HinduMantavya
Loading...

शतपथब्राह्मणम् काण्डम् ९

Google+ Whatsapp

॥काण्डम् ९॥

अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता
तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानो
ऽतिष्ठदन्नमिचमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति
 
९/१/१/२
तेऽब्रुवन् । अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं
समभरञ्चान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम्
देवमेतेनाशमयंस्तस्माचान्तदेवत्यं शान्तदेवत्यं ह वै
तचतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि
देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषोऽत्र
दीप्यमानस्तिष्ठत्यन्नमिचमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं
तेनैनं शमयति
 
९/१/१/३
जर्तिलैर्जुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत
उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं
यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण
चारण्येन च
 
९/१/१/४
अर्कपर्णेन जुहोति । अन्नमर्कोऽन्नेनैवैनमेतत्प्रीणाति
 
९/१/१/५
परिश्रित्सु जुहोति । अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता
भवन्ति

 
९/१/१/६
यद्वेवैतचतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव
देवो नाजहान्मन्युरेव सोऽतिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि
प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः
समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता
सहस्राणीमांलोकाननुप्राविशंस्तद्यद्रुदितात्समद्रुद्राः सोऽयं शतशीर्षा रुद्रः
सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणो
ऽतिष्ठदन्नमिचमानस्तस्माद्देवा अबिभयुः
 
९/१/१/७
ते प्र्जापतिमब्रुवन् । अस्माद्वै बिभीमो यद्वै नोऽयं न हिंस्यादिति सो
ऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं
समभरञ्चतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणां
रुद्रमेतेनाशमयंस्तस्माचतद्यदेतं शतशीर्षाणां
रुद्रमेतेनाशमयंस्तस्माचतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह
वै तचतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मा
अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति
 
९/१/१/८
गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता विस्रस्ताशयत्ततो गवेधुकाः
समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति
 
९/१/१/९
अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः
समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति
 
९/१/१/१०
परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किं चन
हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः
स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते
 
९/१/१/११
स वै जानुदघ्ने प्रथमं स्वाहाकरोति । अधैव वै तद्यज्जानुदघ्नमध इव
तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति
 
९/१/१/१२
अथ नाभिदघ्ने । मध्यमिव वै तद्यन्नाभिदघ्नम्
मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति

९/१/१/१३
अथ मुखदघ्न । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ
लोकस्तद्येऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो
ऽन्नेनैवैनानेतत्प्रीणाति
 
९/१/१/१४
नमस्ते रुद्र मन्यव इति । य एवास्मिन्त्सोऽन्तर्मन्युर्विततोऽतिष्ठत्तस्मा
एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां
च भीषयमाणोऽतिष्ठत्
 
९/१/१/१५
स एष क्षत्रं देवः । यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः
समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतं पुरस्तादुद्धारमुदहरन्य एष
प्रथमोऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम्
पुरस्तादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्र
एतं ह्येतेन प्रीणाति
 
९/१/१/१६
चतुर्दशैतानि यजूंषि भवन्ति । त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः
प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमो
नम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह
नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत्
 
९/१/१/१७
अथ द्वन्द्विभ्यो जुहोति । नमोऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ
त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति
 
९/१/१/१८
नमो हिरण्यबाहवे । सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः
सेनानीरेष दिशां पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव
तद्विश्यपिभागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियोऽपिभागोऽथ या असंख्याता
सहस्राणीमांलोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति
 
९/१/१/१९
अथ जातेभ्यो जुहोति । एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते
तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु
मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति
 
९/१/१/२०
तेषां वा उभयतोनमस्कारा अन्ये ।ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा
अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण
शमयति
 
९/१/१/२१
स वा अशीत्यां च स्वाहाकरोति । प्रथमे चानुवाकेऽथाशीत्यामथाशीत्यां च यानि
चोर्ध्वानि यजूंष्यावतानेभ्योऽन्नमशीतयोऽन्नेनैवैनानेतत्प्रीणाति
 
९/१/१/२२
अथैतानि यजूंषि जपति । नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम
यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाचङ्केत
तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गचति तथो
हैनमेष देवो न हिनस्ति
 
९/१/१/२३
नमो वः किरिकेभ्य इति । एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य
इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं
सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति
नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः
 
९/१/१/२४
अथोत्ताराणि जपति । द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रा पयति यं
दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि
चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासां प्रजानामेषां पशूनाम्
मा
भेर्मा रोङ्नो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः
 
९/१/१/२५
स एष क्षत्रं देवः । तस्मा एतस्मै क्षत्रायैता विशोऽमुम्
पुरस्तादुद्धारमुदहरन्योऽसौ प्रथमोऽनुवाकोऽथास्मा
एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा
अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादप्येष एकदेवत्यो
भवति रौद्र एवैतं ह्येवैतेनप्रीणाति

