो हास्येतत्सेन्द्रं
हविर्भवत्येतेन सेन्द्रो यज्ञः
 
११/१/३/५
अथ यदामावास्येनेष्ट्वा  अदित्यै चरुमनुनिर्वपत्यामावास्यं वा अनुनिर्वाप्यम्
पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा
एतद्धविरनुनिरवपन्यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति
तसन्न्नानुनिर्वपेत्
 
११/१/३/६
स यत्पौर्णमासेनेष्ट्वा
अथान्यद्धविरनुनिर्वपत्यामावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं
ह स भ्रातृव्यं प्रत्युच्रयतेऽथ यः पौर्णमासीं यजत
आमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति
 
११/१/३/७
पौर्णमासेन वै देवाः  पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्र एव
पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त स यो हैवं विद्वान्पौर्णमासेनैव
पौर्णमासीं यजत आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपहते क्षिप्रे
प्रजायते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति
ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति
न्वनुनिर्वाप्यस्याथाभ्युदितस्य

११/१/४/१
तद्धैके दृष्ट्वोपवसन्ति  श्वो नोदेतेत्यभ्रस्य वा हेतोरनिर्ज्ञाय
वाथोतोपवसन्त्यथैनमुताभ्युदेति स यद्यगृहीतं हविरभ्युदियात्प्रज्ञातमेव
तदेषैव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत्कुर्वन्ति
प्रतिप्रमुञ्चन्ति वत्सांस्तान्पुनरपाकुर्वन्ति
 
११/१/४/२
तानपराह्णे पर्णशाखयापाकरोति  तद्यथैवादः प्रज्ञातमामावास्यं
हविरेवमेव
तद्यद्यु व्रतचर्यां वा नोदाशंसेत गृहीतं वा हविरभ्युदियादितरथो तर्हि
कुर्यादेतानेव तण्डुलान्त्सुफलीकृतान्कृत्वा स येऽणीयांसस्तानग्नये दात्रेऽष्टाकपालम्
पुरोडाशं श्रपयति
 
११/१/४/३
अथ यत्पूर्वेद्युः  दुग्धं दधि तदिन्द्राय प्रदात्रेऽथ तदानींदुग्धे विष्णवे
शिपिविष्टायैतांस्तण्डुलाञ्चूते चरुं श्रपयति चरुरु ह्येव स यत्र क्व च
तण्डुलानावपन्ति
 
११/१/४/४
तद्यदेवं भवति  एष वै सोमो राजा देवानामन्नं
यच्चन्द्रमास्तमेतदुपैत्सीत्तमपारात्सीत्तमस्मा अग्निर्दाता ददातीन्द्रः प्रदाता
प्रयचति तमस्मा इन्द्राग्नी यज्ञं दत्तस्तेनेन्द्राग्निभ्यां दत्तेन यज्ञेन
यजतेऽथ यद्विष्णवे शिपिविष्टायेति यज्ञो वै विष्णुरथ यचिपिविष्टायेति
यमुपैत्सीत्तमपारात्सीत्तचिपितमिव यज्ञस्य भवति तस्माचिपिविष्टायेति तत्रो
यचक्नुयात्तद्दद्यान्नादक्षिणं हविः स्यादिति ह्याहुरथ यदैव
नोदियादथोपवसेत्
 
११/१/५/१
अद्यामावास्येति मन्यमान उपवसति  अथैष पश्चाद्ददृशे स हैष दिव्यः श्वा स
यजमानस्य पशूनभ्यवेक्षते तदपशव्यं स्यादप्रायश्चित्तिकृत एतस्मादु
हैतद्भीषावचन्द्रमसादिति
 
११/१/५/२
चायामुपसर्पन्ति  एतेनो हैतदुपतपदाचक्षते श्वलुचितमित्येतमु
हैवैतदाचक्षते
 
११/१/५/३
शशश्चान्द्रमस इति  चन्द्रमा वै सोमो देवानामन्नं तम्
पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषधीः प्रविशति पशवो वा अप
ओषधीरदन्ति तदेनमेतां रात्रीं पशुभ्यः संनयति
 
११/१/५/४
सोऽद्यामावास्येति मन्यमान उपवसति  अथैष पश्चाद्ददृशे तद्यजमानो
यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता३ न यजेता३ इति यजेत
हैव न ह्यन्यदपक्रमणं भवति श्वः श्व एवैष ज्यायानुदेति स
आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा
 
११/१/५/५
तस्य त्रीणि हवींषि भवन्ति  अग्नये पथिकृतेऽष्टाकपालं पुरोडाशमिन्द्राय
वृत्रघ्न एकादशकपालमग्नये वैश्वानराय द्वादशकपालं पुरोडाशम्
 
११/१/५/६
स यदग्नये पथिकृते निर्वपति  अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो
यज्ञपथादेति तमेनमग्निः पन्थानमापादयति
 
११/१/५/७
अथ यदिन्द्राय वृत्रघ्ने  पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति
कल्याणात्कर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति
तस्मादिन्द्राय वृत्रघ्ने
 
११/१/५/८
अथ यदग्नये वैश्वानराय  द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो
वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं
समदहत्तथो एवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना
वैश्वानरेण संदहति तदस्य सर्वं पाप्मानं संदहति स यो हैवं
विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते
 
११/१/५/९
तस्यै सप्तदश सामिधेन्यो भवन्ति  उपांशु देवता यजति याः कामयते ता
याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये
 
११/१/५/१०
तिसृधन्वं दक्षिणां ददाति  धन्वना वै श्वानं बाधन्ते तदेतमेवैतद्बाधते
यत्तिसृधन्वं दक्षिणां ददाति
 
११/१/५/११
दण्डं दक्षिणां ददाति  दण्डेन वै श्वानं बाधन्ते तदेतमेवैतद्बाधते
यद्दण्डं दक्षिणां ददात्येषा न्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्या इतरा
दक्षिणास्तासां यत्सम्पद्येत सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव
 
११/१/६/१
आपो ह वा इदमग्रे सलिलमेवास  ता अकामयन्त कथं नु प्रजायेमहीति ता
अश्राम्यंस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्डं सम्बभूवाजातो
ह तर्हि संवत्सर आस तदिदं हिरण्मयमाण्डं यावत्संवत्सरस्य वेला
तावत्पर्यप्लवत
 
११/१/६/२
ततः संवत्सरे पुरुषः समभवत्  स प्रजापतिस्तस्मादु संवत्सर एव स्त्री वा
गौर्वा वडबा वा विजायते संवत्सरे हि प्रजापतिरजायत स इदं हिरण्मयमाण्डं
व्यरुजन्नाह तर्हि का चन प्रतिष्ठास तदेनमिदमेव हिरण्मयमाण्डं
यावत्संवत्सरस्य वेलासीत्तावद्बिभ्रत्पर्यप्लवत
 
११/१/६/३
स संवत्सरे व्याजिहीर्षत्  स भूरिति व्याहरत्सेयं पृथिव्यभवद्भुव इति
तदितमन्तरिक्षमभवत्स्वरिति सासौ द्यौरभवत्तस्मादु संवत्सर एव कुमारो
व्याजिहीर्षति संवत्सरे हि प्रजापतिर्व्याहरत्
 
११/१/६/४
स वा एकाक्षरद्व्यक्षराण्येव  प्रथमं
वदन्प्रजापतिरवदत्तस्मादेकाक्षरद्व्यक्षराण्येव प्रथमं वदन्कुमारो
वदति
 
११/१/६/५
तानि वा !एतानि  पञ्चाक्षराणि तान्पञ्चर्तूनकुरुत त इमे पञ्चर्तवः स
एवमिमांलोकान्जातान्त्संवत्सरे प्रजापतिरभ्युदतिष्ठत्तस्मादु संवत्सर एव
कुमार उत्तिष्ठासति संवत्सरे हि प्रजापतिरुदतिष्ठत्

११/१/६/६
स सहस्रायुर्जज्ञे  स यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारम्
पराचख्यौ
 
११/१/६/७
सोऽर्चञ्च्राम्यंश्चचार प्रजाकामः  स आत्मन्येव प्रजातिमधत्त स आस्येनैव
देवानसृजत ते देवा दिवमभिपद्यासृज्यन्त तद्देवानां देवत्वं
यद्दिवमभिपद्यासृज्यन्त तस्मै ससृजानाय दिवेवास तद्वेव देवानां देवत्वं
यदस्मै ससृजानाय दिवेवास
 
११/१/६/८
अथ योऽयमवाङ्प्राणः  तेनासुरानसृजत त इमामेव पृथिवीमभिपद्यासृज्यन्त
तस्मै ससृजानाय तम इवास
 
११/१/६/९
सोऽवेत्  पाप्मानं वा असृक्षि यस्मै मे ससृजानाय तम इवाभूदिति तांस्तत एव
पाप्मनाविध्यत्ते तत एव पराभवंस्तस्मादाहुर्नैतदस्ति यद्दैवासुरं
यदिदमन्वाख्याने त्वदुद्यत इतिहासे त्वत्ततो ह्येव तान्प्रजापतिः
पाप्मनाविध्यत्ते तत एव पराभवन्निति
 
११/१/६/१०
तस्मादेतदृषिणाभ्यनूक्तम्  न त्वं युयुत्से कतमच्चनाहर्न तेऽमित्रो
मघवन्कश्चनास्ति  मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं न नु पुरा युयुत्स
इति
 
११/१/६/११
स यदस्मै देवान्त्ससृजानाय  दिवेवास तदहरकुरुताथ यदस्मा असुरान्त्ससृजानाय
तम इवास तां रात्रिमकुरुत ते अहोरात्रे
 
११/१/६/१२
स ऐक्षत प्रजापतिः  सर्वं वा अत्सारिषं य इमा देवता असृक्षीति स
संवत्सरोऽभवत्संवत्सरो ह वै नामैतद्यत्संवत्सर इति स यो
हैवमेतत्संवत्सरस्य संवत्सरत्वं वेद यो हैनं पाप्मा मायया त्सरति न
हैनं सोऽभिभवत्यथ यमभिचरत्यभि हैवैनं भवति य
एवमेतत्संवत्सरस्य संवत्सरत्वं वेद

११/१/६/१३
स ऐक्षत प्रजापतिः  इमं वा आत्मनः प्रतिमामसृक्षि यत्संवत्सरमिति
तस्मादाहुः प्रजापतिः संवत्सर इत्यात्मनो ह्येतं प्रतिमामसृजत यद्वेव
चतुरक्षरः संवत्सरश्च!तुरक्षरः प्रजापतिस्तेनो हैवास्यैष प्रतिमा
 
११/१/६/१४
ता वा एताः  प्रजापतेरधि देवता असृज्यन्ताग्निरिन्द्रः सोमः परमेष्ठी प्राजापत्यः
 
११/१/६/१५
ताः सहस्रायुषो जज्ञिरे  ता यथा नद्यै पारं परापश्येदेवं स्वस्यायुषः पारम्
पराचख्युः
 
११/१/६/१६
ता अर्चन्त्यः श्राम्यन्त्यश्चेरुः  तत एतं परमेष्ठी प्राजापत्यो
यज्ञमपश्यद्यद्दर्शपूर्णमासौ ताभ्यामयजत
ताभ्यामिष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स आपोऽभवदापो वा इदं सर्वं ता
यत्परमे स्थाने तिष्ठन्ति यो हीहाभिखनेदप एवाभिविन्देत्परमाद्वा
एतत्स्थानाद्वर्षति यद्दिवस्तस्मात्परमेष्ठी नाम
 
११/१/६/१७
स परमेष्ठी प्रजापतिं पितरमब्रवीत्  कामप्रं वा अहं यज्ञमदर्शं तेन
त्वा याजयानीति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं सर्वं स्यामिति स
प्राणोऽभवत्प्राणो वा इदं सर्वमयं वै प्राणो योऽयं पवते स प्रजापतिस्तस्य
दृष्टिर्यदेव वेदेत्थाद्वातीति यद्वै किं च प्राणि स प्रजापतिः स यो हैवमेताम्
प्रजापतेर्दृष्टिं वेदाविरिव हैव भवति
 
११/१/६/१८
स प्रजापतिरिन्द्रं पुत्रमब्रवीत्  अनेन त्वा कामप्रेण यज्ञेन याजयानि येन
मामिदं परमेष्ठ्ययीयजदिति तथेति तमयाजयत्स इष्ट्वाकामयताहमेवेदं
सर्वं स्यामिति स वागभवद्वाग्वा इदं सर्वं तस्मादाहुरिन्द्रो वागिति
 
११/१/६/१९
स इन्द्रोऽग्नीषोमौ भ्रातरावब्रवीत्  अनेन वां कामप्रेण यज्ञेन याजयानि येन
मामिदं पिता प्रजापतिरयीयजदिति तथेति
तावयाजयत्ताविष्ट्वाकामयेतामावमेवेदं सर्वं स्यावेति तयोरन्नाद
एवान्यतरोऽभवदन्नमन्यतरोऽन्नाद एवाग्निरभवदन्नं सोमोऽन्नादश्च वा
इदं सर्वमन्नं च
 
११/१/६/२०
ता वा एताः  पञ्च देवता एतेन कामप्रेण यज्ञेनायजन्त ता यत्कामा अयजन्त स
आभ्यः कामः समार्ध्यत यत्कामो ह वा एतेन यज्ञेन यजते सोऽस्मै कामः
समृध्यते
 
११/१/६/२१
त इष्ट्वा प्राचीं दिशमपश्यन्  तां प्राचीमेवाकुर्वत सेयं प्राच्येव
दिक्तस्मादिमाः प्रजाः प्राच्यः सर्पन्ति प्राचीं ह्येतामकुर्वतोपैनामितः
कुर्वीमहीति तामूर्जमकुर्वतेमां खलूर्जं पश्येमेति सासौ द्यौरभवत्
 
११/१/६/२२
अथ दक्षिणां दिशमपश्यन्  तां दक्षिणामेवाकुर्वत सेयं दक्षिणैव दिक्तस्मादु
दक्षिणत एव दक्षिणा उपतिष्ठन्ते दक्षिणतोऽभ्यवाजन्ति दक्षिणां
ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तं लोकमकुर्वतेमं खलु लोकम्
पश्येमेति तदिदमन्तरिक्षमभवदेष वै लोकः सा यथा हैवेयम्
प्रतिष्ठाविरस्मिंलोके पृथिव्येवमु हैवैषा प्रतिष्ठाविरमुष्मिंलोक
इदमन्तरिक्षं स यदिह सन्नमुं लोकं न पश्यति तस्मादाहुः परोऽक्षमसौ
लोक इति
 
११/१/६/२३
अथ प्रतीचीं दिशमपश्यन्  तामाशामकुर्वत तस्माद्यत्प्राङ्सृत्वा विन्दत एतामेव
तेन दिशमेत्याशां ह्येतामकुर्वतोपैनामितः कुर्वीमहीति तां श्रियमकुर्वतेमां
खलु श्रियं पश्येमेति सेयं पृथिव्यभवच्रीर्वा इयं तस्माद्योऽस्यै भूयिष्ठं
विन्दते स एव श्रेष्ठो भवति
 
११/१/६/२४
अथोदीचीं दिशमपश्यन्  तामपोऽकुर्वतोपैनामितः कुर्वीमहीति तं
धर्ममकुर्वत धर्मो वा आपस्तस्माद्यदेमं लोकमाप आगचन्ति सर्वमेवेदं
यथाधर्मं भवत्यथ यदावृष्टिर्भवति बलीयानेव तर्ह्यबलीयस आदत्ते
धर्मो ह्यापः
 
११/१/६/२५
ता वा एताः  एकादश देवताः पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत्त्रयोऽनुयाजा

११/१/६/२६
ता एकादशाहुतयः  एताभिर्वा आहुतिभिर्देवा इहांलोकानजयन्नेता दिशस्तथो एवैष
एताभिराहुतिभिरिमांलोकान्जयत्येता दिशः
 
११/१/६/२७
चतस्रोऽवान्तरदिशः  त एव चत्वारः पत्नीसंयाजा अवान्तरदिशो वै देवाश्चतुर्भिः
पत्नीसंयाजैरजयन्नवान्तरदिश उ एवैष एतैर्जयति
 
११/१/६/२८
अथेडा  अन्नाद्यमेवैतया देवा अजयंस्तथो एवैष एतयान्नाद्यमेव जयत्येषा नु
देवत्रा दर्शपूर्णमासयोः सम्पत्
 
११/१/६/२९
अथाध्यात्मम्  पञ्चेमे पुरुषे प्राणा ऋते चक्षुर्भ्यां त एव पञ्च प्रयाजा
चक्षुषी आज्यभागौ
 
११/१/६/३०
अयमेवावाङ्प्राणः स्विष्टकृत्  स यत्तमभ्यर्ध इवेतराभ्य आहुतिभ्यो जुहोति
तस्मादेतस्मात्प्राणात्सर्वे प्राणा बीभत्सन्तेऽथ यत्स्विष्टकृते सर्वेषां
हविषामवद्यति तस्माद्यत्किं चेमान्प्राणानापद्यत एतमेव तत्सर्वं समवैति
 
११/१/६/३१
त्रीणि शिश्नानि  त एव त्रयोऽनुयाजाः स योऽयं वर्षिष्ठोऽनुयाजस्तदिदं
वर्षिष्ठमिव शिश्नं तं वा अनवानन्यजेदित्याहुस्तथो हास्यैतदमृध्रम्
भवतीति
 
११/१/६/३२
स वै सकृदवान्यात्  एकं ह्येतस्य पर्वाथ यदपर्वकं स्यात्प्रतृणं वैव
तिष्ठेल्लम्बेत वा तस्मादेतदुच्च तिष्टति पद्यते च तस्मात्सकृदवान्यात्
 
११/१/६/३३
द्वौ बाहू द्वा ऊरू  त एव चत्वारः पत्नीसंयाजाः प्रतिष्ठायमेव प्राण इडा यत्तां
नाग्नौ जुहोति यत्साप्रदग्धेव तस्मादयमनवतृणः प्राणः
 
११/१/६/३४
अस्थ्येव याज्यानुवाक्याः  मांसं हविस्तन्मितं चन्दो यद्याज्यानुवाक्यास्तस्मादु
समावन्त्येवास्थीनि मेद्यतश्च कृश्यतश्च भवन्त्यथ यद्भूय इव च हविर्गृह्णाति
कनीय इव च तस्मादु मांसान्येव मेद्यतो मेद्यन्ति मांसानि कृश्यतः कृश्यन्ति
तेनैतेन यज्ञेन यां कामयते देवतां तां यजति यस्यै हविर्भवति
 
११/१/६/३५
ता वा एताः  अनपोद्धार्या आहुतयो भवन्ति स
यद्धैतासामपोद्धरेद्यथैकमङ्गं शृणीयात्प्राणं वा निर्हण्यादेवं
तदन्यान्येव हवींष्युप चाह्रियन्तेऽप च ह्रियन्ते
 
११/१/६/३६
ता वा एताः  षोडशाहुतयो भवन्ति षोडशकलो वै पुरुषः पुरुषो
यज्ञस्तस्मात्षोडशाहुतयो भवन्ति
 
११/१/७/१
तद्वा अदो व्रतोपायन उद्यते  यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति
देवानत्यश्नातीति तदारण्यमश्नीयादिति तत्र स्थापयन्ति
 
११/१/७/२
स यदि ग्राम्या ओषधीरश्नाति  पुरोडाशस्य मेधमश्नाति यद्यारण्या ओषधीरश्नाति
बर्हिषो मेधमश्नाति यदि वानस्पत्यमश्नातीध्मस्य मेधमश्नाति यदि पयः
पिबति सांनाय्यस्य चाज्यस्य च मेधमश्नाति यद्यपः पिबति प्रणीतानाम्
मेधमश्नाति यदि नाश्नाति पितृदेवत्यो भवति
 
११/१/७/३
तदाहुः  किमयनमिति स्वयं हैवैते रात्री अग्निहोत्रं जुहुयात्स यद्धुत्वा प्राश्नाति
तेनापितृदेवत्यो भवत्याहुतिर्वा एषा स यदेवैतामात्मन्नाहुतिं जुहोति तेनो एतेषाम्
मेधानां नाश्नाति
 
११/१/७/४
एते ह वै रात्री  सर्वा रात्रयः समवयन्ति या आपूर्यमाणपक्षस्य रात्रयस्ताः सर्वाः
पौर्णमासीं समवयन्ति या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्वा अमावास्यां
समवयन्ति स यो हैवं विद्वान्त्स्वयमुपवसथे जुहोति सर्वदा हैवास्य स्वयं
हुतं भवति
 
११/१/८/१
देवाश्च वा असुराश्च  उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु
वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव
पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः
 
११/१/८/२
अथ देवाः  अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानं प्रददौ
यज्ञो हैषामास यज्ञो हि देवानामन्नं
 
११/१/८/३
स देवेभ्य आत्मानं प्रदाय  अथैतमात्मनः प्रतिमामसृजत यद्यज्ञं
तस्मादाहुः प्रजापतिर्यज्ञ इत्यात्मनो ह्येतं प्रतिमामसृजत
 
११/१/८/४
स एतेन यज्ञेन  देवेभ्य आत्मानं निरक्रीणीत स यद्व्रतमुपैति यथैव
तत्प्रजापतिर्देवेभ्य आत्मानं प्रायचदेवमेवैष एतद्देवेभ्य आत्मानम्
प्रयचति तस्मादु संयत एवैतां रात्रिं चिचरिषेद्यथा हविषा चरेदेवं हविर्ह्येष
देवानां भवति
 
११/१/८/५
अथ यद्यज्ञं तनुते  यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते यथैव
तत्प्रजापतिर्निरक्रीणीतैवमथ यद्धविर्निर्वपति हविषैवैतद्यज्ञं निष्क्रीणाति
हविरनुवाक्ययानुवाक्यामवदानेनावदानं याज्यया याज्यां वषट्कारेण
वषट्कारमाहुत्या तस्याहुतिरेवानिष्क्रीता भवति
 
११/१/८/६
स यथाग्रप्रशीर्णो वृक्षः  एवमस्यैष यज्ञो भवत्याहुतिमेवान्वाहार्येण
निष्क्रीणाति तद्यदेतद्धीनं यज्ञस्यान्वाहरति तस्मादन्वाहार्यो नामैवमु
हास्यैष सर्व एव यज्ञो निष्क्रीतो भवत्येष ह वै यजमानस्यामुष्मिंलोक आत्मा
भवति यद्यज्ञ स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति य एवं
विद्वान्निष्क्रीत्या यजते

११/२/१/१
त्रिर्ह वै पुरुषो जायते  एतन्न्वेव मातुश्चाधि पितुश्चाग्रे जायतेऽथ यं यज्ञ
उपनमति स यद्यजते तद्द्वितीयं जायतेऽथ यत्र म्रियते
यत्रैनमग्नावभ्यादधति स यत्ततः सम्भवति तत्तृतीयं जायते तस्मात्त्रिः
पुरुषो जायत इत्याहुः
 
११/२/१/२
ता वा एताः  एकादश सामिधेनीरन्वाह दश वा इमे पुरुषे प्राणा आत्मैकादशो
यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषस्तदेनं कृत्स्नं जनयत्यथ
यदूर्ध्वं सामिधेनीभ्यः सा प्रतिष्ठा तदेनं जनयित्वा प्रतिष्ठापयति
 
११/२/१/३
नव प्रसवस्य व्याहृतयः  नवमे पुरुषे प्राणास्तदेनं द्वितीयं
जनयत्याश्रावणं प्रत्याश्रावणं सा प्रतिष्ठाथ यदेवादः सृष्टौ जन्मोद्यते
तदेनं तृतीयं जनयति पत्नीसंयाजा एव तत्र प्रतिष्ठा
 
११/२/१/४
त्रिर्हि वै पुरुषो जायते  एवमेवैनमेतद्यज्ञात्त्रिर्जनयति तासामेकादशानां त्रिः
प्रथमामन्वाह त्रिरुत्तमाम्
 
११/२/१/५
ताः पञ्चदश सामिधेन्यः  द्वावाघारौ पञ्च प्रयाजा इडा त्रयोऽनुयाजाः
सूक्तवाकश्च शम्योर्वाकश्च तास्त्रयोदशाहुतयोऽथ यदेवादः पत्नीसंयाजेषु
सम्प्रगृह्णाति समिष्टयजुश्च
 
११/२/१/६
ताः पञ्चदशाहुतयः  तासां पञ्चदशानामाहुतीनामेता अनुवाक्या एताः पञ्चदश
सामिधेन्य एतासामनुवाक्यानामेता याज्या य एवात्र मन्त्रो यो
निगदस्तद्याज्यारूपमेतेनो हास्यैता आहुतयोऽनुवाक्यवत्यो भवन्त्येताभिः
सामिधेनीभिरेताभिराहुतिभिरेता अनुवाक्या याज्यवत्यश्चाहुतिवत्यश्च भवन्ति
 
११/२/२/१
गायत्रीमनुवाक्यामन्वाह  त्रिपदा वै गायत्री त्रय इमे लोका इमानेवैतल्लोकान्देवाः
प्रत्यष्ठापयन्

११/२/२/२
अथ त्रिष्टुभा यजति  चतुष्पदा वै त्रिष्टुप्चतुष्पादाः पशवस्तत्पशूनेवैतदेषु
लोकेषु प्रतिष्ठितेषु देवाः प्रत्यष्ठापयन्
 
११/२/२/३
द्व्यक्षरो वषट्कारः  द्विपाद्वै पुरुषस्तत्पुरुषमेवैतद्द्विपादमेषु पशुषु
प्रतिष्ठितेषु प्रत्यष्ठापयन्
 
११/२/२/४
सोऽयं द्विपात्पुरुषः  पशुषु प्रतिष्ठित एवमेवैष एतल्लोकान्प्रतिष्ठापयति
लोकेषु प्रतिष्ठितेषु पशून्प्रतिष्ठापयति पशुषु प्रतिष्ठितेष्वात्मानम्
प्रतिष्ठापयत्येवमेष पुरुषः पशुषु प्रतिष्ठितो य एवं विद्वान्यजते
 
११/२/२/५
अथ यद्वषट्कृते जुहोति  एष वै वषट्कारो य एष तपति स एष
मृत्युस्तदेनमुपरिष्टान्मृत्योः संस्करोति तदेनमतो जनयति स एतम्
मृत्युमतिमुच्यते यज्ञो वा अस्यात्मा भवति तद्यज्ञ एव
भूत्वैतन्मृत्युमतिमुच्यत एतेनो हास्य सर्वे यज्ञक्रतव एतं मृत्युमतिमुक्ताः
 
११/२/२/६
अथ यामेतामाहुतिं जुहोति  एषा ह वा अस्याहुतिरमुष्मिंलोक आत्मा भवति स
यदैवंविदस्माल्लोकात्प्रैत्यथैनमेषाहुतिरेतस्य पृष्ठे सत्याह्वयत्येह्यहं वै
त इहात्मास्मीति तद्यदाह्वयति तस्मादाहुतिर्नाम
 
११/२/३/१
ब्रह्म वा इदमग्र आसीत्  तद्देवानसृजत तद्देवान्त्सृष्ट्वैषु लोकेषु
व्यारोहयदस्मिन्नेव लोकेऽग्निं वायुमन्तरिक्षे दिव्येव सूर्यम्
 
११/२/३/२
अथ येऽथ ऊर्ध्वा लोकाः  तद्या अत ऊर्ध्वा देवतास्तेषु ता देवता व्यारोहयत्स यथा
हैवेम आविर्लोका इमाश्च देवता एवमु हैव त आविर्लोकास्ताश्च देवता येषु ता देवता
व्यारोहयत्
 
११/२/३/३
अथ ब्रह्मैव परार्धमगचत्  तत्परार्धं गत्वैक्षत कथं
न्विमांलोकान्प्रत्यवेयामिति तद्द्वाभ्यामेव प्रत्यवैद्रूपेण चैव नाम्ना च स
यस्य कस्य च नामास्ति तन्नाम यस्यो अपि नाम नास्ति यद्वेद रूपेणेदं रूपमिति
तद्रूपमेतावद्वा इदं यावद्रूपं चैव नाम च
 
११/२/३/४
ते हैते ब्रह्मणो महती अभ्वे  स यो हैते ब्रह्मणो महती अभ्वे वेद
महद्धैवाभ्वं भवति
 
११/२/३/५
ते हैते ब्रह्मणो महती यक्षे  स यो हैते ब्रह्मणो महती यक्षे वेद
महद्धैव यक्षं भवति तयोरन्यतरज्ज्यायो रूपमेव यद्ध्यपि नाम
रूपमेव तत्स यो हैतयोर्ज्यायो वेद ज्यायान्ह तस्माद्भवति यस्माज्ज्यायान्बुभूषति
 
११/२/३/६
मर्त्या ह वा अग्रे देवा आसुः  स यदैव ते ब्रह्मणापुरथामृता आसुः स यं मनस
आघारयति मनो वै रूपं मनसा हि वेदेदं रूपमिति तेन रूपमाप्नोत्यथ यं
वाच आघारयति वाग्वै नाम वाचा हि नाम गृह्णाति तेनो नामाप्नोत्येतावद्वा इदं
सर्वं यावद्रूपं चैव नाम च तत्सर्वमाप्नोति सर्वं वा अक्षय्यमेतेनो
हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः
 
११/२/३/७
तद्वा अद आग्नेय्यामिष्टा उद्यते  यथा तदृषिभ्यो यज्ञः प्रारोचत तं यथातन्वत
तद्यज्ञं तन्वानानृषीन्गन्धर्वा उपनिषेदुस्ते ह स्म संनिदधतीदं वा
अत्यरीरिचन्निदमूनमक्रन्निति स यदैषां यज्ञः संतस्थेऽथैनांस्तद्दर्शयां
चक्रुरिदं वा अत्यरीरिचतेदमूनमकर्तेति
 
११/२/३/८
स यदतिरेचयां चक्रुः  यथा गिरिरेवं तदासाथ यदूनं चक्रुर्यथा श्वभ्राः
प्रदरा एवं तदास
 
११/२/३/९
स यत्र शम्योराह  तदभिमृशति यज्ञ नमश्च त उप च यज्ञस्य शिवे
संतिष्ठस्व स्विष्टे मे संतिष्ठस्वेति स यदतिरेचयति तन्नमस्कारेण
शमयत्यथ यदूनं करोत्युप चेति तेन तदन्यूनं भवति यज्ञस्य शिवे
संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तचिवं तेन तदुभयं शमयति स्विष्टे
मे संतिष्ठस्वेति यद्वै यज्ञस्यान्यूनातिरिक्तं तत्स्विष्टं तेनो तदुभयं
शमयत्येवमु हास्यैतेन यज्ञेनान्यूनातिरिक्तेनैवेष्टं भवति य एवं
विद्वानेवमभिमृशति तस्मादेवमेवाभिमृशेत्ते ह ते गन्धर्वा आसुः शूर्पं
यवमान्कृषिरुद्वालवान्धानान्तर्वान्
 
११/२/४/१
एष वै पूर्णमाः  य एष तपत्यहरहर्ह्येवैष पूर्णोऽथैष एव दर्शो
यच्चन्द्रमा दृदृश इव ह्येषः
 
११/२/४/२
अथो इतरथाहुः  एष एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनु पूरणम्
पौर्णमासीत्याचक्षतेऽथैष एव दर्शो य एष तपति ददृश इव ह्येषः
 
११/२/४/३
इयमेव पूर्णमाः  पूर्णेव हीयमसावेव द्यौर्दर्शो ददृश इव ह्यसौ द्यौः
 
११/२/४/४
रात्रिरेव पूर्णमाः  पूर्णेव हीयं रात्रिरहरेव दर्शो ददृश इव हीदमहरेषा नु
देवत्रा दर्शपूर्णमासयोर्मीमांसा
 
११/२/४/५
अथाध्यात्मम्  उदान एव पूर्णमा उदानेन ह्ययं पुरुषः पूर्यत इव प्राण एव
दर्शो ददृश इव ह्ययं प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ
 
११/२/४/६
प्राण एवान्नादः  प्राणेन हीदमन्नमद्यत उदान एवान्नप्रद उदानेन
हीदमन्नं प्रदीयते स यो हैतावन्नादं चान्नप्रदं च दर्शपूर्णमासौ
वेदान्नादो हैव भवति प्र हास्मा अन्नाद्यं दीयते
 
११/२/४/७
मन एव पूर्णमाः  पूर्णमिव हीदं मनो वागेव दर्शो ददृश इव हीयं
वाक्तदेतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ स यदुपवसथे
व्रतोपायनीयमश्नाति तेनैतावध्यात्मं प्रत्यक्षं दर्शपूर्णमासौ प्रीणाति
यज्ञेन प्रातर्दैवौ
 
११/२/४/८
तदाहुः  यन्न पूर्णमासायेति हविर्गृह्यते न दर्शायेति हविर्गृह्यते न
पूर्णमासायानुब्रूहि न दर्शायानुब्रूहि न पूर्णमासं यज न दर्शं यजेत्यथ
केनास्य दर्शपूर्णमासाविष्टौ भवत इति स यं मनस आघारयति मनो वै
पूर्णमास्तेन पूर्णमासं यजत्यथ यं वाच आघारयति वाग्वै दर्शस्तेनो दर्शं
यजत्येतेनो हास्य दर्शपूर्नमासाविष्टौ भवतः
 
११/२/४/९
तद्धैके  चरू निर्वपन्ति पौर्णमास्यां सरस्वतेऽमावास्यायां सरस्वत्या
एतत्प्रत्यक्षं दर्शपूर्णमासौ यजामह इति वदन्तस्तदु तथा न कुर्यान्मनो वै
सरस्वान्वाक्षरस्वती स यदेवैतावाघारावाघारयति तदेवास्य
दर्शपूर्णमासाविष्टौ भवतस्तस्मादेतौ चरू न निर्वपेत्
 
११/२/४/१०
तदाहुः  आगूर्ती वा एष भवति यो दर्शपूर्णमासाभ्यां यजते पौर्णमेसेन हीष्ट्वा
वेदामावास्येन यक्ष्य इत्यामावास्येनेष्ट्वा वेद पुनः पौर्णमासेन यक्ष्य इति स
आगूर्त्येवामुं लोकमेति यदामुं लोकमेति कथमनागूर्ती भवतीति स यदेवैता
उभयत्राघारावाघारयति तदेवास्य दर्शपूर्णमासौ संतिष्ठेते स संस्थितयोरेव
दर्शपूर्णमासयोरथामुं लोकमेति तथानागूर्ती भवति
 
११/२/५/१
अपि ह वा एतर्हि  देवेभ्योऽश्वमेधमालभन्ते तदाहुः प्राकृतोऽश्वमेध इतीतर
इन्नूनं स तद्वा एष एवाश्वमेधो यच्चन्द्रमाः
 
११/२/५/२
तदाहुः  पदेपदेऽश्वश्य मेध्यस्याहुतिं जुह्वतीति स यत्सायम्प्रातरग्निहोत्रं
जुहोति द्वे सायमाहुती जुहोति द्वे प्रातस्ताश्चतस्र आहुत्यश्चतुष्पाद्वा अश्वस्तदस्य
पदेपद एवाहुतिर्हुता भवति
 
११/२/५/३
तदाहुः  विवृत्तेऽश्वस्येष्टिं निर्वपतीत्येष वै सोमो राजा देवानामन्नं
यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तदिमं
लोकमागचति सोऽस्मिंलोके विवर्तते

११/२/५/४
स यदामावास्येन यजते  विवृत्त एवास्यैतदिष्टिं निर्वपत्यथ यत्पौर्णमासेन
यजतेऽश्वमेधमेवैतदालभते तमालभ्य देवेभ्यः प्रयचति संवत्सरे वा
इतरमश्वमेधमालभन्त एष वै मासः परिप्लवमानः संवत्सरं करोति
तदस्य संवत्सरे संवत्सर एवाश्वमेध आलब्धो भवति
 
११/२/५/५
तं वा एतम्  मासिमास्येवाश्वमेधमालभन्ते स यो हैवं विद्वानग्निहोत्रं च
जुहोति दर्शपूर्णमासाभ्यां च यजते मासिमासि हैवास्याश्वमेधेनेष्टम्
भवत्येतदु हास्याग्निहोत्रं च दर्शपूर्णमासौ चाश्वमेधमभिसम्पद्येते
 
११/२/६/१
शिरो ह वा एतद्यज्ञस्य यत्प्रणीताः  स यत्प्रणीताः प्रणयति शिर एवैतद्यज्ञस्य
संस्करोति स विद्याचिर एव म एतत्संस्क्रियत इति
 
११/२/६/२
प्राण एवास्येध्मः  प्राणेन हीदं सर्वमिद्धं यत्प्राणभृन्निमिषद्यदेजति स
विद्यादहमेवैष इध्म इति
 
११/२/६/३
अनूकमेवास्य सामिधेन्यः  तस्मात्ता ब्रूयात्संतन्वन्निव मेऽनुब्रूहीति संततमिव
हीदमनूकं मनश्चैवास्य वाक्चाघारौ सरस्वांश्च सरस्वती च स
विद्यान्मनश्चैव मे वाक्चाघारौ सरस्वांश्च सरस्वती चेति
 