९/१/१/२६
सप्तैतानि यजूंषि भवन्ति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति
तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका
असावादित्य एकविंश एतामभिसम्पदम्
 
९/१/१/२७
अथावतानान्जुहोति । एतद्वा एनान्देवा एतेनान्नेन
प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन
प्रीत्वाथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन
हिनस्ति
 
९/१/१/२८
तद्वै सहस्रयोजन इति । एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव
परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति
 
९/१/१/२९
यद्वेवाह सहस्रयोजन इति । अयमग्निः सहस्रयोजनं न ह्येतस्मादिति
नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति
 
९/१/१/३०
असंख्याता सहस्राणि । अस्मिंन्महत्यर्णव इति यत्रयत्र ते
तदेवैषामेतद्धनूंष्यवतनोति
 
९/१/१/३१
दशैतानवतानान्जुहोति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः
प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति
 
९/१/१/३२
अथ प्रत्यवरोहान्जुहोति । एतद्वा एतदिमांलोकानित ऊर्ध्वो रोहति स स पराङिव रोह
इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमाव
इमां प्रतिष्ठामभिप्रत्यैति
 
९/१/१/३३
यद्वेव प्रत्यवरोहति । एतद्वा एनानेतत्प्रीणन्नन्ववैति तत
एवैतदात्मानमपोद्धरते जावात्वै तथा हानेनात्मना सर्वमायुरेति
 
९/१/१/३४
यद्वेव प्रत्यवरोहति । एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतो
ऽर्वाचः
 
९/१/१/३५
ननोऽस्तु रुद्रेभ्यो ये दिवीति । तद्येऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति
येषां वर्षमिषव इति वर्षं ह तेषामिषवा वर्षेण ह ते हिंसन्ति यं
जिहिंसिषन्ति
 
९/१/१/३६
नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्ष इति । तद्येऽन्तरिक्षलोके रुद्रास्तेभ्य
एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं
जिहिंसिषन्ति
 
९/१/१/३७
नमोऽस्तु रुद्रेभ्यो ये पृथिव्यामिति । तद्येऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति
येषामन्नमिषव इत्यन्नं ह तेषामिषवोऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति
 
९/१/१/३८
तेभ्यो दश प्राचीः । दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षरा
विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनानेतदन्नेन प्रीणाति
 
९/१/१/३९
यद्वेवाह दशदशेति । दश वा अञ्जलेरङ्गुलयो दिशिदिश्येवैभ्य एतदञ्जलिं करोति
तस्मादु हैतद्भीतोऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो
मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे
दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां
जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत
स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि

९/१/१/४०
त्रिष्कृत्वः प्रत्यवरोहति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारो
ऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट्तस्योक्तो बन्धुः
 
९/१/१/४१
यद्वेव त्रिष्कृत्वः प्रत्यवरोहति । त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो
रोहति तावत्कृत्वः प्रत्यवरोहति
 
९/१/१/४२
अथ तदर्कपर्णं चात्वाले प्रास्यति । एतद्वा एनेनैतद्रौद्रं कर्म करोति
तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं
कश्चिदभितिष्ठात्तन्नेन्द्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वालेऽग्निरेष
यच्चात्वालस्तथो हैनदेषोऽग्निः संदहत्यथातः सम्पदेव
 
९/१/१/४३
तदाहुः । कथमस्यैतचतरुद्रियं संवत्सरमग्निमाप्नोति कथं
संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतचतरुद्रियमथ
त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि
तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रंशन्मासस्य रात्रयस्तन्मासस्य
रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स
त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव
पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतचतरुद्रियं
संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्स उ वै शाण्डिले
ऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका
एवमु हास्यैतेऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति
 
९/१/१/४४
तदाहुः । कथमस्यैतचतरुद्रियं महदुक्थमाप्नोति कथं महतोक्थेन
सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितोऽशीतीः स पञ्चविंश आत्मा यत्र
वा आत्मा तदेव शिरस्तत्पक्षपुचान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि
महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत
उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतचतरुद्रियम्
महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते
 
९/१/२/१
अथैनमतः परिषिश्चति । एतद्वा एनं देवाः शतरुद्रियेण
शमयित्वाथैनमेतद्भूय एवाशमयंस्तथैवैनमेवमेतचतरुद्रियेण
शमयित्वाथैनमेतद्भूय एव शमयति

९/१/२/२
अद्भिः परिषिञ्चति । शान्तिर्वा आपः शमयत्येवैनमेतत्सर्वतः परिषिञ्चति सर्वत
एवैनमेतचमयति त्रिष्कृत्वः परिषिञ्चति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतचमयति
 
९/१/२/३
यद्वेवैनं परिषिञ्चति । इमे वै लोका एषोऽग्निरिमांस्तल्लोकानद्भिः परितनोति
समुद्रेण हैनांस्तत्परितनोति सर्वतस्तस्मादिमांलोकान्त्सर्वतः समुद्रः पर्येति
दक्षिणावृत्तस्मादिमांलोकान्दक्षिणावृत्समुद्रः पर्येति
 