११/२/६/४
पञ्च प्रयाजाः  इम एवास्य ते शीर्षण्याः पञ्च प्राणा मुखमेवास्य प्रथमः
प्रयाजो दक्षिणा नासिका द्वितीयः सव्या नासिका तृतीयो दक्षिणः कर्णश्चतुर्थः सव्यः
कर्णः पञ्चमोऽथ यच्चतुर्थे प्रयाजे समानयति तस्मादिदं श्रोत्रमन्तरतः
संतृणं चक्षुषी आज्यभागौ स विद्याच्चक्षुषी एव म एताविति
 
११/२/६/५
अथ य आग्नेयः पुरोडाशः  अयमेवास्य स दक्षिणोऽर्धो हृदयमेवास्योपांशुयाजः
स यत्तेनोपांशु चरन्ति तस्मादिदं गुहेव हृदयम्

११/२/६/६
अथ योऽग्नीषोमीयः पुरोडाशः  अयमेवास्य स उत्तरोऽर्ध ऐन्द्रं वा
सांनाय्यमन्तरांसमेवास्य स्विष्टकृद्विषं प्राशित्रम्
 
११/२/६/७
स यत्प्राशित्रमवद्यति  यथैव तत्प्राजापतेराविद्धं
निरकृन्तन्नेवमेवैतस्यैतद्यद्वेष्टितं यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्ति
स विद्याद्यथैव तत्प्रजापतेराविद्धं निरकृन्तन्नेवमेव म इदं यद्वेष्टितं
यद्ग्रथितं यद्वरुण्यं तन्निष्कृन्तन्तीति
 
११/२/६/८
उदरमेवास्येडा  तद्यथैवाद इडायां समवद्यन्त्येवमेवेदं
विश्वरूपमन्नमुदरे समवधीयते
 
११/२/६/९
त्रयोऽनुयाजाः  इम एवास्य तेऽवाञ्चस्त्रयः प्राणा बाहू एवास्य सूक्तवाकश्च
शम्योर्वाकश्च चत्वारः पत्नीसंयाजाश्चतस्रो वै प्रतिष्ठा ऊरू द्वावष्ठीवन्तौ
द्वौ प्रादावेवास्य समिष्टयजुः
 
११/२/६/१०
ता एकविंशतिराहुतयः  द्वावाघारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः
पुरोडाशस्तद्दशाग्नीषोमीय उपांशुयाजोऽग्नीशोमीयः पुरोडाशोऽग्निः स्विष्टकृदिडा
त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाकश्चाथ यदेवादः पत्नीसंयाजेषु
सम्प्रगृह्णाति समिष्टयजुश्च
 
११/२/६/११
ता एकविंशतिराहुतयः  द्वादश वै मासाः संवत्सरस्य पञ्चर्तवस्त्रयो
लोकास्तद्विंशतिरेष एवैकविंशो य एष तपति सैषा गतिरेषा प्रतिष्ठा तदेतां
गतिमेतां प्रतिष्ठां गचति
 
११/२/६/१२
तद्ध स्मैतदारुणिराह  अर्धमासशो वा अहममुनादित्येन सलोको भवामि
तामहं दर्शपूर्णमासयोः सम्पदं वेदेति
 
११/२/६/१३
तदाहुः  आत्मयाजी श्रेया३ देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो
वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो
निर्मुच्येतैवमस्मान्मर्त्याचरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मयः
साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति
 
११/२/६/१४
अथ ह स देवयाजी यो वेद  देवानेवाहमिदं यजे देवान्त्सपर्यामीति स यथा
श्रेयसे पापीयान्बलिं हरेद्वैश्यो वा राज्ञे बलिं हरेदेवं स स ह न तावन्तं लोकं
जयति यावान्तमितरः
 
११/२/७/१
संवत्सरो यज्ञः  स यो ह वै संवत्सरो यज्ञ इति वेदान्ते हैवास्य
संवत्सरस्येष्टं भवत्यथो यत्किं च संवत्सरे क्रियते सर्वं हैवास्य
तदाप्तमवरुद्धमभिजितं भवति
 
११/२/७/२
ऋतव ऋत्विजः  स यो ह वा ऋतव ऋत्विज इति वेदान्ते हैवास्यर्तूनामिष्टं भवत्यथो
यत्किं चर्तुषु क्रियते सर्वं हैवास्य तदाप्तमवरुद्धमभिजितं भवति
 
११/२/७/३
मासा हवींषि  स यो ह वै मासा हवींषीति वेदान्ते हैवास्य मासानामिष्टम्
भवत्यथो यत्किं च मासेषु क्रियते सर्वं हैवास्य
तदाप्तमवरुद्धमभिजितं भवति
 
११/२/७/४
अर्धमासा हविष्पात्राणि  स यो ह वा अर्धमासा हविष्पात्राणीति वेदान्ते
हैवास्यार्धमासानामिष्टं भवत्यथो यत्किं चार्धमासेषु क्रियते सर्वं
हैवास्य तदाप्तमवरुद्धमभिजितं भवति
 
११/२/७/५
अहोरात्रे परिवेष्ट्री  स यो ह वा अहोरात्रे परिवेष्ट्री इति वेदान्ते
हैवास्याहोरात्रयोरिष्टं भवत्यथो यत्किं चाहोरात्रयोः क्रियते सर्वं हैवास्य
तदाप्तमवरुद्धमभिजितं भवति

११/२/७/६
इयमेव प्रथमा सामिधेनी  अग्निर्द्वितीया वायुस्तृतीयान्तरिक्षं चतुर्थी
द्यौष्पञ्चम्यादित्यः षष्ठी चन्द्रमाः सप्तमी मनोऽष्टमी वाङ्नवमी तपो
दशमी ब्रह्मैकादश्येता हि वा इदं सर्वं समिन्धत एताभिरिदं सर्वं
समिद्धं तस्मात्सामिधेन्यो नाम
 
११/२/७/७
स वै त्रिः प्रथमामन्वाह  स यत्प्रथममन्वाह प्राचीं तेन दिशं जयति
यद्द्वितीयं दक्षिणां तेन दिशं जयति यत्तृतीयमूर्ध्वामेव तेन दिशं जयति
 
११/२/७/८
त्रिर्वेवोत्तमामन्वाह  स यत्प्रथममन्वाह प्रतीचीं तेन दिशं जयति
यद्द्वितीयमुदीचीं तेन दिशं जयति यत्तृतीयमिमामेव तेन प्रतिष्ठां
जयत्येवमु हाभिरिमांलोकान्जयत्येता दिशः
 
११/२/७/९
ऋतमेव पूर्व आघारः  सत्यमुत्तरोऽव ह वा ऋतसत्ये रुन्द्धेऽथो यत्किं
चर्तसत्याभ्यां जय्यं सर्वं हैव तज्जयति
 
११/२/७/१०
त्विषिरेव प्रथमः प्रयाजः  अपचितिर्द्वितीयो यशस्तृतीयो ब्रह्मवर्चसं
चतुर्थोऽन्नाद्यं पञ्चमः
 
११/२/७/११
स प्रथमं प्रयाजमनुमन्त्रयेत  त्विषिमान्भूयासमित्यपचितिमान्भूयासमिति
द्वितीयं यशस्वी भूयासमिति तृतीयं ब्रह्मवर्चसी भूयासमिति चतुर्थमन्नादो
भूयासमिति पञ्चमं त्विषिमान्ह वा अपचितिमान्यशस्वी ब्रह्मवर्चस्यन्नादो
भवति य एवमेतद्वेद
 
११/२/७/१२
एतद्ध स्म वै तद्विद्वानाह  श्वेतकेतुरारुणेयः कं स्विदेवापरीषु
महानागमिवाभिसंसारं दिदृक्षितारो य एवमेतत्प्रयाजानां यशो वेदितेति
 
११/२/७/१३
भूतमेव पूर्व आज्यभागः  भविष्यदुत्तरोऽव ह वै भूतं च भविष्यच्च
रुन्द्धेऽथो यत्किं च भूतेन च भविष्यता च जय्यं सर्वं हैव तज्जयति
 
११/२/७/१४
ब्रह्माग्नेयः पुरोडाशः  स यो ह वै ब्रह्माग्नेयः पुरोडाश इति वेदाव ह
ब्रह्म रुन्द्धेऽथो यत्किं च ब्रह्मणा जय्यं सर्वं हैव तज्जयति
 
११/२/७/१५
क्षत्रमुपांशुयाजः  स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं
रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं
कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते
 
११/२/७/१६
विदुत्तरः पुरोडाशः  स यो ह वै विदुत्तरः पुरोडाश इति वेदाव ह विशं
रुन्द्धेऽथो यत्किं च विशा जय्यं सर्वं हैव तज्जयति तद्यदाग्नेयश्च पुरोडाश
उपांशुयाजश्च पूर्वौ भवतस्तस्मादुभे ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते
 
११/२/७/१७
राष्ट्रं सांनाय्यं  स यो ह वै राष्ट्रं सांनाय्यमिति वेदाव ह राष्ट्रं
रुन्द्धेऽथो यत्किं च राष्ट्रेण ज य्यं सर्वं हैव तज्जयति तद्यत्संनयन्त्येके
नैके तस्माद्राष्ट्रं सं चैति वि च
 
११/२/७/१८
तपः स्विष्टकृत्  स यो ह वै तपः स्विष्टकृदिति वेदाव ह तपो रुन्द्धेऽथो यत्किं च
तपसा जय्यं सर्वं हैव तज्जयति
 
११/२/७/१९
लोकः प्राशित्रं  स यो ह वै लोकः प्राशित्रमिति वेदाव ह लोकं रुन्द्धेऽथो यत्किं
च लोकेन जय्यं सर्वं हैव तज्जयति नो ह लवेन लोकाद्व्यथथे लवेन ह वा
अमुष्मिंलोके लोकाद्व्यथन्तेऽथ य एवं वेद न ह बहु चन पापं कृत्वा
लोकाद्व्यथते

११/२/७/२०
श्रद्धेडा  स यो ह वै श्रद्धेडेति वेदाव ह श्रद्धां रुन्द्धेऽथो यत्किं च
श्रद्धया जय्यं सर्वं हैव तज्जयति
 
११/२/७/२१
अशनिरेव प्रथमोऽनुयाजः  ह्रादुनिर्द्वितीय उल्कुषी तृतीयः
 
११/२/७/२२
स प्रथममनुयाजमनुमन्त्रयेत  अशन्यमुं जहीति यं
द्विष्याद्ध्रादुन्यमुं जहीति द्वितीयमुल्कुष्यमुं जहीति तृतीयम्
 
११/२/७/२३
स य एष क्षिप्रं म्रियते  अशनिर्ह तमनुयाजो हन्त्यथ यो विस्रवन्मिश्र इव
ह्रादुनिर्ह तमनुयाजो हन्त्यथ योऽभ्युष्टमिश्र इवोल्कुषी ह तमनुयाजो हन्ति
 
११/२/७/२४
सैषा यज्ञमेनिः  एतया वै मेन्या देवा असुरान्पराभावयां चक्रुस्तथो
एवैवंविद्यजमानः पाप्मानं द्विषन्तं भ्रातृव्यं पराभावयति
 
११/२/७/२५
स यदनुयाजान्तो यज्ञः स्यात्  अशन्यन्तः स्याद्ध्रादुन्यन्त उत्कुष्यन्तस्तस्माद्वै
देवानां यज्ञ इडान्तो वैव शम्य्वन्तो वा
 
११/२/७/२६
प्रयाजैर्वै देवाः  स्वर्गं लोकमायंस्तानसुरा अन्वाजिगांसंस्ताननुयाजैः
प्रत्यौहंस्तद्यदनुयाजा इज्यन्ते पाप्मानमेव तद्द्विषन्तं भ्रातृव्यं
यजमानः प्रत्यूहति
 
११/२/७/२७
प्राणा वै प्रयाजाः  अपाना अनुयाजास्तस्मात्प्रयाजाः प्राञ्चो हूयन्ते तद्धि
प्राणरूपम्
प्रत्यञ्चोऽनुयाजास्तदपानरूपमेता ह वै दर्शपूर्णमासयोरुपसदो
यदनुयाजास्तस्मात्त उपसद्रूपेण प्रत्यञ्चो हूयन्ते
 
११/२/७/२८
संस्था सूक्तवाकः  स यो ह वै संस्था सूक्तवाक इति वेदाव ह संस्थां रुन्द्धेऽथो
यत्किं च संस्थया जय्यं सर्वं हैव तज्जयति गचति वयसः संस्थाम्
 
११/२/७/२९
प्रतिष्ठा शम्योर्वाकः  स यो ह वै प्रतिष्ठा शम्योर्वाकिति वेदाव ह प्रतिष्ठां
रुन्द्धेऽथो यत्किं च प्रतिष्ठया जय्यं सर्वं हैव तज्जयति गचति प्रतिष्ठाम्
 
११/२/७/३०
ते देवाः  एतान्पत्नीसंयाजान्पश्चात्पर्यौहन्त मिथुनमेवैतदुपरिष्टाददधत
प्रजात्यै तद्यत्पत्नीसंयाजा इज्यन्ते मिथुनमेवैतदुपरिष्टाद्धत्ते प्रजात्यै
देवानां ह वै प्रजातिमनु प्रजायते मिथुनेनमिथुनेन ह प्रजायते य
एवमेतद्वेद
 
११/२/७/३१
अन्नं समिष्टयजुः  स यो ह वा अन्नं समिष्टयजुरिति वेदाव हान्नं रुन्द्धेऽथो
यत्किं चान्नेन जय्यं सर्वं हैव तज्जयति
 
११/२/७/३२
संवत्सरो यजमानः  तमृतवो याजयन्ति वसन्त आग्नीध्रस्तस्माद्वसन्ते
दावाश्चरन्ति तद्ध्यग्निरूपं ग्रीष्मोऽध्वर्युस्तप्त इव वै
ग्रीष्मस्तप्तमिवाध्वर्युर्निष्क्रामति वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति
साम्न इवोपब्दिः क्रियते शरद्ब्रह्मा तस्माद्यदा सस्यं पच्यते ब्रह्मण्वत्यः
प्रजा इत्याहुर्हेमन्तो होता तस्माद्धेमन्वषट्कृताः पशवः सीदन्त्येता ह वा एनं
देवता याजयन्ति स यद्येनमैषावीरा याजयेयुरेता एव देवता मनसा ध्यायेदेता
हैवैनं देवता याजयन्ति
 
११/२/७/३३
अथ हैषैव तुला  यद्दक्षिणो वेद्यन्तः स यत्साधु करोति तदन्तर्वेद्यथ
यदसाधु तद्बहिर्वेदि तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीत तुलायां ह वा
अमुष्मिंलोक आदधति यतरद्यंस्यति तदन्वेष्यति यदि साधु वासाधु वेत्यथ य
एवं वेदास्मिन्हैवलोके तुलामारोहत्यत्यमुष्मिंलोके तुलाधानं मुच्यते
साधुकृत्या हैवास्य यचति न पापकृत्या
 
११/३/१/१
वाग्घ वा एतस्याग्निहोत्रस्याग्निहोत्री  मन एव वत्सस्तदिदं मनश्च वाक्च
समानमेव सन्नानेव तस्मात्समान्या रज्ज्वा वत्सं च मातरं चाभिदधति  तेज
एव श्रद्धा सत्यमाज्यम्

११/३/१/२
तद्धैतज्जनको वैदेहः  याज्ञवल्क्यं पप्रच वेत्थाग्निहोत्रं याज्ञवल्क्या३ इति
वेद सम्राडिति किमिति पय एवेति
 
११/३/१/३
यत्पयो न स्यात्  केन जुहुया इति व्रीहियवाभ्यामिति यद्व्रीहियवौ न स्यातां केन
जुहुया इति या अन्या ओषधय इति यदन्या ओषधयो न स्युः केन जुहुया इति या आरण्या
ओषध्त्येनेति यद्वानस्पत्यं न स्यात्केन जुहुया इत्यद्भिरिति यदापो न स्युः केन
जुहुया इति
 
११/३/१/४
स होवाच  न वा इह तर्हि किं चनासीदथैतदहूयतैव सत्यं श्रद्धायामिति
वेत्थाग्निहोत्रं याज्ञवल्क्य धेनुशतं ददामीति होवाच
 
११/३/१/५
तदप्येते श्लोकाः  किं स्विद्विद्वान्प्रवसत्यग्निहोत्री गृहेभ्यः  कथं स्विदस्य
काव्यं कथं संततो अग्निभिरिति कथं स्विदस्यानपप्रोषितं भवतीत्येवैतदाह
 
११/३/१/६
यो जविष्ठो भुवनेषु  स विद्वान्प्रवसन्विदे तथा तदस्य काव्यं तथा संततो
अग्निभिरिति मन एवैतदाह मनसैवास्यानपप्रोषितं भवतीति
 
११/३/१/७
यत्स दूरं परेत्य  अथ तत्र प्रमाद्यति  कस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य
जुह्वतीति यत्स दूरं परेत्याथ तत्र प्रमाद्यति कस्मिन्नस्य साहुतिर्हुता
भवतीत्येवैतदाह
 
११/३/१/८
यो जागार भुवनेषु  विश्वा जातानि योऽबिभः  तस्मिन्त्सास्य हुताहुतिर्गृहे यामस्य
जुह्वतीति प्राणमेवैतदाह तस्मादाहुः प्राण एवाग्निहोत्रमिति
 
११/३/२/१
यो ह वा अग्निहोत्रे  षण्मिथुनानि वेद मिथुनेनमिथुनेन ह प्रजायते सर्वाभिः
प्रजातिभिर्यजमानश्च पत्नी च तदेकं मिथुनं तस्मादस्य पत्नीवदग्निहोत्रं
स्यादेतन्मिथुनमुपाप्नवानीति वत्सश्चाग्निहोत्री च तदेकं मिथुनं तस्मादस्य
पुंवत्साग्निहोत्री स्यादेतन्मिथुनमुपाप्नवानीति स्थाली चाङ्गाराश्च तदेकम्
मिथुनं स्रुक्च स्रुवश्च तदेकं मिथुनमाहवनीयश्च समिच्च तदेकम्
मिथुनमाहुतिश्च स्वाहाकारश्च तदेकं मिथुनमेतानि ह वा अग्निहोत्रे
षण्मिथुनानि तानि य एवं वेद मिथुनेनमिथुनेन ह प्रजायते सर्वाभिः
प्रजातिभिः
 