९/१/२/४
अग्नीत्परिषिञ्चति । अग्निरेष यदाग्नीध्रो नो वा आत्मात्मानं हिनस्त्यहिंसाया अश्मनो
ऽध्यश्मनो ह्यापः प्रभवन्ति निकक्षान्निकक्षाद्ध्यापः प्रभवन्ति
दक्षिणान्निकक्षाद्दक्षिणाद्धि निकक्षादापः प्रभवन्ति
 
९/१/२/५
अश्मन्नूर्जं पर्वते शिश्रियाणामिति । अश्मनि वा एषोर्क्पर्वतेषु श्रिता यदापोऽद्भ्य
ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतं पय इत्येतस्माद्ध्येतत्सर्वस्मादधि
सम्भृतं पयस्तां न इषमूर्जं धत्त मरुतः संरराणा इति मरुतो वै
वर्षस्येशतेऽश्मंस्ते क्षुदिति निदधाति तदश्मनि क्षुधं दधाति
तस्मादश्मानाद्योऽथो स्थिरो वा अश्मा स्थिरा क्षुत्स्थिर एव तत्स्थिरं दधाति मयि
त ऊर्गित्यपादत्ते तदात्मन्नूर्जं धत्ते तथा द्वितीयं तथा तृतीयम्
 
९/१/२/६
निधायोदहरणं त्रिर्विपल्ययते । एतद्वा एनमेतल्लघूयतीव यदेनं समन्तम्
पर्येति तस्मा एवैतन्निह्नुतेऽहिंसायै
 
९/१/२/७
यद्वेव विपल्ययते । एतद्वा एनमेतदन्ववैति तत एवैतदात्मानमपोद्धरते
जीवात्वै तथो हानेनात्मना सर्वमायुरेति
 
९/१/२/८
त्रिर्विपल्ययते । त्रिर्हि कृत्वः पर्येति तद्यावत्कृत्वः पर्येति तावत्कृत्वो विपल्ययते

९/१/२/९
अथ तमश्मानमुदहरणेऽवधाय । एतां दिशं हरन्त्येषा वै नैरृती
दिङ्नैरृत्यामेव तद्दिशि शुचं दधाति
 
९/१/२/१०
एतद्वा एनं देवाः । शतरुद्रियेण चाद्भिश्च शमयित्वाथास्यैतेन शुचम्
पाप्मानमपाघ्नंस्तथैवैनमयमेतचतरुद्रियेण चाद्भिश्च
शमयित्वाथास्यैतेन शुचं पाप्मानमपहन्ति
 
९/१/२/११
बाह्येनाग्निं हरति । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति
बहिर्वेदीयं वै वेदिरस्यै तद्बहिर्धा शुचं दधाति
 
९/१/२/१२
स वेदेर्दक्षिणायां श्रोणौ । प्राङ्तिष्ठन्दक्षिणा निरस्यति यं द्विष्मस्तं ते
शुगृचत्विति यमेव द्वेष्टि तमस्य शुगृचत्यमुं ते शुगृचत्विति ह ब्रूयाद्यं
द्विष्यात्ततो ह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स
यमेवंविद्द्वेष्टि यदि न भिद्येत भित्तवै ब्रूयाद्यदा ह्येव स भिद्यतेऽथ तं
शुगृचति यं द्वेष्ट्यप्रतीक्षमायन्त्यप्रतीक्षमेव तचुचं पाप्मानं जहति
 
९/१/२/१३
प्रत्येत्येष्टका धेनूः कुरुते । एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा
शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूरकुर्वत
तथैवैनमयमेतचतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य
पाप्मानमपहत्य प्रत्येत्येष्टका धेनूः कुरुते
 
९/१/२/१४
आसीनः कुर्वीतेत्यु हैक आहुः । आसीनो वै धेनुं दोग्धीति तिष्ठंस्त्वेव कुर्वीतेमे
वै लोका एषोऽग्निस्तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरः
 
९/१/२/१५
उदङ्प्राङ्तिष्ठन् । पुरस्ताद्वा एषा प्रतीची यजमानं धेनुरुपतिष्ठते दक्षिणतो
वै प्रतीचीं धेनुं तिष्ठन्तीसुपसीदन्ति

९/१/२/१६
स यत्राभ्याप्नोति । तदभिमृश्यैतद्यजुर्जपतीमा मे अग्न इष्टका धेनवः
सन्त्वित्यग्निर्हैतासां धेनुकरणस्येष्टे तस्मादेतावतीनां
देवतानामग्निमेवामन्त्रयत एका च दश चान्तश्च परार्धश्चेत्येष हावरार्ध्यो
भूमा यदेका च दश चाथ हैष परार्ध्यो भूमा यदन्तश्च
परार्धश्चावरार्धतश्चैवैना एतत्परार्धतश्च परिगृह्य देवा धेनूरुकुर्वत
तथैवैना अयमेतदवरार्धतश्चैव परार्धतश्च परिगृह्य धेनूः कुरुते
तस्मादपि नाद्रियेत बह्वीः कर्तुममुत्र वा एष एता ब्रह्मणा यजुषा बह्वीः
कुरुतेऽथ यत्संतनोति कामानेव तत्संतनोति
 
९/१/२/१७
यद्वेवेष्टका धेनूः कुरुते । वाग्वा अयमग्निर्वाचा हि चितः स यदाहैका च दश
चान्तश्च परार्धश्चेति वाग्वा एका वाग्दश वागन्तो वाक्परार्धो वाचमेव तद्देवा
धेनुमकुर्वत तथैवैतद्यजमानो वाचमेव धेनुं कुरुतेऽथ यत्संतनोति
वाचमेव तत्संतनोत्येता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिंलोक
इत्येतद्वा एना अस्मिंलोके धेनूः कुरुतेऽथैना एतदमुष्मिंलोके धेनूः कुरुते
तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्त्यस्मिंश्चामुष्मिंश्च
 
९/१/२/१८
ऋतव स्थेति । ऋतवो ह्येता ऋतावृध इति सत्यवृध इत्येतदृतुष्वा स्थ ऋतावृध
इत्यहोरात्राणि वा इष्टका ऋतुषु वा अहोरात्राणि तिष्ठन्ति घृतश्चुतो मधुश्चुत इति
तदेना घृतश्चुतश्च मधुश्चुतश्च कुरुते
 
९/१/२/१९
विराजो नामेति । एतद्वै देवा एता इष्टका नामभिरुपाह्वयन्ति यथायथैना
एतदाचक्षते ता एनानभ्युपावर्तन्ताथ लोकम्पृणा एव पराच्यस्तस्थुरहितनाम्न्यो
निमेमिहत्यस्ता विराजो नामाकुर्वत ता एनानभ्युपावर्तन्त तस्माद्दशदशेष्टका
उपधाय लोकम्पृणयाभिमन्त्रयते तदेना विरावः कुरुते दशाक्षरा हि विराट्
कामदुधा अक्षीयमाणा इति तदेनाः कामदुधा अक्षीयमाणाः कुरुते
 
९/१/२/२०
अथैनं विकर्षति । मण्डूकेनावकया वेतसशाखयैतद्वा एनं देवाः शतरुद्रियेण
चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय
एवाशमयंस्तथैवैनमयमेतचतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य
पाप्मानमहत्याथैनमेतद्भूय एव शमयति सर्वतो विकर्षति सर्वत
एवैनमेतचमयति
 
९/१/२/२१
यद्वेवैनं विकर्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं
समस्कुर्वंस्तमद्भिरवोक्षंस्ता आपः समस्कन्दंस्ते मण्डूका अभवन्
 
९/१/२/२२
ताः प्रजापतिमब्रुवन् । यद्वै नः कमभूदवाक्तदगादिति सोऽब्रवीदेष व एतस्य
वनस्पतिर्वेत्त्विति वेत्तु संवेत्तु सोऽह वै तं वेतस इत्याचक्षते परोऽक्षं परो
ऽक्षकामा हि देवा अथ यदब्रुवन्नवाङ्तः कमगादिति ता अवाक्का अभवन्नवाक्का
ह वै ता अवका इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्ता हैतास्त्रय्य आपो
यन्मण्डूकोऽवका वेतसशाखैताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति
 
९/१/२/२३
यद्वेवैनं विकर्षति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते
सर्वम्वेतदन्नं यन्मण्डूकोऽवका वेतसशाखा पशवश्च ह्येता आपश्च
वनस्पतयश्च सर्वेणै वैनमेतदन्नेन प्रीणाति
 
९/१/२/२४
मण्डूकेन पशूनाम् । तस्मान्मण्डूकः पशूनामनुपजीवनीयतमो यातयामा हि सो
ऽवकाभिरपां तस्मादवका अपामनुपजीवनीयतमा यातयाम्न्यो हि ता वेतसेन
वनस्पतीनां तस्माद्वेतसो वनस्पतीनामनुपजीवनीयतमो यातयामा हि सः
 
९/१/२/२५
तानि वंशे प्रबध्य । दक्षिणार्धेनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति
समुद्रस्य त्वावकयाग्ने परिव्ययामसि पावको अस्मभ्यं शिवो भवेति
समुद्रियाभिस्त्वाद्भिः शमयाम इत्येतत्
 
९/१/२/२६
अथ जघनार्धेनोदक् । हिमस्य त्वा जरायुणाग्ने परिव्ययामसि पावको अस्मभ्यं
शिवो भवेति यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु शीतस्य त्वा प्रशीतेन
शमयाम इत्येतत्
 
९/१/२/२७
अथोत्तरार्धेन प्राक् । उप ज्मन्नुप वेतसेऽवतर नदीष्वा अग्ने पित्तमपामसि
मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्णं शिवं कृधीति यथैव
यजुस्तथा बन्धुः
 