११/३/३/१
ब्रह्म वै मृत्यवे प्रजाः प्रायचत्  तस्मै ब्रह्मचारिणमेव न
प्रायचत्सोऽब्रवीदस्तु मह्यमप्येतस्मिन्भाग इति यामेव रात्रिं समिधं नाहराता
इति तस्माद्यां रात्रिं ब्रह्मचारी समिधं नाहरत्यायुष एव तामवदाय वसति
तस्माद्ब्रह्मचारी समिधमाहरेन्नेदायुषोऽवदाय वसानीति
 
११/३/३/२
दीर्घसत्त्रं वा एष उपैति  यो ब्रह्मचर्यमुपैति स
यामुपयन्त्समिधमादधाति सा प्रायणीया यां स्नास्यन्त्सोदयनीयाथ या अन्तरेण
सत्त्र्या एवास्य ता ब्राह्मणो ब्रह्मचर्यमुपयन्
 
११/३/३/३
चतुर्धा भूतानि प्रविशति  अग्निं पदा मृत्युं पदाचार्यं पदात्मन्येवास्य
चतुर्थः पादः परिशिष्यते
 
११/३/३/४
स यदग्नये समिधमाहरति  य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं
संस्कृत्यात्मन्धत्ते स एनमा!विशति
 
११/३/३/५
अथ यदात्मानं दरिद्रीकृत्येव  अह्रीर्भूत्वा भिक्षते य एवास्य मृत्यौ
पादस्तमेव तेन परिक्रीणाति तं संस्कृत्यात्मन्धत्ते स एनमाविशति
 
११/३/३/६
अथ यदाचार्यवचसं करोति  यदाचार्याय कर्म करोति य एवास्याचार्ये पादस्तमेव
तेन परिक्रीणाति तं संस्कृत्यान्मन्धत्ते स एनमाविशति

११/३/३/७
न ह वै स्नात्वा भिक्षेत  अप ह वै स्नात्वा भिक्षां जयत्यप
ज्ञातीनामशनायामप पितॄणां स एवं विद्वान्यस्या एव भूयिष्ठं श्लाघेत ताम्
भिक्षेतेत्याहुस्तल्लोक्यमिति स यद्यन्यां भिक्षितव्यां न विन्देदपि
स्वामेवाचार्यजायां भिक्षेताथो स्वां मातरं नैनं
सप्तम्यभिक्षितातीयात्तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह
वा अग्निः समिद्धो रोचत एवं ह वै स स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं
चरति
 
११/४/१/१
उद्दालको हारुणिः  उदीच्यान्वृतो धावयां चकार तस्य निष्क उपाहित आसैतद्ध स्म
वै तत्पूर्वेषां वृतानां धावयतामेकधनमुपाहितं भवत्युपवल्हाय
बिभ्यतां तान्होदीच्यानां ब्राह्मणान्भीर्विवेद
 
११/४/१/२
कौरुपञ्चालो वा अयं ब्रह्मा ब्रह्मपुत्रः  यद्वै नोऽयमर्धं न पर्याददीत
हन्तैनं ब्रह्मोद्यमाह्वयामहा इति केन वीरेणेति स्वैदायनेनेति शौनको ह
स्वैदायन आस
 
११/४/१/३
ते होचुः  स्वैदायन त्वया वीरेणेमं प्रतिसंयतामहा इति स होवाचोपात्र खलु
रमताहं न्वेनं वेदानीति तं हाभिप्रपेदे तं हाभिप्रपन्नमभ्युवाद
स्वैदायना३ इति हो३ गौतमस्य पुत्रेतीतरः प्रतिशुश्राव तं ह तत एव प्रष्टुं
दध्रे
 
११/४/१/४
स वै गौतमस्य पुत्र वृतो जनं धावयेत्  यो दर्शपूर्णमासयोरष्टौ
पुरस्तादाज्यभागान्विद्यात्पञ्च मध्यतो हविर्भागान्षट्प्राजापत्यानष्टा
उपरिष्टादाज्यभागान्
 
११/४/१/५
स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा अदन्तका जायन्ते यस्मादासां
जायन्ते यस्मादासां प्रभिद्यन्ते यस्मादासां संस्तिष्ठन्ते यस्मादासाम्
पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते यस्मादधर एवाग्रे जायन्तेऽथोत्तरे
यस्मादणीयांस एवाधरे प्रथीयांस उत्तरे यस्माद्दंष्ट्रा वर्षीयांसो यस्मात्समा
एव जम्भ्याः

११/४/१/६
स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासाम्
पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्ते यस्माचीर्षण्येवाग्रे पलितो
भवत्यथ पुनरुत्तमे वयसि सर्व एव पलितो भवति
 
११/४/१/७
स वै गौतमस्य पुत्र वृतो जनं धावयेत्
यस्तद्दर्शपूर्णमासयोर्विद्याद्यस्मात्कुमारस्य रेतः सिक्तं न सम्भवति
यस्मादस्य मध्यमे वयसि सम्भवति यस्मादस्य पुनरुत्तमे वयसि न
सम्भवति
 
११/४/१/८
यो गायत्रीं हरिणीम्  ज्योतिष्पक्षां यजमानं स्वर्गं लोकमभिवहन्तीं विद्यादिति
तस्मै ह निष्कं प्रददावनूचानः स्वैदायनासि सुवर्णं वाव सुवर्णविदे ददतीति
तं होपगुह्य निश्चक्राम तं ह पप्रचुः किमिवैष गौतमस्य पुत्रोऽभूदिति
 
११/४/१/९
स होवाच  यथा ब्रह्मा ब्रह्मपुत्रो मूर्धास्य विपतेद्य एनमुपवल्हेतेति ते ह
तत एव विप्रेयुस्तं ह तत एव समित्प्राणिः प्रतिचक्रमुप त्वायानीति
किमध्येष्यमाण इति यानेव मा प्रश्नानप्राक्षीस्तानेव मे विब्रूहीति स
होवाचानुपेतायैव त एनान्ब्रवाणीति
 
११/४/१/१०
तस्मा उ हैतदुवाच  द्वावाघारौ पञ्च प्रयाजा आग्नेय आज्यभागोऽष्टम एतेऽष्टौ
पुरस्तादाज्यभागाः सौम्य आज्यभागो हविर्भागाणां प्रथमो हविर्हि सोम
आग्नेयः पुरोडाशोऽग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदेते
पञ्च मध्यतो हविर्भागाः
 
११/४/१/११
प्राशित्रं चेडा च  यच्चाग्नीध आदधाति ब्रह्मभागो यजमानभागोऽन्वाहार्य एते
षट्प्राजापत्यास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टममेतेऽष्टा
उपरिष्टादाज्यभागाः
 
११/४/१/१२
अथ यदपुरोऽनुवाक्यकाः प्रयाजा भवन्ति  तस्मादिमाः प्रजा अदन्तका जायन्तेऽथ
यत्पुरोऽनुवाक्यवन्ति हवींषि भवन्ति तस्मादासां जायन्तेऽथ यदपुरोऽनुवाक्यका
अनुयाजा भवन्ति तस्मादासां प्रभिद्यन्तेऽथ यत्पुरोऽनुवाक्यवन्तः पत्नीसंयाजा
भवन्ति तस्मादासां संतिष्ठन्तेऽथ यदपुरोऽनुवाक्यकं समिष्टयजुर्भवति
तस्मादासां पुनरुत्तमे वयसि सर्व एव प्रभिद्यन्ते
 
११/४/१/१३
अथ यदनुवाक्यामनूच्य  याज्यया यजति तस्मादधर एवाग्रे जायन्तेऽथोत्तरेऽथ
यद्गायत्रीमनूच्य त्रिष्टुभा यजति तस्मादणीयांस एवाधरे प्रथीयांस उत्तरेऽथ
यत्प्राञ्चावाघारावाघारयति तस्माद्दंष्ट्रा वर्षीयांसोऽथ यत्सचन्दसावेव
संयाज्ये भवतस्तस्मात्समा एव जम्भ्याः
 
११/४/१/१४
अथ यद्बर्हि स्तृणाति  तस्मादिमाः प्रजा लोमशा जायन्तेऽथ यत्पुनरिव प्रस्तरं
स्तृणाति तस्मादासां पुनरिव श्मश्रूण्यौपपक्ष्याणि दुर्बीरिणानि जायन्तेऽथ
यत्केवलमेवाग्रे प्रस्तरमनुप्रहरति तस्माचीर्षण्येवाग्रे पलितो भवत्यथ
यत्सर्वमेव बर्हिरनुप्रहरति तस्मात्पुनरुत्तमे वयसि सर्व एव पलितो भवति
 
११/४/१/१५
अथ यदाज्यहविषः प्रयाजा भवन्ति  तस्मात्कुमारस्य रेतः सिक्तं न
सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यमथ यन्मध्ये यज्ञस्य
दध्ना पुरोडाशेनेति यजन्ति तस्मादस्य मध्यमे वयसि सम्भवति द्रप्सीवैव
भवति द्रप्सीव हि रेतोऽथ यदाज्यहविष एवानुयाजा भवन्ति तस्मादस्य
पुनरुत्तमे वयसि न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यम्
 
११/४/१/१६
वेदिरेव गायत्री  तस्यै येऽष्टौ पुरस्तादाज्यभागाः स दक्षिणः पक्षो येऽष्टा
उपरिष्टादाज्यभागाः स उत्तरः पक्षः सैषा गायत्री हरिणी ज्योतिष्पक्षा यजमानं
स्वर्गं लोकमभिवहति य एवमेतद्वेद
 
११/४/२/१
अथातः स्रुचोरादानस्य  तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव
जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा
अयमध्वर्युर्यजमानस्य द्विषन्तं भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह
तथैव स्यात्
 
११/४/२/२
इत्थमेव कुर्यात्  उभाभ्यामेव प्राणिभ्यां जुहूम्
परिगृह्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते
असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो
यजमानमृचेत्तस्मादसंशिञ्जयन्नाददीत
 
११/४/२/३
अथातोऽतिक्रमणस्य  वज्रेण ह वा अन्योऽध्वर्युर्यजमानस्य पशून्विधमति वज्रेण
हास्मा अन्य उपसमूहत्येष ह वा अध्वर्युर्वज्रेण यजमानस्य पशून्विधमति य
आश्रावयिष्यन्दक्षिणेनातिक्रामति सव्येनाश्राव्याथ हास्मा एष उपसमूहति य
आश्रावयिष्यन्त्सव्येनातिक्रामति दक्षिणेनाश्राव्यैष हास्मा उपसमूहति
 
११/४/२/४
अथातो धारणस्य  तद्धैतदेके कुशला मन्यमानाः प्रगृह्य बाहू स्रुचौ
धारयन्ति न तथा कुर्याद्यो हैनं तत्र ब्रूयाचूलौ न्वा अयमध्वर्युर्बाहू अकृत
शूलबाहुर्भविष्यतीतीश्वरो ह तथैव स्यादथ हैष मध्यमः प्राणस्तस्मादु
तमुपन्यच्येवैव धारयेत्
 
११/४/२/५
अथात आश्रावणस्य  षडु वा आश्रावितानि न्यक्तिर्यगूर्ध्वं कृपणं बहिःश्र्यन्तःश्रि
 
११/४/२/६
एतद्ध वै न्यक् योऽयमुच्चैरादाय शनैर्निदधाति स यमिचेत्पापीयान्त्स्यादिति
तस्योच्चैरादाय शनैर्निदध्यात्तेन स पापीयान्भवति
 
११/४/२/७
अथ हैतत्तिर्यक् योऽयं यावतैवादत्ते तावता निदधाति स यमिचेन्नैव
श्रेयान्त्स्यान्न पापीयानिति तस्य यावतैवाददीत तावता निदध्यात्तेन स नैव
श्रेयान्न
पापीयान्भवति
 
११/४/२/८
अथ हैतदूर्ध्वम्  योऽयं शनैरादायोच्चैर्निदधाति स यमिचेच्रेयान्त्स्यादिति तस्य
शनैरादायोच्चैर्निदध्यात्तेन स श्रेयान्भवति
 
११/४/२/९
अथ हैतत्कृपणम्  योऽयमणु दीर्घमस्वरमाश्रावयति यो हैनं तत्र
ब्रूयात्कृपणं न्वा अयमध्वर्युर्यजमानमकद्द्विषतो
भ्रातृव्यस्योपावसायिनमितीश्वरो ह तथैव स्यात्
 
११/४/२/१०
अथ हैतद्बहिःश्रि  योऽयमपव्यादायौष्ठा उच्चैरस्वरमाश्रावयति श्रीर्वै स्वरो
बाह्यत एव तच्रियं धत्तेऽशनायुको भवति
 
११/४/२/११
अथ हैतदन्तःश्रि  योऽयं संधायौष्ठा उच्चैः स्वरवदाश्रावयति श्रीर्वै
स्वरोऽन्तरत एव तच्रियं धत्तेऽन्नादो भवति
 
११/४/२/१२
स वै मन्द्रमिवोरसि  परास्तभ्योभयतोबार्हतमुच्चैरन्ततो निदध्यात्तस्य
नोपमीमांसास्ति तत्पशव्यमायुष्यम्
 
११/४/२/१३
अथातो होमस्य  तद्धैतदेके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा
पर्याहृत्योपभृत्यधिनिदधति न तथा कुर्याद्यो हैनं तत्र ब्रूयादनुयुवं न्वा
अयमध्वर्युर्यजमानमकद्द्विषतो भ्रातृव्यस्यान्ववसायिनमितीश्वरो ह
तथैव स्यात्
 
११/४/२/१४
पार्श्वत उ हैके  स्रुचमुपावहृत्य हुत्वा पर्याहृत्योपभृत्यधिनिदधति न तथा
कुर्याद्यो हैनं तत्र ब्रूयादतीर्थेन न्वा अयमध्वर्युराहुतीः प्रारौत्सीत्सं वा
शरिष्यते घुणिर्वा भविष्यतीतीश्वरो ह तथैव स्यात्
 
११/४/२/१५
इत्थमेव कुर्यात्  प्राचीमेव स्रुचमुपावहृत्य हुत्वा
तेनैवाधिहृत्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यम्
 
११/४/२/१६
प्रदग्धाहुतिर्ह वा अन्योऽध्वर्युः  आहुतीर्हान्यः संतर्पयत्येष ह वै
प्रदग्धाहुतिरध्वयुर्योऽयमाज्यं हुत्वावदानानि जुहोत्येतं ह वै
तददृश्यमाना वागभ्युवाद प्रदग्धाहुतिर्न्वा अयमध्वर्युरित्यथ हैना एष
संतर्पयति योऽयमाज्यं हुत्वावदानानि जुहोत्यथ पुनरन्तत आज्येनाभिजुहोत्येष
हैनाः संतर्पयति तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्ते
 
११/४/२/१७
तदु होवाच याज्ञवल्क्यः  यद्वा उपस्तीर्यावदायाभिघारयति तदेवैनाः संतर्पयति
तासां संतृप्तानां देवा हिरण्मयांश्चमसान्पूरयन्तेऽयस्थूणगृहपतीनां वै
शौल्बायनोऽध्वर्युरास
 
११/४/२/१८
स होवाच  इदमहेदं सत्त्रं कृशपश्वल्पाज्यमथायं गृहपतिरस्मीति मन्यत इति
 
११/४/२/१९
स होवाच  अध्वर्यवा वै नोऽक्रुक्ष एते वै ते स्रुचौ ये त्वं संवत्सरं नाशक
आदातुं यद्वै त्वाहमेतयोरनुशिष्यां प्र प्रजया पशुभिर्जायेथा अभि स्वर्गं
लोकं वहेरिति
 
११/४/२/२०
स होवाच  उप त्वायानीति स होवाचात्र वाव खल्वर्हसि यो नः
संवत्सरेऽध्वर्युरभूरनुपेतायैव त एतद्ब्रवाणीति तस्मा उ हैतदेव
स्रुचोरादानमुवाच यदेतद्व्याख्यां तस्मादेवंविदमेवाध्वर्युं
कुर्वीतनानेवंविदम्
 
११/४/३/१
प्रजापतिर्वै प्रजाः सृजमानोऽतप्यत  तस्माच्रान्तात्तपानाच्रीरुदक्रामत्सा
दीप्यमाना
भ्राजमाना लेलायन्त्यतिष्ठतां दीप्यमानां भ्राजमानां लेलायन्तीं देवा
अभ्यध्यायन्
 
११/४/३/२
ते प्रजापतिमब्रुवन्  हनामेमामेदमस्या ददामहा इति स होवाच स्त्री वा एषा
यच्रीर्न वै स्त्रियं घ्नन्त्युत त्वा अस्या जीवन्त्या एवाददत इति
 
११/४/३/३
तस्या अग्निरन्नाद्यमादत्त  सोमो राज्यं वरुणः साम्राज्यं मित्रः क्षत्रमिन्द्रो
बलं बृहस्पतिर्ब्रह्मवर्चसं सविता राष्ट्रं पूषा भगं सरस्वती पुष्टिं
त्वष्टा रूपाणि
 
११/४/३/४
सा प्रजापतिमब्रवीत्  आ वै म इदमदिषतेति स होवाच यज्ञेनैनान्पुनर्याचस्वेति
 
११/४/३/५
सैतां दशहविषमिष्टिमपश्यत्  आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं
वारुणं दशकपालं पुरोडाशं मैत्रं चरुमैन्द्रमेकादशकपालम्
पुरोडाशं बार्हस्पत्यं चरुं सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशम्
पौष्णं चरुं सारस्वतं चरुं त्वाष्ट्रं दशकपालं पुरोडाशम्
 
११/४/३/६
तानेतयानुवाक्ययान्ववदत्  अग्निः सोमो वरुणो मित्र इन्द्रो बृहस्पतिः सविता यः
सहस्री पूषा नो गोभिरवसा सरस्वती त्वष्टा रूपाणि समनक्तु यज्ञैरिति ते
प्रत्युपातिष्ठन्त
 
११/४/३/७
तानेतया याज्यया  परस्तात्प्रतिलोमं प्रत्यैत्त्वष्टा रूपाणि ददती सरस्वती पूषा
भगं सविता मे ददातु  बृहस्पतिर्दददिन्द्रो बलं मे मित्रं क्षत्रं वरुणः
सोमो अग्निरिति ते पुनर्दानायाध्रियन्त
 
११/४/३/८
सैतानुपहोमानपश्यत्  अग्निरन्नादोऽन्नपतिरन्नाद्यमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादायाग्निरुदक्रामत्पुनरस्या अन्नाद्यमददात्
 
११/४/३/९
सोमो राजा राजपतिः  राज्यमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय सोम
उदक्रामत्पुनरस्यै राज्यमददात्
 
११/४/३/१०
वरुणः सम्राट्सम्राट्पतिः  साम्राज्यमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय वरुण उदक्रामत्पुनरस्यै साम्राज्यमददात्