९/१/२/२८
अथ पूर्वार्धेन दक्षिणा । अपामिदं न्ययनं समुद्रस्य निवेशनमन्यांस्ते
अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा
बन्धुरित्यग्रे विकर्षत्यथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्रा
 
९/१/२/२९
आत्मानमग्रे विकर्षति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणम्
पक्षमथ पुचमथोत्तरं तद्दक्षिणावृत्तद्धि देवत्रा
 
९/१/२/३०
अभ्यात्मं पक्षपुचानि विकर्षति । अभ्यात्ममेव तचान्तिं धत्ते
पुरस्तादर्वाक्परस्तादेव तदर्वाचीं शान्तिं धत्तेऽग्ने पावक रोचिषेति दक्षिणम्
पक्षं स नः पावक दीदिव इति पुचं पावकया यश्चितयन्त्या कृपेत्युत्तरम्
पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्
 
९/१/२/३१
सप्तभिर्विकर्षति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्विकर्षति तं वंशमुत्करेन्यस्य
 
९/१/२/३२
अथैनं सामभिः परिगायति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतदमृतं
रूपमुत्तममदधुस्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति सामानि
भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं
दधाति सर्वतः परिगायति सर्वत एवास्मिन्नेतदमृतं रूपमुत्तमं दधाति
 
९/१/२/३३
यद्वेवैनं सामभिः परिगायति । एतद्वै देवा
अकामयन्तानस्थिकमिमममृतमात्मानं कुर्वीमहीति तेऽब्रुवन्नुप तज्जानीत
यथेममात्मानमनस्थिकममृतं करवामहा इति तेऽब्रुवंश्चेतयध्वमिति
चितिमिचतेति वाव तदब्रुवंस्तदिचत यथेममात्मानमनस्थिकममृतं
करवामहा इति
 
९/१/२/३४
ते चेतयमानाः । एतानि सामान्यपश्यंस्तैरेनम्
पर्यगायंस्तैरेतमात्मानमनस्थिकममृतमकुर्वत तथैवैतद्यजमानो
यदेनं सामभिः परिगायत्येतमेवैतदात्मानमनस्थिकममृतं कुरुते सर्वतः
परिगायति सर्वत एवैतदेतमात्मानमनस्थिकममृतं कुरुते तिष्ठन्गायति
तिष्ठन्तीव वा इमे लोका अथो तिष्ठन्वै वीर्यवत्तरो हिङ्कृत्य गायति तत्र हि सर्वं
कृत्स्नं साम भवति
 
९/१/२/३५
गायत्रं पुरस्ताद्गायति । अग्निर्वै गायत्रमग्निमेवास्यैतचिरः करोत्यथो शिर
एवास्यैतदनस्थिकममृतं करोति
 
९/१/२/३६
रथन्तरं दक्षिणे पक्षे । इयं वै रथन्तरमियमु वा एषां लोकानां रसतमो
ऽस्यां हीमे सर्वे रसा रसंतमं ह वै तद्रथन्तरमित्याचक्षते परोऽक्षम्
परोऽक्षकामा हि देवा इमामेवास्यैतद्दक्षिणं पक्षं करोत्यथो
दक्षिणमेवास्यैतत्पक्षमनस्थिकममृतं करोति
 
९/१/२/३७
बृहदुत्तरे पक्षे । द्यौर्वै बृहद्द्यौर्हि बर्हिष्ठा दिवमेवास्यैतदुत्तरम्
पक्षं करोत्यथो उत्तरमेवास्यैतत्पक्षमनस्थिकममृतं करोति
 
९/१/२/३८
वामदेव्यमात्मन् । प्राणो वै वामदेव्यं वायुरु प्राणः सर्वेषामु हैष
देवानामात्मा यद्वायुर्वायुमेवास्यैतदात्मानं करोत्यथो
आत्मानमेवास्यैतदनस्थिकममृतं करोति
 
९/१/२/३९
यज्ञायज्ञियं पुचम् । चन्द्रमा वै यज्ञायज्ञियं यो हि कश्च यज्ञः संतिष्ठत
एतमेव तस्याहुतीनां रसोऽप्येति तद्यदेतं यज्ञोयज्ञोऽप्येति तस्माच्चन्द्रमा
यज्ञायज्ञियं चन्द्रमसमेवास्यैतत्पुचं करोत्यथो
पुचमेवास्यैतदनस्थिकममृतं करोति
 
९/१/२/४०
अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयं श्लक्ष्ण एष श्लक्ष्णं
हृदयं परिमण्डल एष परिमण्डलं हृदयमात्मन्गायत्यात्मन्हि हृदयं
निकक्षे निकक्षे हि हृदयं दक्षिणे निकक्षेऽतो हि हृदयं नेदीय
आदित्यमेवास्यैतद्धृदयं करोत्यथो हृदयमेवास्यैतदनस्थिकममृतं करोति
 