११/४/३/११
मित्रः क्षत्रं क्षत्रपतिः  क्षत्रमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय मित्र! उदक्रामत्पुनरस्यै क्षत्रमददात्
 
११/४/३/१२
इन्द्रो बलं बलपतिः  बलमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादायेन्द्र
उदक्रामत्पुनरस्यै बलमददात्
 
११/४/३/१३
बृहस्पतिर्ब्रह्म ब्रहस्पतिः  ब्रह्मवर्चसमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय बृहस्पतिरुदक्रामत्पुनरस्यै ब्रह्मवर्चसमददात्
 
११/४/३/१४
सविता राष्ट्रं राष्ट्रपतिः  राष्ट्रमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय
सवितोदक्रामत्पुनरस्यै राष्ट्रमददात्
 
११/४/३/१५
पूषा भगं भगपतिः  भगमस्मिन्यज्ञे मयि दधातु स्वाहेत्याहुतिमेवादाय
पूषोदक्रामत्पुनरस्यै भगमददात्
 
११/४/३/१६
सरस्वती पुष्टिं पुष्टिपतिः  पुष्टिमस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय सरस्वत्युदक्रामत्पुनरस्यै पुष्टिमददात्
 
११/४/३/१७
त्वष्टा रूपाणां रूपकृद्रूपपतिः  रूपेण पशूनस्मिन्यज्ञे मयि दधातु
स्वाहेत्याहुतिमेवादाय त्वष्टोदक्रामत्पुनरस्यै रूपेण पशूनददात्श दक्षिणा
दशंदशिनी विराट्श्रीर्विराट्श्रियां हश दक्षिणा दशंदशिनी विराट्श्रीर्विराट्श्रियां
 
११/४/३/१८
ता वा एताः  दश देवता दश हवींषि दशाहुतयो दैतद्विराज्यन्नाद्ये प्रतितिष्ठति

११/४/३/१९
तस्यै पञ्चदश सामिधेन्यो भवन्ति  उपांशु देवता यजति पञ्च प्रयाजा भवन्ति
त्रयोऽनुयाजा एकं समिष्टयजुः पुष्टिमन्तावाज्यभागावग्निना
रयिमश्नवत्पोषमेव दिवेदिवे यशसं वीरवत्तमम्  गयस्फानो अमीवहा
वसुवित्पुष्टिवर्धनः  सुमित्रः सोम नो भवेति  सहस्रवत्यौ संयाज्ये नू नो
रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु  द्युमदग्ने सुवीर्यं
वर्षिष्ठमनुपक्षितम्  उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः  शं नः
शोचा मरुद्वृधोऽग्ने सहस्रसातम इति
 
११/४/३/२०
तां हैतां गोतमो राहूगणः  विदां चकार सा ह जनकं वैदेहं प्रत्युत्ससाद तां
हाङ्गिजिद्ब्राह्मणेष्वन्वियेष तामु ह याज्ञवल्क्ये विवेद स होवाच सहस्रं भो
याज्ञवल्क्य दद्नो यस्मिन्वयं त्वयि मित्रविन्दामन्वविदामेति विन्दते मित्रं
राष्ट्रमस्य भवत्यप पुनर्मृत्युं जयति सर्वमायुरेति य एवं विद्वानेतयेष्ट्या
यजते यो वैतदेवं वेद
 
११/४/४/१
अथातो हविषः समृद्धिः  षड्ढ वै ब्रह्मणो द्वारोऽग्निर्वायुरापश्चन्द्रमा
विद्युदादित्यः
 
११/४/४/२
स य उपदग्धेन हविषा यजते  अग्निना ह स ब्रह्मणो द्वारेण प्रतिपद्यते
सोऽग्निना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति
 
११/४/४/३
अथ यो विपतितेन हविषा यजते  वायुना ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
वायुना ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति
 
११/४/४/४
अथ योऽशृतेन हविषा यजते  अद्भिर्हि स ब्रह्मणो द्वारेण प्रतिपद्यते
सोऽद्भिर्ब्रह्मणो द्वारेण प्रतिप
 
११/४/४/५
अथ य उपरक्तेन हविषा यजते  चन्द्रमसा ह स ब्रह्मणो द्वारेण प्रतिपद्यते
स चन्द्रमसा ब्रह्मणो द्वारेण प्रतिप

११/४/४/६
अथ यो लोहितेन हविषा यजते  विद्युता ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
विद्युता ब्रह्मणो द्वारेण प्रतिप
 
११/४/४/७
अथ यः सुशृतेन हविषा यजते  आदित्येन ह स ब्रह्मणो द्वारेण प्रतिपद्यते स
आदित्येन ब्रह्मणो द्वारेण प्रतिपद्य ब्रह्मणः सायुज्यं सलोकतां जयति सैषा
हविषः समृद्धिः स यो हैवमेतां हविषः समृद्धिं वेद सर्वसमृद्धेन
हैवास्य हविषेष्टं भवति
 
११/४/४/८
अथातो यज्ञस्य समृद्धिः  यद्वै यज्ञस्य न्यूनं प्रजननमस्य तदथ
यदतिरिक्तं पशव्यमस्य तदथ यत्संकसुकं श्रिया अस्य तदथ यत्सम्पन्नं
स्वर्ग्यमस्य तत्
 
११/४/४/९
स यदि मन्येत  न्यूनं मे यज्ञेऽभूदिति प्रजननं म एतत्प्रजनिष्य इत्येव
तदुपासीत
 
११/४/४/१०
अथ यदि मन्येत  अतिरिक्तं मे यज्ञेऽभूदिति पशव्यं म
एतत्पशुमान्भविष्यामीत्येव तदुपासीत
 
११/४/४/११
अथ यदि मन्येत  संकसुकं मे यज्ञेऽभूदिति श्रियै म एतदा मा श्रीस्तेजसा यशसा
ब्रह्मवर्चसेन परिवृता गमिष्यतीत्येव तदुपासीत
 
११/४/४/१२
अथ यदि मन्येत  सम्पन्नं मे यज्ञेऽभूदिति स्वर्ग्यं म एतत्स्वर्गलोको
भविष्यामीत्येव तदुपासीत सैषा यज्ञस्य समृद्धिः स यो हैवमेतां यज्ञस्य
समृद्धिं वेद सर्वसमृद्धेन हैवास्य यज्ञेनेष्टं भवति
 
११/५/१/१
उर्वशी हाप्सराः  पुरूरवसमैडं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो
वैतसेन दण्डेन हतादकामां स्म मा निपद्यासै मो स्म त्वा नग्नं दर्शमेष
वै न स्त्रीणामुपचार इति
 
११/५/१/२
सा हास्मिन्योगुवास  अपि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह
गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्मीदुपजानीत यथेयम्
पुनरागचेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वा
अन्यतरमुरणं प्रमेथुः
 
११/५/१/३
सा होवाच  अवीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह
तथैवोवाच
 
११/५/१/४
अथ हायमीक्षां चक्रे  कथं नु तदवीरं कथमजनं स्याद्यत्राहं स्यामिति स
नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा
विद्युतं जनयां चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव
पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यातःप्लक्षेति
बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे
 
११/५/१/५
तं हेयं ज्ञात्वोवाच  अयं वै स मनुष्यो यस्मिन्नहमवात्समिति ता होचुस्तस्मै
वा आविरसामेति तथेति तस्मै हाविरासुः
 
११/५/१/६
तां हायं ज्ञात्वाभिपरोवाद  हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा
कृणवावहै नु न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन्नित्युप नु
रम सं नु वदावहा इति हैवैनां तदुवाच
 
११/५/१/७
तं हेतरा प्रत्युवाच  किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव
पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मीति न वै त्वं
तदकरोर्यदहमब्रवं दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति
हैवैनं तदुवाच

११/५/१/८
अथ हायं परिद्यून उवाच  सुदेवो अद्य प्रपतेदनावृत्परावतं परमाम्
गन्तवाउ  अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युरिति सुदेवोऽद्योद्वा
बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच
 
११/५/१/९
तं हेतरा प्रत्युवाच  पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ
क्षन्  न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येतेति मैतदादृथा न वै
स्त्रैणं सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच
 
११/५/१/१०
यद्विरूपाचरम्  मर्त्येष्ववसं रात्रीः शरदश्चतस्रः  घृतस्य स्तोकं सकृदह्नु
आश्नां तादेवेदं तातृपाणा चरामीति तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः
प्राहुस्तस्यै ह हृदयमाव्ययां चकार
 
११/५/१/११
सा होवाच  संवत्सरतमीं रात्रिमागचतात्तन्म एकां रात्रिमन्ते शयितासे जात उ
तेऽयं तर्हि पुत्रो भवितेति स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि
ततो हैनमेकमूचुरेतत्प्रपद्यस्वेति तद्धास्मै तामुपप्रजिध्युः
 
११/५/१/१२
सा होवाच  गन्धर्वा वै ते प्रातर्वरं दातारस्तं वृणासा इति तं वै मे त्वमेव
वृणीष्वेति युष्माकमेवैकोऽसानीति ब्रूतादिति तस्मै ह प्रातर्गन्धर्वा वरं ददुः
स होवाच युष्माकमेवैकोऽसानीति
 
११/५/१/१३
ते होचुः  न वै सा मनुष्येष्वग्नेर्यज्ञिया तनूरस्ति ययेष्ट्वास्माकमेकः स्यादिति
तस्मै ह स्थाल्यामोप्याग्निं प्रददुरनेनेष्ट्वास्माकमेको भविष्यसीति तं च ह
कुमारं चादायावव्राज सोऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय
पुनरैमीत्येत्तिरोभूतं योऽग्निरश्वत्थं तं या स्थाली शमीं तां स ह
पुनर्गन्धर्वानेयाय
 
११/५/१/१४
ते होचुः  संवत्सरं चातुष्प्राश्यमोदनं पच स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः
समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिरृग्भिरभ्याधत्तात्स
यस्ततोऽग्निर्जनिता स एव स भवितेति
 
११/५/१/१५
ते होचुः  परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्व
शमीमयीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति
 
११/५/१/१६
ते होचुः  परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्वाश्वत्थीमधरारणिं
स यस्ततोऽग्निर्जनिता स एव स भवितेति
 
११/५/१/१७
स आश्वत्थीमेवोत्तरारणिं चक्रे  आश्वत्थीमधरारणिं स यस्ततोऽग्निर्जज्ञे स एव स
आस तेनेष्ट्वा गन्धर्वाणामेक आस तस्मादाश्वत्थीमेवोत्तरारणिं
कुर्वीताश्वत्थीमधरारणिं स यस्ततोऽग्निर्जायते स एव स भवति तेनेष्ट्वा
गन्धर्वाणामेको भवति
 

११/५/२/१
प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे  स इममेव दक्षिणं बाहुं
वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं
सावित्रं
 
११/५/२/२
स वै वर्षिष्ठः पुरोडाशो भवति  तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम्
पौष्णमथ य एष उपरिष्टाद्धस्तस्य संधिस्तन्मारुतमिदं वैश्वदेवं
दोर्द्यावापृथिवीयं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम्
 
११/५/२/३
अयमेव दक्षिण ऊरुर्वरुणप्रघासाः  तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ
द्वौ कुल्फाविदं वारुणमिदं मारुतमनूकं कायस्तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तम्
 
११/५/२/४
मुखमेवास्यानीकवतीष्टिः  मुखं हि प्राणानामनीकमुरः सांतपनीयोरसा हि
समिव तप्यत उदरं गृहमेधीया प्रतिष्ठा वा उदरं प्रतिष्ठित्या एव
शिश्नान्येवास्य क्रैडिनं हविः शिश्नैर्हि क्रीडतीवायमेवावाङ्प्राण आदित्येष्टिः
 
११/५/२/५
अयमेवोत्तर ऊरुर्महाहविः  तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयः कुल्फावेवैन्द्राग्नं हविस्तद्वै द्विदेवत्यं भवति तस्मादिमौ
द्वौ कुल्फाविदं माहेन्द्रमिदं वैश्वकर्मणं तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तमथ यदिदमन्तरुदरे तत्पितृयज्ञस्तद्वा अनिरुक्तं भवति
तस्मात्तदनिरुक्तम्
 
११/५/२/६
अयमेवोत्तरो बाहुः शुनासीरीयम्  तस्य यानि पञ्च हवींषि समायीनि ता इमाः
पञ्चाङ्गुलयोऽथ य एष उपरिष्टाद्धस्तस्य संधिस्तचुनासीरीयमिदं वायव्यं दोः
सौर्यं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम्
 
११/५/२/७
तानि वा एतानि  चातुर्मास्यानि त्रिषंधीनि द्विसमस्तानि तस्मादिमानि पुरुषस्याङ्गानि
त्रिषंधीनि द्विसमस्तानि तेषां वै चतुर्णां द्वयोस्त्रीणित्रीणि हवींष्यनिरुक्तानि
भवन्ति द्वेद्वे द्वयोः
 
११/५/२/८
तेषां वै चतुर्ष्वग्निं मन्थन्ति  तस्माच्चतुर्भिरङ्गैरायुते द्वयोः प्रणयन्ति
तस्माद्द्वाभ्यामेत्येवमु ह प्रजापतिश्चातुर्मास्यैरात्मानं विदधे तथो
एवैवंविद्यजमानश्चातुर्मास्यैरात्मानं विधत्ते
 
११/५/२/९
तदाहुः  स्वर्गायत्रं वैश्वदेवं हविः स्यात्सर्वत्रैष्टुभं वरुणप्रघासाः
सर्वजागतं महाहविः सर्वानुष्टुभं शुनासीरीयं चतुष्टोमस्याप्स्या इति तदु
तथा न कुर्याद्यत्त्वा एतान्यभिसम्पद्यन्ते तेनैवास्य स काम उपाप्तो भवति
 
११/५/२/१०
तानि वा एतानि  चातुर्मास्यानि द्वाषष्टानि त्रीणि शतानि बृहत्यः सम्पद्यन्ते तदेभिः
संवत्सरं च महाव्रतं चाप्नोत्यथो द्विप्रतिष्ठो वा अयं यजमानो
यजमानमेवैतत्स्वर्गे लोक आयातयति प्रतिष्ठापयति

११/५/३/१
शौचेयो ह प्राचीनयोग्यः  उद्दाल्ल्कमारुणिमाजगाम ब्रह्मोद्यमग्निहोत्रं
विविदिषामीति
 
११/५/३/२
स होवाच  गौतम का तेऽग्निहोत्री को वत्सः किमुपसृष्टा किं संयोजनं किं
दुह्यमानं किं दुग्धं किमाह्रियमाणं किमधिश्रितं किमवज्योत्यमानं
किमद्भिः प्रत्यानीतं किमुद्वास्यमानं किमुद्वासितं किमुन्नीयमानं
किमुन्नीतं किमुद्यतं किं ह्रियमाणं किं निगृहीतम्
 
११/५/३/३
कां समिधमादधासि का पूर्वाहुतिः किमुपासीषदः किमपैक्षिष्ठाः कोत्तराहुतिः
 
११/५/३/४
किं हुत्वा प्रकम्पयसि  किं स्रुचं परिमृज्य कूर्चे न्यमार्जीः किं द्वितीयम्
परिमृज्य दक्षिणतो हस्तमुपासीषदः किं पूर्वं प्राशीः किं द्वितीयं
किमुत्सृप्यापाः किं स्रुच्यप आनीय निरौक्षीः किं द्वितीयं किं तृतीयमेतां
दिशमुदौक्षीः किं जघनेनाहवनीयमपो न्यनैषीः किं समतिष्ठिपो यदि वा
एतद्विद्वानग्निहोत्रमहौषीरथ ते हुतं यद्यु वा अविद्वानहुतमेव त इति
 
११/५/३/५
स होवाच  इडैव मे मानव्यग्निहोत्री वायव्यो वत्सः सजूरुपसृष्टा विराट्
संयोजनमाश्विनं दुह्यमानं वैश्वदेवं दुग्धं
वायव्यमाह्रियमाणमाग्नेयमधिश्रितमैन्द्राग्नमवज्योत्यम्नानं
वारुणमद्भिः प्रत्यानीतं वायव्यमुद्वास्यमानं
द्यावापृथिव्यमुद्वासितमाश्विनमुन्नीयमानं वैश्वदेवमुन्नीतम्
महादेवायोद्यतं वायव्यं ह्रियमाणं वैष्णवं निगृहीतम्
 
११/५/३/६
अथ यां समिधमादधामि  आहुतीनां सा प्रतिष्ठा या पूर्वाहुतिर्देवांस्तयाप्रैषं
यदुपासीषदं बार्हस्पत्यं तद्यदपैक्षिषीमं चामुं च लोकौ तेन समधां
योत्तराहुतिर्मां तया स्वर्गे लोकेऽधाम्
 
११/५/३/७
अथ यद्धुत्वा प्रकम्पयामि  वायव्यं तद्यत्स्रुचं परिमृज्य कूर्चे
न्यमार्जिषधिवनस्पतींस्तेनाप्रैषं यद्द्वितीयं परिमृज्य दक्षिणतो
हस्तमुपासीषदं पितॄंस्तेनाप्रैषं यत्पूर्वं प्राशिषं मां तेनाप्रैषं
यद्द्वितीयं प्रजां तेनाथ यदुत्सृप्यापां पशूंस्तेनाप्रैषं यत्स्रुच्यप आनीय
निरौक्षिषं सर्पदेवजनांस्तेनाप्रैषं यद्द्वितीयं गन्धर्वाप्सरसस्तेनाथ
यत्तृतीयमेतां दिशमुदौक्षिषं स्वर्गस्य लोकस्य तेन द्वारं व्यवारिषं
यज्जघनेनाहवनीयमपो न्यनैषमस्मै लोकाय तेन वृष्टिमदां
यत्समतिष्ठिपं यत्पृथिव्या ऊनं तत्तेनापूपुरमित्येतन्नौ भगवन्त्सहेति होवाच
 
११/५/३/८
शौचेयो ज्ञप्तः  प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यस्मिन्काल उद्धृतास्तेऽग्नयः स्युरुपावहृतानि पात्राणि होष्यन्त्स्या अथ त
आहवनीयोऽनुगचेद्वेत्थ तद्भयं यदत्र जुह्वतो भवतीति वेदेति होवाच पुरा
चिरादस्य ज्येष्ठः पुत्रो म्रियेत यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति प्राण
उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच
 
११/५/३/९
शौचेयो ज्ञप्तः  प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले गार्हपत्योऽनुगद्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्य गृहपतिर्म्रियेत यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरित्युदानः
प्राणमप्यगादित्याहवनीय आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच
 
११/५/३/१०
शौचेयो ज्ञप्तः  प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव कालेऽन्वा?आर्यपचनोऽनुगचेद्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्य सर्वे पशवो म्रियेरन्यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति व्यान
उदानमप्यगादिति गार्हपत्य आहुतिं जुहुयां सैव प्रायश्चित्तिर्न तदागः
कुर्वीयेत्येतन्नौ भगवन्त्सहेति होवाच
 
११/५/३/११
शौचेयो ज्ञप्तः  प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले सर्वेऽग्नयोऽनुगचेयुर्वेत्थ तद्भयं यदत्र जुह्वतो
भवतीति वेदेति होवाच पुरा चिरादस्यादायादं कुलं स्याद्यस्यैतदविदितं
स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निम्
मथित्वा यां दिशं वातो वायात्तां दिशमाहवनीयमुद्धृत्य वायव्यामाहुतिं
जुहुयां स विद्यां समृद्धं मेऽग्निहोत्रं सर्वदेवत्यं वायुं ह्येव सर्वाणि
भूतान्यपियन्ति वायोः पुनर्विसृज्यन्ते सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्येतन्नौ
भगवन्त्सहेति होवाच

११/५/३/१२
शौचेयो ज्ञप्तः  प्रक्ष्यामि त्वेव भगवन्तमिति पृचैव प्राचीनयोग्येति स होवाच
यत्र त एतस्मिन्नेव काले निवाते सर्वेऽग्नयोऽनुगचेयुर्वेत्थ तद्भयं यदत्र
जुह्वतो भवतीति वेदेति होवाचाप्रियमेवास्मिंलोके
पश्येताप्रियममुष्मिन्यस्यैतदविदितं स्याद्विद्याभिस्त्वेवाहमतारिषमिति किं
विदितं का प्रायश्चित्तिरिति पुरा चिरादग्निं मथित्वा प्राञ्चमाहवनीयमुद्धृत्य
जघनेनाहवनीयमुपविश्याहमेवैनत्पिबेयं स विद्यां समृद्धं मेऽग्निहोत्रं
सर्वदेवत्यं ब्राह्मणं ह्येव सर्वाणि भूतान्यपियन्ति ब्राह्मणात्पुनर्विसृज्यन्ते
सैव प्रायश्चित्तिर्न तदागः कुर्वीयेत्यथ वा अहमेतन्नावेदिषमिति होवाच
 
११/५/३/१३
शौचेयो ज्ञप्तः  इमानि समित्काष्ठान्युपायानि भगवन्तमिति स होवाच यदेवं
नावक्ष्यो मूर्धा ते व्यपतिष्यदेह्युपेहीति तथेति तं होपनिन्ये तस्मै हैतां
शोकतरां व्याहृतिमुवाच यत्सत्यं तस्मादु सत्यमेव वदेत्
 
११/५/४/१
ब्रह्मचर्यमागामित्याह  ब्रह्मण एवैतदात्मानं निवेदयति
ब्रह्मचार्यसानीत्याह ब्रह्मण एवैतदात्मानं परिददात्यथैनमाह को
नामासीति प्रजापतिर्वै कः प्राजापत्यमेवैनं तत्कृत्वोपनयते
 
११/५/४/२
अथास्य हस्तं गृह्णाति  इन्द्रस्य
ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासावित्येते वै श्रेष्ठे बलिष्ठे देवते
एताभ्यामेवैनं श्रेष्ठाभ्यां बलिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य
ब्रह्मचारी न कां चनार्तिमार्चति न स यएवं वेद
 
११/५/४/३
अथैनं भूतेभ्यः परिददाति  प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे
परिददामीत्येते वै श्रेष्ठे वर्षिष्ठे देवते एताभ्यामेवैनं श्रेष्ठाभ्यां
वर्षिष्ठाभ्यां देवताभ्यां परिददाति तथा हास्य ब्रह्मचारी न कां
चनार्तिमार्चति न स य एवं वेद
 
११/५/४/४
अद्भ्यस्त्वौषधीभ्यः परिददामीति  तदेनमद्भ्यश्चौषधिभ्यश्च परिददाति
द्यावापृथिवीभ्यां त्वा परिददामीति तदेनमाभ्यां द्यावापृथिवीभ्यां परिददाति
ययोरिदं सर्वमधि विश्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इति तदेनं
सर्वेभ्यो भूतेभ्यः परिददात्यरिष्ट्यै तथा हास्य ब्रह्मचारी न कां
चनार्तिमार्चति न स य एवं वेद

११/५/४/५
ब्रह्मचार्यसीत्याह  ब्रह्मण एवैनं तत्परिददात्यपोऽशा नेत्यमृतं वा
आपोऽमृतमशानेत्येवैनं तदाह कर्म कुर्विति वीर्यं वै कर्म वीर्यं
कुर्वित्येवैनं तदाह समिधमाधेहीति समिन्त्स्वात्मानं तेजसा
ब्रह्मवर्चसेनेत्येवैनं तदाह मा शुषुप्था इति मा मृथा इत्येवैनं
तदाहापोऽशानेत्यमृतं वा आपोऽमृतमशानेत्येवैनं तदाह तदेनमुभयतोऽमृतेन
परिगृह्णाति तथा हास्य ब्रह्मचारी न कां चनार्तिमार्चति न स य एवं वेद
 
११/५/४/६
अथास्मै सावित्रीमन्वाह  तां ह स्मैतां पुरा संवत्सरेऽन्वाहुः संवत्सरसम्मिता
वै गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति
 
११/५/४/७
अथ षट्सु मासेषु  षड्वा ऋतवः संवत्सरस्य संवत्सरसम्मिता वै गर्भाः
प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति
 
११/५/४/८
अथ चतुर्विंशत्यहे  चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरसम्मिता वै
गर्भाः प्रजायन्ते जात एवास्मिंस्तद्वाचं दध्म इति
 
११/५/४/९
अथ द्वादशाहे  द्वादश वै मासाः संवत्सरस्य संवत्सरसम्
 
११/५/४/१०
अथ षडहे  षद्वा ऋतवः संवत्सरस्य संवत्सरसं
 
११/५/४/११
अथ त्र्यहे  त्रयो वा ऋतवः संवत्सरस्य संवत्सरसं
 
११/५/४/१२
तदपि श्लोकं गायन्ति  आचार्यो गर्भी भवति हस्तमाधाय दक्षिणम्  तृतीयस्यां स
जायते सावित्र्या सह ब्राह्मण इति सद्यो ह त्वाव ब्राह्मणायानुब्रूयादाग्नेयो वै
ब्राह्मणः सद्यो वा अग्निर्जायते तस्मात्सद्य एव ब्राह्मणायानुब्रूयात्
 
११/५/४/१३
तां हैतामेके  सावित्रीमनुष्टुभमन्वाहुर्वाग्वा अनुष्टुप्तदस्मिन्वाचं दध्म
इति न तथा कुर्याद्यो हैनं तत्र ब्रूयादा न्वा अयमस्य वाचमदित मूको
भविष्यतीतीश्वरो ह तथैव स्यात्तस्मादेतां गायत्रीमेव सावित्रीमनुब्रूयात्
 
११/५/४/१४
अथ हैके दक्षिणतः  तिष्ठते वासीनाय वान्वाहुर्न तथा कुर्याद्यो हैनं तत्र
ब्रूयाद्बुल्बं न्वा अयमिममजीजनत बुल्बो भविष्यतीतीश्वरो ह तथैव
स्यात्तस्मात्पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रूयात्
 
११/५/४/१५
तां वै पचोऽन्वाह  त्रयो वै प्राणाः प्राण उदानो
व्यानस्तानेवास्मिंस्तद्दधात्यथार्धर्चशो द्वौ वा इमौ प्राणौ प्राणोदानावेव
प्राणोदानावेवास्मिंस्तद्दधात्यथ कृत्स्नामेको वा अयं प्राणः कृत्स्न एव
प्राणमेवास्मिंस्तत्कृत्स्नं दधाति
 
११/५/४/१६
तदाहुः  न ब्रह्मणं ब्रह्मचर्यमुपनीय मिथुनं चरेद्गर्भो वा एष
भवति यो ब्रह्मचर्यमुपैति नेदिमं ब्रह्मणं विषिक्ताद्रेतसो जनयानीति
 
११/५/४/१७
तदु वा आहुः  काममेव चरेद्द्वय्यो वा इमाः प्रजा दैव्यश्चैव मनुष्यश्च ता वा
इमा मनुष्यः प्रजाः प्रजननात्प्रजायन्ते चन्दांसि वै दैव्यः प्रजास्तानि मुखतो
जनयते तत एतं जनयते तस्मादु काममेव चरेत्
 
११/५/४/१८
तदाहुः  न ब्रह्मचारी सन्मध्वश्नीयादोषधीनां वा एष परमो रसो यन्मधु
नेदन्नाद्यस्यान्तं गचानीत्यथ ह स्माह श्वेतकेतुरारुणेयो ब्रह्मचारी
सन्मध्वश्नंस्त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु स तु रसो
यस्येदृक्शिष्टमिति यथा ह वा ऋचं वा यजुर्वा साम वाभिव्याहरेत्तादृक्तद्य एवं
विद्वान्ब्रह्मचारी सन्मध्वश्नाति तस्मादु काममेवाश्नीयात्
 
११/५/५/१
देवान्वा ऊर्ध्वान्त्स्वर्गं लोकं यतः  असुरास्तमसान्तरदधुस्ते होचुर्न वा
अस्यान्येन सत्त्रादपघातोऽस्ति हन्त सत्त्रमासामहा इति
 
११/५/५/२
ते शताग्निष्टोमं सत्त्रमुपेयुः  ते यावदासीनः
परापश्येत्तावतस्तमोऽपाघ्नतैवमेव शतोक्थ्येन
यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाघ्नत
 
११/५/५/३
ते होचुः  अप वाव तमो हन्महे न त्वेव सर्वमिव हन्त प्रजापतिं पितरम्
प्रत्ययामेति ते प्रजापतिं पितरं प्रतीत्योचुरसुरा वै नो भगव ऊर्ध्वान्त्स्वर्गं
लोकं यतस्तमसान्तरदधुः
 
११/५/५/४
ते शताग्निष्टोमं सत्त्रमुपैम  ते यावदासीनः
परापश्येत्तावतस्तमोऽपाहन्मह्येवमेव शतोक्थ्येन
यावत्तिष्ठन्परापश्येत्तावतस्तमोऽपाहन्महि प्र नो भगवञ्चाधि
यथासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य स्वर्गं लोकं प्रज्ञास्याम इति
 
११/५/५/५
स होवाच  असर्वक्रतुभ्यां वै यज्ञाभ्यामगन्त यदग्निष्टोमेन चोक्थ्येन च
शतातिरात्रं सत्त्रमुपेत तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य
स्वर्गं लोकं प्रज्ञास्यथेति
 
११/५/५/६
ते शतातिरात्रं सत्त्रमुपेयुः  तेनासुरांस्तमोऽपहत्य सर्वं पाप्मानमपहत्य
स्वर्गं लोकं प्रजज्ञुस्तेषामर्वाक्पञ्चाशेष्वेवाहःस्वहरभि रात्रिसामानि परीयू
रात्रिमभ्यहःसामानि
 
११/५/५/७
ते होचुः  अमुहाम वै न प्रजानीमो हन्त प्रजापतिमेव पितरं प्रत्ययामेति ते
प्रजापतिमेव पितरं प्रतीत्योचुरहन्नो रात्रिसामानि रात्र्यामह्नो भवन्ति नः
विपश्चिद्यज्ञान्मुग्धान्विद्वान्धीरोऽनुशाधि न इति
 
११/५/५/८
तान्हैतदुपजगौ  महाहिमिव वै ह्रदाद्बलीयानन्ववेत्य अनुत्त
स्वादास्थानात्ततः सत्त्रं न तायत इति
 
११/५/५/९
आश्विनं वै वः शस्यमानम्  प्रातरनुवाकमास्थानादनुत्त यमास्थानादनुद्ध्वं
धीराः सन्तो अधीरवत्  प्रशास्त्रा तमुपेत शनैरप्रतिशंसतेति
 
११/५/५/१०
ते होचुः  कथं नु भगवः शस्तं कथमप्रतिशस्तमिति स होवाच यत्र
होताश्विनं शंसन्नाग्नेयास्य क्रतोर्गायत्रस्य चन्दसः पारं गचात्तत्प्रतिप्रस्थाता
वसतीवरीः परिहृत्य मैत्रावरुणस्य हविर्धानयोः
प्रातरनुवाकमुपाकुरुतादुच्चैर्होता शंसति शनैरितरो जञ्जप्यमान इवान्वाह
तन्न वाचा वाचं प्रत्येति न चन्दसा चन्दः
 
११/५/५/११
परिहिते प्रातरनुवाके  यथायतनमेवोपांश्वन्तर्यामौ हुत्वा द्रोणकलशे
पवित्रं प्रपीड्यं निदधाति तिरोऽह्नयैश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य
तिरोह्नयानेव भक्षयाध्वा अथानुपूर्वं यज्ञपुचं संस्थाप्य य ऊर्ध्वा
अन्तर्यामाद्ग्रहास्तान्गृहीत्वा विप्रुषां होमं हुत्वा संतनिं च बहिष्पवमानेन
स्तुत्वाहरेव प्रतिपद्याध्वा इति
 
११/५/५/१२
तदेतेऽभि श्लोकाः  चतुर्भिः सैन्धवैर्युक्तैर्धीरा व्यजहुस्तमः  विद्वांसो ये
शतक्रतु देवाः सत्त्रमतन्वतेति
 
११/५/५/१३
चत्वारो ह्यत्र युक्ता भवन्ति द्वौ होतारौ द्वावध्वर्यू  पवेर्नु शक्वेव हनूनि
कल्पयन्नह्नोरन्तौ व्यतिषजन्त धीराः  न दानवा यज्ञियं तन्तुमेषां विजानीमो
विततं मोहयन्ति नः  पूर्वस्याह्नः परिषिंषन्ति कर्म
तदुत्तरेणाभिवितन्वतेऽह्ना  दुर्विज्ञानं काव्यं देवतानां सोमाः सोमैर्व्यतिषक्ताः
प्लवन्ते  समानान्त्सदमुक्षन्ति हयान्काष्ठभृतो यथा  पूर्णान्परिस्रुतः
कुम्भान्जनमेजयसादन इत्यसुररक्षसान्यपेयुः
 
११/५/६/१
पञ्चैव महायज्ञाः  तान्येव महासत्त्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो
देवयज्ञो ब्रह्मयज्ञ इति

११/५/६/२
अहरहर्भूतेभ्यो बलिं हरेत्  तथैतं भूतयज्ञं
समाप्नोत्यहरहर्दद्यादोदपात्रात्तथैतं मनुष्ययज्ञं समाप्नोत्यहरहः
स्वधाकुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोत्यहरहः स्वाहाकुर्यादा
काष्ठात्तथैतं देवयज्ञं समाप्नोति
 
११/५/६/३
अथ ब्रह्मयज्ञः  स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य
वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो
लोक उदयनं यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णां ददंलोकं जयति
त्रिस्तावन्तं जयति भूयांसं चाक्षय्यं य एवं विद्वानहरहः स्वाध्यायमधीते
तस्मात्स्वाह्यायोऽध्येतव्यः
 
११/५/६/४
पयाअहुतयो ह वा एता देवानाम्  यदृचः स य एवं विद्वानृचोऽहरहः
स्वाध्यायमधीते पयाअहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रेतसा सर्वात्मना सर्वाभिः पुण्याभिः सम्पद्भिर्घृतकुल्या
मधुकुल्याः पितॄ!न्त्स्वधा अभिवहन्ति
 
११/५/६/५
आज्याहुतयो ह वा एता देवानाम्  यद्यजूंषि स य एवं विद्वान्यजूंष्यहरहः
स्वाध्यायमधीत आज्याहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रे
 
११/५/६/६
सोमाहुतयो ह वा एता देवानाम्  यत्सामानि स य एवं विद्वान्त्सामान्यहरहः
स्वाध्यायमधीते सोमाहुतिभिरेव तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति
योगक्षेमेण प्राणेन रे
 
११/५/६/७
मेदाअहुतयो ह वा एता देवानाम्  यदथर्वाङ्गिरसः स य एवं
विद्वानथर्वाङ्गिरसोऽहरहः स्वाध्यायमधीते मेदाअहुतिभिरेव
तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे
 
११/५/६/८
मध्वाहुतयो ह वा एता देवानाम्  यदनुशासनानि विद्या वाकोवाक्यमितिहासपुराणं
गाथा नाराशंस्यः स य एवं विद्वाननुशासनानि विद्या वाकोवाक्यमितिहासपुराणं
गाथा नाराशंसीरित्यहरहः स्वाध्यायमधीते मध्वाहुतिभिरेव
तद्देवांस्तर्पयति त एनं तृप्तास्तर्पयन्ति योगक्षेमेण प्राणेन रे
 
११/५/६/९
तस्य वा एतस्य ब्रह्मयज्ञस्य  चत्वारो वषट्कारा यद्वातो वाति यद्विद्योतते
यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने
स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामचम्बट्कारायाति ह वै पुनर्मृत्युम्
मुच्यते गचति ब्रह्मणः सात्मतां स चेदपि प्रबलमिव न शक्नुयादप्येकं
देवपदमधीयीतैव तथा भूतेभ्यो न हीयते
 
११/५/७/१
अथातः स्वाध्यायप्रशंसा  प्रिये स्वाध्यायप्रवचने भवतो युक्तमना
भवत्यपराधीनोऽहरहरर्थान्त्साधयते सुखं स्वपिति परमचिकित्सक आत्मनो
भवतीन्द्रियसंयमश्चैकारामता च प्रज्ञाऋद्धिर्यशो लोकपक्तिः प्रज्ञा
वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पादयति ब्राह्मण्यम्
प्रतिरूपचर्यां यशो लोकपक्तिं लोकः पच्यमानश्चतुर्भिर्धर्मैर्ब्राह्मणम्
भुनक्त्यर्चया च दानेन चाज्येयतया चावध्यतया च
 
११/५/७/२
ये ह वै के च श्रमाः  इमे द्यावापृथिवी अन्तरेण स्वाध्यायो हैव तेषां परमता
काष्ठा य एवं विद्वान्त्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्यः
 
११/५/७/३
यद्यद्ध वा अयं चन्दसः  स्वाध्यायमधीते तेनतेन हैवास्य
यज्ञक्रतुनेष्टं भवति य एवं विद्वान्त्स्वाध्यायमधीते
तस्मात्स्वाध्यायोऽध्येतव्यः
 
११/५/७/४
यदि ह वा अप्यभ्यक्तः  अलंकृतः सुहितः सुखे शयने शयानः स्वाध्यायमधीत
आ हैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान्त्स्वाध्यायमधीते
तस्मात्स्वाध्यायोऽध्येतव्यः
 