९/१/२/४१
प्रजासु च प्रजापतौ च गायति । तद्यत्प्रजासु गायति तत्प्रजासु हृदयं दधात्यथ
यत्प्रजापतौ गायति तदग्नौ हृदयं दधाति
 
९/१/२/४२
यद्वेव प्रजासु च प्रजापतौ च गायति । अयं वा अग्निः प्रजाश्च प्रजापतिश्च
तद्यदग्नौ गायति तदेव प्रजासु च प्रजापतौ च हृदयं दधाति
 
९/१/२/४३
ता हैता अमृतेष्टकाः । ताउत्तमा उपदधात्यमृतं तदस्य सर्वस्योत्तमं दधाति
तस्मादस्य सर्वस्यामृतमुत्तमं नान्योऽध्वर्योर्गायेदिष्टका वा एता विचितो ह
स्याद्यदन्योऽध्वर्योर्गायेत्
 
९/२/१/१
उपवसथीयेऽहन्प्रातरुदित आदित्ये । वाचं विसृजते वाचं विसृज्य पञ्चगृहीतमाज्यं
गृह्णीते तत्र पञ्च हिरण्यशकलान्प्रास्यत्यथैतत्त्रयं समासिक्तं भवति दधि
मधु घृतं पात्र्यां वा स्थाल्यां वोरुबिल्यां तदुपरिष्टाद्दर्भमुष्टिं निदधाति
 
९/२/१/२
अथाग्निमारोहति । नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिष इत्यत्रैष सर्वोऽग्निः
संस्कृतः स एषोऽत्र तस्मा अलं यद्धिंस्याद्यं जिहिंसिषेद्यमु वा एष हिनस्ति
हरसा वैनं शोचिषा वार्चिषा वा हिनस्ति तथो हैनमेष एतैर्न हिनस्त्यन्यांस्ते
अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः
 
९/२/१/३
आरुह्याग्निं स्वयमातृणां व्याघारयति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः
 
९/२/१/४
स्वयमातृणां व्याघारयति । प्राणः स्वयमातृणा प्राणे तदन्नं दधाति
 
९/२/१/५
यद्वेव स्वयमातृणां व्याघारयति । उत्तरवेदिर्हैषाग्नेरथ याममूं पूर्वां
व्याघारयत्यध्वरस्य साथ हैषाग्नेस्तामेतद्व्याघारयति

९/२/१/६
पश्यंस्तत्र हिरण्यं व्याघारयति । प्रत्यक्षं वै तद्यत्पश्यति प्रत्यक्षं
सोत्तरवेदिः प्रास्ता एवेह भवन्ति परोऽक्षं वै तद्यत्प्रास्ताः परो
ऽक्षमियमुत्तरवेदिः
 
९/२/१/७
स्वाहाकारेण तां व्याघारयति । प्रत्यक्षं वै तद्यत्स्वाहाकारः प्रत्यक्षं
सोत्तरवेदिर्वेट्कारेणेमां परोऽक्षं वै तद्यद्वेट्कारः परो
ऽक्षमियमुत्तरवेदिराज्येनाज्येन ह्युत्तरवेदिं व्याघारयन्ति पञ्चगृहीतेन
पञ्चगृहीतेन ह्युत्तरवेदिं व्याघारयन्ति व्यतिहारं व्यतिहारं ह्युत्तरवेदिं
व्याघारयन्ति
 
९/२/१/८
नृषदे वेडिति । प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणो
ऽग्निस्तमेतत्प्रीणात्यप्सुषदे वेडिति योऽप्स्वग्निस्तमेतत्प्रीणाति बहिर्षदे वेडिति य
ओषधिष्वग्निस्तमेतत्प्रीणाति वनसदे वेडिति यो वनस्पतिष्वग्निस्तमेतत्प्रीणाति
स्वर्विदे वेडित्ययमग्निः स्वर्विदिममेवैतदग्निं प्रीणाति
 
९/२/१/९
यद्वेवाह । नृषदे वेडप्सुषदे वेडित्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि
हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न
गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति
 
९/२/१/१०
पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तव संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्राणाति
 
९/२/१/११
अथैनं समुक्षति । दध्ना मधुना घृतेन जायत एष एतद्यच्चीयते स एष
सर्वस्मा अन्नाय जायते सर्वम्वेतदन्नं यद्दधि मधु गृतं
सर्वेणैवैनमेतदन्नेन प्रीणाति सर्वतः समुक्षति सर्वत
एवैनमेतत्सर्वेणान्नेन प्रीणाति
 
९/२/१/१२
यद्वेवैनं समुक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा
एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधात्यन्नं वै
रूपमेतदु परममन्नं यद्दधि मधु गृतं तद्यदेव परमं रूपं
तदस्मिन्नेतदुत्तमं दधाति सर्वतः समुक्षत्यपि बाह्येन परिष्रितः सर्वत
एवास्मिन्नेतद्रूपमुत्तमं दधाति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि
देवानाम्
 