११/५/७/५
मधु ह वा ऋचः  घृतं ह सामान्यमृतं यजूंषि यद्ध वा अयं
वाकोवाक्यमधीते क्षीरौदनमांसौदनौ हैव तौ

११/५/७/६
मधुना ह वा एष देवांस्तर्पयति  य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते त
एनं तृप्तास्तर्पयन्ति सर्वैः कामैः सर्वैर्भोगैः
 
११/५/७/७
घृतेन ह वा एष देवांस्तर्पयति  य एवं विद्वान्त्सामान्यहरहः
स्वाध्यायमधीते त एनं तृप्ता
 
११/५/७/८
अमृतेन ह वा एष देवांस्तर्पयति  य एवं विद्वान्यजूंष्यहरहः
स्वाध्यायमधीते त एनं तृप्ता
 
११/५/७/९
क्षीरौदनमांसौदनाभ्यां ह वा एष देवांस्तर्पयति  य एवं
विद्वान्वाकोवाक्यमितिहासपुराणमित्यहरहः स्वाध्यायमधीते त एनं तृप्ता
 
११/५/७/१०
यन्ति वा आपः  एत्यादित्य एति चन्द्रमा यन्ति नक्षत्राणि यथा ह वा एता देवता नेयुर्न
कुर्युरेवं हैव तदहर्ब्राह्मणो भवति यदहः स्वाध्यायं नाधीते
तस्मात्स्वाध्यायोऽध्येतव्यस्तस्मादप्यृचं वा यजुर्वा साम वा गाथां वा कुंव्यां
वाभिव्याहरेद्व्रतस्याव्यवचेदाय
 
११/५/८/१
प्रजापतिर्वा इदमग्र आसीत्  एक एव सोऽकामयत स्यां प्रजायेयेति सोऽश्राम्यत्स
तपोऽतप्यत तस्माच्रान्तात्तेपानात्त्रयो लोका असृज्यन्त पृथिव्यन्तरिक्षं द्यौः
 
११/५/८/२
स इमांस्त्रींलोकानभितताप  तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निर्योऽयम्
पवते सूर्यः
 
११/५/८/३
स इमानि त्रीणि ज्योतींष्यभितताप  तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताग्नेरृग्वेदो
वायोर्यजुर्वेदः सूर्यात्सामवेदः
 
११/५/८/४
स इमांस्त्रीन्वेदानभितताप  तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त
भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्तदृग्वेदेनैव होत्रमकुर्वत
यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथं यदेव त्रय्यै विद्यायै शुक्रं तेन
ब्रह्मत्वमथोच्चक्राम
 
११/५/८/५
ते देवाः प्रजापतिमब्रुवन्  यदि न ऋक्तो वा यजुष्टो वा सामतो वा यज्ञो
ह्वलेत्केनैनं भिषज्येमेति
 
११/५/८/६
स होवाच  यद्यृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवथ यदि
यजुष्टो भुव इति चतुर्गृहीतमाज्यं गृहीत्वाग्नीध्रीये जुहवथान्वाहार्यपचने वा
हविर्यज्ञे यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाहवनीये जुहवथ यद्यु
अविज्ञातमसत्सर्वाण्यनुद्रुत्याहवनीये जुहवथ तदृग्वेदेनैवर्ग्वेदम्
भिषज्यति यजुर्वेदेन यजुर्वेदं सामवेदेन सामवेदं स यथा पर्वणा पर्व
संदध्यादेवं हैव स संदधाति य एताभिर्भिषज्यत्यथ यो हातोऽन्येन
भिषज्यति यथा शीर्णेन शीर्णं संधित्सेद्यथा वा शीर्णे गरमभिनिदध्यादेवं
तत्तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदम्
 
११/५/८/७
तदाहुः  यदृचा होत्रं क्रियते यजुषाध्वर्यवं साम्नोद्गीथोऽथ केन
ब्रह्मत्वमित्यनया त्रय्या विद्ययेति ह ब्रूयात्
 
११/५/९/१
प्रजापतिर्ह वा एष यदंशुः  सोऽस्यैष आत्मैवात्मा ह्ययं प्रजापतिर्वागेवादाभ्यः
स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम्
प्रतिष्ठापयति
 
११/५/९/२
अथ मनो ह वा अंशुः  वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः
श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै

११/५/९/३
अथ देवाश्च ह वा असुराश्च  उभये प्राजापत्या अस्पर्धन्त त एतस्मिन्नेव यज्ञे
प्रजापतावस्पर्धन्तास्माकमयं स्यादस्माकमयं स्यादिति
 
११/५/९/४
ततो देवाः अर्चन्तः श्राम्यन्तश्चेरुस्त एतं ग्रहं ददृशुरेतमदाभ्यं
तमगृह्णत ते सवनानि प्रावृहन्त ते सर्वं यज्ञं
समवृञ्जतान्तरायन्नसुरान्यज्ञात्
 
११/५/९/५
ते होचुः  अदभाम वा एनानिति तस्माददाभ्यो न वै नोऽदभन्निति तस्माददाभ्यो
वाग्वा अदाभ्यः सेयमदब्धा वाक्तस्माद्वेवादाभ्य एवं ह वै द्विषतो
भ्रातृव्यस्य सर्वं यज्ञं संवृङ्क्त एवं द्विषन्तं भ्रातृव्यं
सर्वस्माद्यज्ञान्निर्भजति बहिर्धा करोति य उ एवमेतद्वेद
 
११/५/९/६
स येनैव पात्रेणांशुं गृह्णाति  तस्मिन्नेव पात्रे निग्राभ्याभ्योऽप आनीय
तस्मिन्नेतानंशून्गृह्णाति
 
११/५/९/७
उपयामगृहीतोऽसि  अग्नये त्वा गायत्रचन्दसं गृह्णामीति गायत्रं प्रातःसवनं
तत्प्रातःसवनं प्रवृहतीन्द्राय त्वा त्रिष्टुप्चन्दसं गृह्णामीति त्रैष्टुभम्
माध्यन्दिनं सवनं तन्माध्यन्दिनं सवनं प्रवृहति विश्वेभ्यस्त्वा देवेभ्यो
जगच्चन्दसं गृह्णामीति जागतं तृतीयसवनं तत्तृतीयसवनम्
प्रवृहत्यनुष्टुप्तेऽभिगर इति यद्वा ऊर्ध्वं सवनेभ्यस्तदानुष्टुभं
तदेवैतत्प्रवृहति तन्नाभिषुणोति वज्रो वै ग्रावा वागदाभ्यो नेद्वज्रेण वाचं
हिनसानीति
 
११/५/९/८
अंशूनेवाधूनोति  व्रेशीनां त्वा पत्मन्नाधूनोमि कुकूननानां त्वा
पत्मन्नाधूनोमि भन्दनानां त्वा पत्मन्नाधूनोमि मदिन्तमानां त्वा
पत्मन्नाधूनोमि मधुन्तमानां त्वा पत्मन्नाधूनोमीत्येता वै
दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी
रसं दधाति
 
११/५/९/९
शुक्रं त्वा शुक्र आधूनोमीति  शुक्रं ह्येतचुक्र आधूनोत्यह्नो रूपे सूर्यस्य
रश्मिष्विति तदह्नश्चैवैनमेतद्रूपे सूर्यस्य च रश्मिष्वाधूनोति
 
११/५/९/१०
ककुभं रूपं वृषभस्य रोचते बृहदिति  एतद्वै ककुभं रूपं वृषभस्य
रोचते बृहद्य एष तपति शुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगा इति
तचुक्रमेवैतचुक्रस्य पुरोगां करोति सोमं सोमस्य पुरोगां यत्ते सोमादाभ्यं
नाम जागृवि तस्मै त्वा गृह्णामीत्येतद्ध वा अस्यादाभ्यं नाम जागृवि
यद्वाक्तद्वाचमेवैतद्वाचे गृह्णाति
 
११/५/९/११
अथोपनिष्क्रम्य जुहोति  तस्मै ते सोम सोमाय स्वाहेति तत्सोममेवैतत्सोमाय
जुहोति तथो वाचमग्नौ न प्रवृणक्त्यथ हिरण्यमभिव्यनित्यसावेव
बन्धुस्तस्य तावतीरेव दक्षिणा यावतीरंशोः
 
११/५/९/१२
अथांशून्पुनरप्यर्जति  उशिक्त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि वशी त्वं देव
सोमेन्द्रस्य प्रियं पाथोऽपीह्यस्मत्सखा त्वं देव सोम विश्वेषां देवानाम्
प्रियं पाथोऽपीहीति सवनानि वा अदः प्रवृहति
तान्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते
 
११/६/१/१
भृगुर्ह वै वारुणिः  वरुणं पितरं विद्ययातिमेने तद्ध वरुणो विदां
चकारातिवै मा विद्यया मन्यत इति
 
११/६/१/२
स होवाच  प्राङ्पुत्रक व्रजतात्तत्र यत्पश्येतद्दृष्ट्वा दक्षिणा व्रजतात्तत्र
यत्पश्येस्तद्दृष्ट्वा प्रत्यग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वोदग्व्रजतात्तत्र
यत्पश्येस्तद्दृष्ट्वैतयोः पूर्वयोरुत्तरमन्ववान्तरदेशं व्रजतात्तत्र
यत्पश्येस्तन्म आचक्षीथा इति
 
११/६/१/३
स ह तत एव प्राङ्प्रवव्राज  एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत
भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषां संव्रश्चं पर्वशो व्यभक्षतेति ते
होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स
होवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काति पिता ते वेदेति

११/६/१/४
स ह तत एव दक्षिणा प्रवव्राज  एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत
भोः पुरुषान्न्वा एतत्पुरुषाः पर्वाण्येषां पर्वशः संकर्तं पर्वशो
व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह
प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काति पितैव ते वेदेति
 
११/६/१/५
स ह तत एव प्रत्यङ्प्रवव्राज  एदु पुरुषैः
पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानान्त्स होवाच भीष्मं बत भोः
पुरुषान्न्वा एतत्पुरुषास्तूष्णीमासीनांस्तूष्णीमासीना अदन्तीति ते होचुरित्थं वा
इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह
प्रायश्चित्ती३ इत्यस्तीति काति पितैव ते वेदेति
 
११/६/१/६
स ह तत एवोदङ्प्रवव्राज  एदु पुरुषैः पुरुषानाक्रन्दयत
आक्रन्दयद्भिरद्यमानान्त्स होवाच भीष्मं बत भोः पुरुषान्न्वा एतत्पुरुषा
आक्रन्दयत आक्रन्दयन्तोऽदन्तीति ते होचुरित्थं वा इमेऽस्मानमु
 
११/६/१/७
स ह तत एवैतयोः पूर्वयोः  उत्तरमन्ववान्तरदेशं प्रवव्राजेदु स्त्रियौ
कल्याणीं चातिकल्याणीं च ते अन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिस्तस्थौ तं
हैनं दृष्ट्वा भीर्विवेद स हेत्य संविवेश तं ह पितोवाचाधीष्व स्वाध्यायं
कस्मान्नु स्वाध्यायं नाधीष इति स होवाच किमध्येष्ये न किं चनास्तीति तद्ध
वरुणो विदां चकाराद्राग्वा इति
 
११/६/१/८
स होवाच  यान्वै तत्प्राच्यां दिश्यद्राक्षीः पुरुषैः पु रुषान्पर्वाण्येषां पर्वशः
संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति वनस्पतयो वै ते
अभूवन्त्स यद्वनस्पतीनां समिधमादधाति तेन वनस्पतीनवरुन्द्धे तेन
वनस्पतीनां लोकं जयति
 
११/६/१/९
अथ यानेततद्दक्षिणायां दिश्यद्राक्षीः  पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः
संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति पशवो वै ते अभूवन्त्स
यत्पयसा जुहोति तेन पशूनवरुन्धे तेन पशूनां लोकं जयति

११/६/१/१०
अथ यानेतत्प्रतीच्यां दिश्यद्राक्षीः  पुरुषैः
पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानानोषधयो वै ता अभूवन्त्स
यत्तृणेनावज्योतयति तेनौषधीरवरुन्द्धे तेनौषधीनां लोकं जयति
 
११/६/१/११
अथ यानेतदुदीच्यां दिश्यद्राक्षीः  पुरुषैः पुरुषानाक्रन्दयत
आक्रन्दयद्भिरद्यमानानापो वै ता अभूवन्त्स यदपः प्रत्यानयति
तेनापोऽवरुन्द्धे तेनापां लोकं जयति
 
११/६/१/१२
अथ ये एते  स्त्रियावद्राक्षीः कल्याणीं चातिकल्याणीं च सा या कल्याणी सा श्रद्धा स
यत्पूर्वामाहुतिं जुहोति तेन श्रद्धामवरुन्द्धे तेन श्रद्धां जयत्यथ
यातिकल्याणी साश्रद्धा स यदुत्तरामाहुतिं जुहोति तेनाश्रद्धामवरुन्द्धे
तेनाश्रद्धां जयति
 
११/६/१/१३
अथ य एने सोऽन्तरेण पुरुषः  कृष्णः पिङ्गाक्षो दण्डपाणिरस्थात्क्रोधो वै
सोऽभूत्स यत्स्रुच्यप आनीय निनयति तेन क्रोधमवरुन्द्धे तेन क्रोधं जयति स
य एवं विद्वानग्निहोत्रं जुहोति तेन सर्वं जयति सर्वमवरुन्द्धे
 
११/६/२/१
जनको ह वै वैदेहो  ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनारुणेयेन
सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथंकथमग्निहोत्रं
जुहुथेति
 
११/६/२/२
स होवाच  श्वेतकेतुरारुणेयो घर्मावेव सम्राडहमजस्रौ यशसा
विष्यन्दमानावन्योऽन्यस्मिन्जुहोमीति कथं तदित्यादित्यो वै घर्मस्तं
सायमग्नौ जुहोम्यग्निर्वै घर्मस्तं प्रातरादित्ये जुहोमीति किं स भवति य
एवं जुहोत्यजस्र एव श्रिया यशसा भवत्येतयोश्च देवतयोः सायुज्यं सलोकतां
जयतीति
 
११/६/२/३
अथ होवाच शोमशुष्मः सात्ययज्ञिः  तेज एव सम्राडहं तेजसि जुहोमीति कथं
तदित्यादित्यो वै तेजस्तं सायमग्नौ जुहोम्यग्निर्वै तेजस्तं प्रातरादित्ये जुहोमीति
किं स भवति य एवं जुहोतीति तेजस्वी यशस्व्यन्नादो भवत्येतयोश्चैव देवतयोः
सायुज्यं सलोकतां जयतीति
 
११/६/२/४
अथ होवाच याज्ञवल्क्यः  यदहमग्निमुद्धराम्यग्निहोत्रमेव
तदुद्यचाम्यादित्यं वा अस्तं यन्तं सर्वे देवा अनुयन्ति ते म एतमग्निमुद्धृतं
दृष्ट्वोपावर्तन्तेऽथाहं पात्राणि निर्णिज्योपवाप्याग्निहोत्रीं दोहयित्वा
पश्यन्पश्यतस्तर्पयामीति त्वं नेदिष्ठं याज्ञवल्क्याग्निहोत्रस्यामीमांसिष्ठा
धेनुशतं ददामीति होवाच न त्वेवैनयोस्त्वमुत्क्रात्रिं न गतिं न प्रतिष्ठां न
तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनमित्युक्त्वा रथमास्थाय प्रधावयां
चकार
 
११/६/२/५
ते होचुः  अति वै नोऽयं राजन्यबन्धुरवादीद्धन्तैनं ब्रह्मोद्यमाह्वयामहा
इति स होवाच याज्ञवल्क्यो ब्राह्मणा वै वयं स्मो राजन्यबन्धुरसौ यद्यमुं
वयं जयेम कमजैष्मेति ब्रूयामाथ
यद्यसावस्मान्जयेद्ब्राह्मणान्राजन्यबन्धुरजैषीदिति नो
ब्रूयुर्मेदमादृढ्वमिति तद्धास्य जज्ञुरथ ह याज्ञवल्क्यो
रथमास्तायानुप्रधावयां चकार तं हान्वाजगाम स होवाचाग्निहोत्रं याज्ञवल्क्य
वेदितू३ इत्यग्निहोत्रं सम्राडिति
 
११/६/२/६
ते वा एते  आहुती हुते उत्क्रामतः ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं
कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत
उत्क्रामतः
 
११/६/२/७
ते दिवमाविशतः  ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव
शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तेते
 
११/६/२/८
ते इमामाविशतः  ते इमामेवाहवनीयं कुर्वाते अग्निं समिधमोषधीरेव
शुक्रामाहुतिं ते इमां तर्पयतस्ते तत उत्क्रामतः
 
११/६/२/९
ते पुरुषमाविशतः  तस्य मुखमेवाहवनीयं कुर्वाते जिह्वां
समिधमन्नमेव शुक्रामाहुतिं ते पुरुषं तर्पयतः स य एवं
विद्वानश्नात्यग्निहोत्रमेवास्य हुतं भवति ते तत उत्क्रामतः
 
११/६/२/१०
ते स्त्रियमाविशतः  तस्या उपस्थमेवाहवनीयं कुर्वाते धारकां समिधं धारका
ह वै नामैषैतया ह वै प्रजापतिः प्रजा धारयां चकार रेत एव शुक्रामाहुतिं
ते स्त्रियं तर्पयतः स य एवं विद्वान्मिथुनमुपैत्यग्निहोत्रमेवास्य हुतम्
भवति यस्ततः पुत्रो जायते स लोकः प्रत्युत्थाय्येतदग्निहोत्रं याज्ञवल्क्य नातः
परमस्तीति होवाच तस्मै ह याज्ञवल्क्यो वरं ददौ स होवाच कामप्रश्न एव मे
त्वयि याज्ञवल्क्यासदिति ततो ब्रह्मा जनक आस
 
११/६/३/१
जनको ह वैदेहो  बहुदक्षिणेन यज्ञेनेजे स ह गवां
सहस्रमवरुन्धन्नुवाचैता वो ब्राह्मणा यो ब्रह्मिष्ठः स उदजतामिति
 
११/६/३/२
स होवाच याज्ञवल्क्यो ऽर्वाचीरेता इति ते होचुस्त्वं स्विन्नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३
इति स होवाच नमोऽस्तु ब्रह्मिष्ठाय गोकामा एव वयं स्म इति
 
११/६/३/३
ते होचुः  को न इमं प्रक्ष्यतीति स होवाच विदग्धः शाकल्योऽहमिति तं ह
प्रतिख्यायोवाच त्वां स्विचाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३ ति
 
११/६/३/४
स होवाच कति देवा याज्ञवल्क्येति त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति
होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा
याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच
कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक
इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति
 