९/२/१/१३
यद्वेवैनं समुक्षति । एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं
समस्कुर्वंस्तदस्मिन्नदोऽमुं पुरस्ताद्भागमकुर्वतादः
सजूरब्दीयमथास्मिन्नेतं संचित उपरिष्टाद्भागमकुर्वत तद्यत्समुक्षति य
एवास्मिंस्ते प्राणा ऋषयः सचित उपरिष्टाद्भागमकुर्वत तानेवैतत्प्रीणाति दध्ना
मधुना घृतेन तस्योक्तो बन्धुः
 
९/२/१/१४
ये देवा देवानाम् । यज्ञिया यज्ञियानामिति देवा ह्येते देवानां यज्ञिया उ यज्ञियानां
संवत्सरीणमुप भागमासत इति संवत्सरीणं ह्येत एतं भागमुपासतेऽहुतादो
हविषो यज्ञे अस्मिन्नित्यहुतादो हि प्राणाः स्वयं पिबन्तु मधुनो घृतस्येति
स्वयमस्य पिबन्तु मधुनश्च घृतस्य चेत्येतत्
 
९/२/१/१५
ये देवा देवेषु । अधि देवत्वमायन्निति देवा ह्येते देवेषधि देवत्वमायन्ये
ब्रह्मणः पुरएतारो अस्येत्ययमग्निर्ब्रह्म तस्यैते पुरएतारो येभ्यो न ऋते पवते
धाम किं चनेति न हि प्राणेभ्य ऋते पवते धाम किं चन न ते दिवो न पृथिव्या
अधि स्नुष्विति नैव ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्त इत्येतत्
 
९/२/१/१६
द्वाभ्यां समुक्षति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्समुक्षति
 
९/२/१/१७
अथ प्रत्यवरोहति । प्राणदा अपानदा इति सर्वे हैते प्राणा योऽयमग्निश्चितः स
यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष प्राणान्वृञ्जीताथ
यदेतामत्रात्मनः परिदां वदते तथो हास्यैष प्राणान्न वृङ्क्ते प्राणदा अपानदा
व्यानदा वर्चोदा वरिवोदा इत्येतद्दा मेऽसीत्येवैतदाहान्यांस्ते अस्मत्तपन्तु हेतयः
पावको अस्मभ्यं शिवो भवेति यथैव यजुस्तथा बन्धुः
 
९/२/१/१८
प्रत्येत्य प्रवर्ग्योपसद्भ्यां प्रचरति । प्रवर्ग्योपसद्भ्यां प्रचर्याथास्मै
व्रतं वार्धव्रतं वा प्रयचत्यथ प्रवर्ग्योपसद्भ्यामथ
प्रवर्ग्यमुत्सादयत्याप्त्वा तं कामं यस्मै कामायैनं प्रवृणक्ति
 
९/२/१/१९
तं वै परिष्यन्द उत्सादयेत् । तप्तो वा एष शुशुचानो भवति तं
यदस्यामुत्सादयेदिमामस्य शुगृचेद्यदप्सूत्सादयेदपोऽस्य शुगृचेदथ
यत्परिष्यन्द उत्सादयति तथो ह नैवापो हिनस्ति नेमां यदहाप्सु न प्रास्यति
तेनापो न हिनस्त्यथ यत्समन्तमापः परियन्ति शान्तिर्वा आपस्तेनो इमां न हिनस्ति
तस्मात्परिष्यन्द उत्सादयेत्
 
९/२/१/२०
अग्नौ त्वेवोत्सादयेत् । इमे वै लोका एषोऽग्निरापः परिश्रितस्तं यदग्ना उत्सादयति
तदेवैनं परिष्यन्द उत्सादयति
 
९/२/१/२१
यद्वेवाग्ना उत्सादयति । इमे वै लोका एषोऽग्निरग्निर्वायुरादित्यस्तदेते प्रवर्ग्याः स
यदन्यत्राग्नेरुत्सादयेदेतांस्तद्देवान्बहिर्धैभ्यो लोकेभ्यो दध्यादथ यदग्ना
उत्सादयत्येतानेवैतद्देवानेषु लोकेषु दधाति
 
९/२/१/२२
यद्वेवाग्ना उत्सादयति । शिर एतद्यज्ञस्य यत्प्रवर्ग्य आत्मायमग्निश्चितः स
यदन्यत्राग्नेरुत्सादयेद्बहिर्धास्माचिरो दध्यादथ यदग्ना
उत्सादयत्यात्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति
 
९/२/१/२३
स्वयमातृणया संस्पृष्टं प्रथमं प्रवर्ग्यमुत्सादयति । प्राणः स्वयमातृणा
शिरः प्रवर्ग्य आत्मायमग्निश्चितः शिरश्च तदात्मानं च प्राणेन संतनोति
संदधात्युत्साद्य प्रवर्ग्यं यथा तस्योत्सादनम्
 
९/२/२/१
प्रत्येत्याग्निं प्रहरिष्यन् । आहुतीश्च जुहोति समिधश्चादधात्येतद्वा एनं देवा
एष्यन्तं पुरस्तादन्नेनाप्रीणन्नाहुतिभिश्च समिद्भिश्च
तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणात्याहुतिभिश्च समिद्भिश्च स
वै पञ्चगृहीतं गृह्णीते तस्योक्तो बन्धुः

९/२/२/२
अथ षोडशगृहीतं गृह्णीते । षोडशकलः प्रजापतिः
प्रजापतिरग्निरात्मसम्मितेनैवैनमेतदन्नेन प्रीणाति यदु वा
आत्मसम्मितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयो न
तदवति समान्यां स्रुचि गृह्णीते समानो हि स यमेतत्प्रीणाति वैश्वकर्मणाभ्यां
जुहोति विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति
 
९/२/२/३
अथ समिध आदधाति । यथा तर्पयित्वा परिवेविष्यात्तादृक्तदौदुम्बर्यो
भवन्त्यूर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन प्रीणात्यार्द्रा भवन्त्येतद्वै
वनस्पतीनामनार्तं जीवं यदार्द्रं तद्यदेव वनस्पतीनामनार्तं जीवं
तेनैनमेतत्प्रीणाति घृते न्युत्ता भवन्त्याग्नेयं वै घृतं
स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति सर्वां रात्रिं वसन्ति तत्र हि ता रसेन
सम्पद्यन्ते तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति
 
९/२/२/४
यद्वेवैता आहुतीर्जुहोति । एतद्वा एनं देवा एष्यन्त पुरस्तादन्नेन
समस्कुर्वन्नेताभिराहुतिभिस्तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन
संस्करोत्येताभिराहुतिभिः
 
९/२/२/५
स वै पञ्चगृहीतं गृह्णीते । पञ्चधाविहितो वा अयं शीर्षन्प्राणो मनो वाक्
प्राणश्चक्षुः श्रोत्रमेतमेवास्मिन्नेतत्पञ्चधाविहितं शीर्षन्प्राणं
दधात्यग्निस्तिग्मेन शोचिषेति तिग्मवत्या शिर एवास्यैतया संश्यति तिग्मतायै
 
९/२/२/६
अथ षोडशगृहीतं गृह्णीते । अष्टौ प्राणा अष्टावङ्गान्येतामभिसम्पदं समान्यां
स्रुचि गृह्णीते समाने ह्येवात्मन्नङ्गानि च प्राणाश्च भवन्ति नाना
जुहोत्यङ्गेभ्यश्च
तत्प्राणेभ्यश्च विधृतिं करोति वैश्वकर्मणाभ्यां जुहोति
विश्वकर्मायमग्निस्तमेवैतत्संस्करोति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन संस्करोति
सप्तदशभिरृग्भिः सप्तदशः प्रजापतिः प्रजापतिरग्निर्यावानाग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्संस्करोत्येकविंशतिगृहीतेन द्वादश मासाः पञ्चऽर्तवस्त्रय इमे
लोका असावादित्य एकविंश एतामभिसम्पदम्
 
९/२/२/७
यद्वेवैताः समिध आदधाति । एतद्वा एनं देवाः सर्वं कृत्स्नं
संस्कृत्याथैनमेतेनान्नेनाप्रीणन्नेताभिः समिद्भिस्तथैवैनमयमेतत्सर्वं
कृत्स्नं संस्कृत्याथैनमेतेनान्नेन प्रीणात्येताभिः समिद्भिरौदुम्बर्यो
भवन्त्यार्द्रा घृते न्युत्ता सर्वां रात्रिं वसन्ति तस्योक्तो बन्धुरुदेनमुत्तरां
नयेन्द्रेमं प्रतरां नय यस्य कुर्मो गृहे हविरिति यथा यजुस्तथा
बन्धुस्तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति तिस आहुतीर्जुहोति तत्षट्तस्योक्तो बन्धुः
 
९/२/३/१
अथातः सम्प्रेष्यति । उद्यचेध्ममुपयचोपयमनीरग्नये
प्रह्रियमाणायानुब्रूह्यग्नीदेकस्फ्ययानूदेहि ब्रह्मन्नप्रतिरथं जपेति
 
९/२/३/२
एतद्वै देवानुपप्रैष्यतः । एतं यज्ञं तंस्यमानान्दक्षिणतोऽसुरा रक्षांसि
नाष्ट्रा अजिघांसन्न यक्ष्यध्वे न यज्ञं तंस्यध्व इति
 
९/२/३/३
ते देवा इन्द्रमब्रुवन् । त्वं वै नः श्रेष्ठो बलिष्ठो वीर्यवत्तमोऽसि त्वमिमानि
रक्षांसि प्रतियतस्वेति तस्य वै मे ब्रह्म द्वितीयमस्त्विति तथेति तस्मै वै
बृहस्पतिं द्वितीयमकुर्वन्ब्रह्म वै बृहस्पतिस्त इन्द्रेण चैव बृहस्पतिना च
दक्षिणतोऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभये नाष्ट्र एतं यज्ञमतन्वत
 
९/२/३/४
तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