११/६/३/५
स होवाच  महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते
त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव
प्रजापतिश्च त्रयस्त्र्ंशाविति

११/६/३/६
कतमे वसव इति  अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च
चन्द्रमाश्च नक्षत्राणि चैते वसव एते हीदं सर्वं वासयन्ते ते यदिदं सर्वं
वासयन्ते तस्माद्वसव इति
 
११/६/३/७
कतमे रुद्रा इति  दशेमे पुरुषे प्राणा आत्मैकादशस्ते
यदास्मान्मर्त्याचरीरादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्रुद्रा इति
 
११/६/३/८
कतम आदित्या इति  द्वादश मासाः संवत्सरस्यैत आदित्या एते हीदं सर्वमाददाना
यन्ति ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति
 
११/६/३/९
कतम इन्द्रः कतमः प्रजापतिरिति  स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति कतम
स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति
 
११/६/३/१०
कतमे ते त्रयो देवा इति  इम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ तौ
द्वौ देवावित्यन्नं चैव प्राणश्चेति कतमोऽध्यर्ध इति योऽयं पवत इति कतम
एको देव इति प्राण इति
 
११/६/३/११
स होवाच  अनतिप्रश्न्यां मा देवतामत्यप्राक्षीः पुरेतिथ्यै मरिष्यसि न तेऽस्थीनि
चन गृहान्प्राप्स्यन्तीति स ह तथैव ममार तस्य हाप्यन्यन्मन्यमानाः
परिमोषिणोऽस्थीन्यपजह्रुस्तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवति
 
११/७/१/१
पशुबन्धेन यजते  पशवो वै पशुबन्धः स यत्पशुबन्धेन यजते
पशुमानसानीति तेन गृहेषु यजेत गृहेषु पशून्बध्ना इति तेन सुयवसे यजेत
सुयवसे पशून्बध्ना इति जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयोऽग्नीन्जीर्यतोऽनु
यजमानो यजमानमनु गृहाश्च पशवश्च
 
११/७/१/२
स यत्पशुबन्धेन यजते  अग्नीनेवैतत्पुनर्णवान्कुरुतेऽग्नीनां पुनर्णवतामनु
यजमानमनु गृहाश्च पशवश्चायुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति
मांसीयन्ति ह वै जुह्वतो यजमानस्याग्नयस्ते यजमानमेव ध्यायन्ति यजमानं
संकल्पयन्ति पचन्ति वा अन्येष्वग्निषु वृथामांसमथैतेषां नातोऽन्या मांसाशा
विद्यते यस्यो चैते भवन्ति
 
११/७/१/३
स यत्पशुबन्धेन यजते  आत्मानमेवैतन्निष्क्रीणीते वीरेण वीरं वीरो हि
पशुर्वीरो यजमान एतदु ह वै परमन्नाद्यं यन्मांसं स
परमस्यैवान्नाद्यस्यात्ता भवति तं वै संवत्सरो नानीजनमतीयादायुर्वै
संवत्सर आयुरेवैतदमृतमात्मन्धत्ते
 
११/७/२/१
हविर्यज्ञविधो ह वा अन्यः पशुबन्धः  सवविधोऽन्यः स हैष हविर्यज्ञविधो
यस्मिन्व्रतमुपनयति यस्मिन्नपः प्रणयति यस्मिन्पूर्णपात्रं निनयति
यस्मिन्विष्णुक्रमान्क्रमयत्यथ हैष सवविधो यस्मिन्नेतानि न क्रियन्ते
 
११/७/२/२
तदाहुः  इष्टिः पशुबन्धा३ महायज्ञा३ इति महायज्ञ इति ह ब्रूयादिष्टिं वै तर्हि
पशुबन्धमकर्व्येनमकृक्षथा इत्येनं ब्रूयात्
 
११/७/२/३
तस्य प्रयाजा एव प्रातःसवनम्  अनुयाजास्तृतीयसवनं पुरोडाश एव माध्यन्दिनं
सवनम्
 
११/७/२/४
तद्धैके  वपायां हुतायां दक्षिणा नयन्ति तदु तथा न कुर्याद्यो हैनं तत्र
ब्रूयाद्बहिर्धा न्वा अयं प्राणेभ्यो दक्षिणा अनैषीन्न प्राणानददक्षदन्धो वा
स्रामो वा बधिरो वा पक्षहतो वा भविष्यतीतीश्वरो ह तथैव स्यात्
 
११/७/२/५
इत्थमेव कुर्यात्  पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेदैन्द्रो वा अयम्
मध्यतः प्राण इममेवैतदैन्द्रं मध्यतः प्राणं
दक्षिणाभिर्दक्षयत्यैन्द्रं वै माध्यन्दिनं सवनं माध्यन्दिने वै सवने
दक्षिणा नीयन्ते तस्मात्पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत्

११/७/२/६
तदाहुः  अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमदिदीक्ष
इत्यावभृथादनूद्दृंहेयुरध्वर्युश्च प्रतिप्रस्थाता च होता च मैत्रावरुणश्च
ब्रह्मा चाग्नीध्रश्चैतैर्वा एष षड्ढोता तमनुद्रुत्य षड्ढोतारं
जुहोत्येकामाहुतिं कृत्वा पञ्च वाज्या द्यौष्पृष्ठमन्तरिक्षमात्माङ्गैर्यज्ञम्
पृथिवीं शरीरैः  वाचस्पतेऽचिद्रया वाचाचिद्रया जुह्वा दिवि देवावृधं
होत्रामैरयत्स्वाहेति सैव दीक्षा
 
११/७/२/७
तदाहुः  अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते
क्वैनमवभृथमवनेष्यसीति स यद्धृदयशूलेन चरन्ति स हैवैतस्यावभृथः
 
११/७/२/८
मधुको ह स्माह पैङ्ग्यः  विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके
दिवि वै सोम आसीत्तं गायत्री वयो भूत्वाहरत्तस्य यत्पर्णमचिद्यत तत्पर्णस्य
पर्णत्वमिति न्वा एतद्ब्राह्मणमुद्यते विसोमेन वा एके पशुबन्धेन यजन्ते
ससोमेनैके स हैष विसोमेन पशुबन्धेन यजते योऽन्यं पालाशाद्यूपं
कुरुतेऽथ हैष ससोमेन पशुबन्धेन यजते यः पालाशं यूपं कुरुते
तस्मात्पालाशमेव यूपं कुर्वीत
 
११/७/३/१
स य एष बहुसारः  स हापशव्यस्तस्मात्तादृशं पशुकामो यूपं न कुर्वीताथ य
एष फल्गुप्रासहः स ह पशव्यस्तस्मात्तादृशं पशुकामो यूपं कुर्वीत
 
११/७/३/२
अथ यस्यैतद्वक्रस्य सतः  शूलैवाग्रं भवति स ह कपोती नाम स यो ह
तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न
कुर्वीत
 
११/७/३/३
अथ य एष आनतः  उपरिष्टादपनतो मध्ये सोऽशनायै रूपं स यो ह तादृशं
यूपं कुरुतेऽशनायुका हास्य भार्या भवन्ति तस्मात्तादृशमन्नाद्यकामो यूपं न
कुर्वीताथ य एष आनत उपरिष्टादुपनतो मध्ये सोऽन्नाद्यस्य रूपं
तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत
 
११/७/४/१
स यत्पशुना यक्ष्यमाणः  एकारत्निं यूपं कुरुत इममेव तेन लोकं जयत्यथ
यद्द्व्यरत्निमन्तरिक्षलोकमेव तेन जयत्यथ यत्त्र्यरत्निं दिवमेव तेन
जयत्यथ यच्चतुरर्त्निं दिश एव तेन जयति स वा एष त्र्यरत्निर्वैव चतुररत्निर्वा
पशुबन्धयूपो भवत्यथ योऽत ऊर्ध्वः सौम्यस्यैव सोऽध्वरस्य
 
११/७/४/२
तदाहुः  यजेदाज्यभागौ ना३ इति यजेदित्याहुश्चक्षुषी वा एते यज्ञस्य यदाज्यभागौ
किमृते पुरुषश्चक्षुर्भ्यां स्यादिति यावद्वै भागिनं स्वेन भागधेयेन न
निर्भजन्त्यनिर्भक्तो वै स तावन्मन्यतेऽथ यदैव तं स्वेन भागधेयेन
निर्भजन्त्यथैव स निर्भक्तो मन्यते स यत्रैतद्धोतान्वाहास्ना रक्षः
संसृजतादिति तदेनं स्वेन भागधेयेन निर्भजति
 
११/७/४/३
एतद्वै पशोः संज्ञप्यमानस्य  हृदयं शुक्षमवैति हृदयाचूलं तद्ये सह
हृदयेन पशुं श्रपयन्ति पुनः पशुं शुगनुविष्पन्देत पार्श्वत एवैनत्काष्ठे
प्रतृद्य श्रपयेत्
 
११/७/४/४
उपस्तृणीत आज्यम्  तत्पृथिव्यै रूपं करोति हिरण्यशकलमवदधाति तदग्ने रूपं
करोति वपामवदधाति तदन्तरिक्षस्य रूपं करोति हिरण्यशकलमवदधाति
तदादित्यस्य रूपं करोत्यथ यदुपरिष्टादभिघारयति तद्दिवो रूपं करोति सा वा
एषा पञ्चावत्ता वपा भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्य
तस्मात्पञ्चावत्ता वपा भवति
 
११/८/१/१
तद्यथा ह वै  इदं रथचक्रं वा कौलालचक्रं वाप्रतिष्ठितं क्रन्देदेवं
हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः
 
११/८/१/२
स ह प्रजापतिरीक्षां चक्रे  कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति स
एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहद्वयोभिश्च मरीचिभिश्चान्तरिक्षं
जीमूतैश्च नक्षत्रैश्च दिवम्
 
११/८/१/३
स मह इति व्याहरत्  पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति
भूयिष्ठमस्य कुले महीयन्ते बहवो ह वा अस्यैते भवन्ति भूयिष्ठं हास्य
कुले महीयन्ते तस्माद्यद्येनमायतनाद्बाधेरन्वा प्र वा यापयेयुरग्निहोत्रं
हुत्वा मह इत्युपतिष्ठेत प्रति प्रजया पशुभिस्तिष्ठति नायतनाच्च्यवते
 
११/८/२/१
चत्वारो ह वा अग्नयः  आहित उद्धृतः प्रहृतो विहृतोऽयमेव लोक आहितोऽन्तरिक्षलोक
उद्धृतो द्यौष्प्रहृतो दिशो विहृतोऽग्निरेवाहितो वायुरुद्धृत आदित्यः
प्रहृतश्चन्द्रमा विहृतो गार्हपत्य एवाहित आहवनीय उद्धृतोऽथ
यमेतमाहवनीयात्प्राञ्चं प्रणयन्ति स प्रहृतोऽथ यमेतमुदञ्चम्
पशुश्रपणायाहरन्ति यं चोपयङ्भ्यः स विहृतस्तस्मात्प्रहार्येऽग्नौ पशुबन्धेन
यजेत
 
११/८/३/१
तदाहुः  किंदेवत्य एष पशुः स्यादिति प्राजापत्यः स्यादित्याहुः प्रजापतिर्वा
एतमग्रेऽभ्यपश्यत्तस्मात्प्राजापत्य एवैष पशुः स्यादिति
 
११/८/३/२
अथो अप्याहुः  सौर्य एवैष पशुः स्यादिति तस्मादेतस्मिन्नस्तमिते पशवो बध्यन्ते
बध्नन्त्येकान्यथागोष्ठमेक उपसमायन्ति तस्मात्सौर्य एवैष पशुः स्यादिति
 
११/८/३/३
अथो अप्याहुः  ऐन्द्राग्न एवैष पशुः स्यादित्येते वै देवते अन्वन्त्ये देवा यद्यार्तो
यजते पारयत एव यदि महसायजते पारयत एव तस्मादैन्द्राग्न एवैष पशुः
स्यादिति
 
११/८/३/४
प्राण एव पशुबन्धः  तस्माद्यावज्जीवति नास्यान्यः पशूनामीष्टे बद्धा
ह्यास्मिन्नेते भवन्ति
 
११/८/३/५
स ह प्रजापतिरग्निमुवाच  यजै त्वया त्वा लभा इति नेति होवाच वायुं ब्रूहीति स ह
वायुमुवाच यजै त्वया त्वा लभा इति नेति होवाच पुरुषं ब्रूहीति स ह
पुरुषमुवाच यजै त्वया त्वा लभा इति नेति होवाच पशून्ब्रूहीति स ह पशूनुवाच
यजै युष्माभिरा वो लभा इति नेति होचुश्चन्द्रमसं ब्रूहीति स ह
चन्द्रमसमुवाच यजै त्वया त्वा लभा इति नेति होवाचादित्यं ब्रूहीति स
हादित्यमुवाच यजै त्वया त्वा लभा इति तथेति होवाच य उ त एते नाचीकमन्त किमु
म एतेषु स्यादिति यद्यत्कामयेथा इति तथेति तमालभत सोऽस्यायं पशुरालब्धः
संज्ञप्तोऽश्वयत्तमेताभिराप्रीभिराप्रीणात्तद्यदेनमेताभिराप्रीभिराप्रीणात्तस्मादाप्
रियो नाम तस्मादु पशुं संज्ञप्तं ब्रूयाचेतां नु मुहूर्तमिति स
यावन्तमश्वमेधेनेष्ट्वा लोकं जयति तावन्तमेतेन जयति
 
११/८/३/६
तं प्राची दिक् प्राणेत्यनुप्राणत्प्राणमेवास्मिंस्तददधात्तं दक्षिणा
दिग्व्यानेत्यनुप्राणद्व्यानमेवास्मिंस्तददधात्तं प्रतीची
दिगपानेत्यनुप्राणदपानमेवास्मिंस्तददधात्तमुदीची
दिगुदानेत्यनुप्राणदुदानमेवास्मिंस्तददधात्तमूर्ध्वा
दिक्षमानेत्यनुप्राणत्समानमेवास्मिंस्तददधात्तस्मादु पुत्रं
जातमकृत्तनाभिं पञ्च ब्राह्मणान्ब्रूयादित्येनमनुप्राणितेति यद्यु तान्न
विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यात्स सर्वमायुरेत्या हैव जरायै जीवति
 
११/८/३/७
स प्राणमेवाग्नेरादत्त  तस्मादेष नानुपध्मातो नानुपज्वलितो ज्वलत्यात्तो ह्यस्य
प्राण आ ह वै द्विषतो भ्रातृव्यस्य प्राणं दत्ते य एवं वेद
 
११/८/३/८
रूपमेव वायोरादत्त  तस्मादेतस्य लेलयत इवैवोपशृण्वन्ति न त्वेनम्
पश्यन्त्यात्तं ह्यस्य रूपमा ह वै द्विषतो भ्रातृव्यस्य रूपं दत्ते य एवं वेद
 
११/८/३/९
चित्तमेव पुरुषस्यादत्त  तस्मादाहुर्देवचित्तं त्वावतु मा मनुष्यचित्तमित्यात्तं
ह्यस्य चित्तमा ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते य एवं वेद
 
११/८/३/१०
चक्षुरेव पशूनामादत्त  तस्मादेते चाकश्यमाना इवैव न जानन्त्यथ
यदैवोपजिघ्रन्त्यथ जानन्त्यात्तं ह्येषां चक्षुरा ह वै द्विषतो भ्रातृव्यस्य
चक्षुर्तत्ते य एवं वेद
 
११/८/३/११
भामेव चन्द्रमस आदत्त  तस्मादेतयोः सदृशयोः सतोर्नतरां चन्द्रमा
भात्यात्ता ह्यस्य भा आ ह वै द्विषतो भ्रातृव्यस्य भां दत्ते य एवं वेद
तद्यदादत्त तस्मादादित्यः
 
११/८/४/१
केशिगृहपतीनामु ह  सम्राड्दुघां शार्दूलो जघान स ह ससत्त्रिण आमन्त्रयां
चक्रे केह प्रायश्चित्तिरिति ते होचुर्नेह प्रायश्चित्तिरस्ति खण्डिक एवौद्भारिरस्य
प्रायश्चित्तिं वेद स उ त एतादृक्चैव कामयतेऽतश्च पापीय इति
 
११/८/४/२
स होवाच  संग्रहीतर्युङ्ग्धि मे स्यन्त्स्यामि स यद्यह मे वक्ष्यति समाप्स्यामि
यद्यु मा मारयिष्यति यज्ञं विकृष्टमनु विक्रक्ष्य इति
 
११/८/४/३
स ह युक्त्वा ययावाजगाम  तं ह प्रतिख्यायोवाच यन्न्वेतान्येवाजिनानि मृगेषु
भवन्त्यथैषां पृष्टीरपिशीर्य पचामहे कृष्णाजिनं मे ग्रीवास्वाबद्धमित्येव
मेदमधृषोऽभ्यवस्यन्त्तू३ मिति
 
११/८/४/४
नेति होवाच  सम्राड्दुघां वै मे भगवः शार्दूलोऽवधीत्स यद्यह मे वक्ष्यसि
समाप्स्यामि यद्यु मा मारयिष्यसि यज्ञं विकृष्टमनु विक्रक्ष्य इति
 
११/८/४/५
स होवाच  आमन्त्रणीयान्न्वामन्त्रया इति तान्हामन्त्र्योवाच यद्यस्मै
वक्ष्याम्यमुष्यैवेदं प्रजा भविष्यति न मम लोकी त्वहं भविष्यामि यद्यु
वा अस्मै न वक्ष्यामि ममैवेदं प्रजा भविष्यति नामुष्य लोकी त्वसौ
भविष्यतीति ते होचुर्मा भगवो वोचोऽयं वाव क्षत्रियस्य लोक इति स होवाच
वक्ष्याम्येवामूर्वै रात्रयो भूयस्य इति
 
११/८/४/६
तस्मा उ हैतदुवाच  स्पृतीर्हुत्वान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति
चन्द्रात्ते मन स्पृणोमि स्वाहा सूर्यात्ते चक्षु स्पृणोमि स्वाहा वातात्ते प्राणान्त्स्पृणोमि
स्वाहा दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहाद्भ्यस्ते लोहितं स्पृणोमि स्वाहा पृथिव्यै ते
शरीरं स्पृणोमि स्वाहेत्यथान्यामाजतेति ब्रूतात्सा ते सम्राड्दुघा स्यादिति ततो हैव स
उत्ससाद कैशिनीरेवेमा अप्येतर्हि प्रजा जायन्ते
 
 

॥इति शतपथब्राह्मणे एकादश काण्डम् समाप्तम्॥

 
अन्य काण्ड पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *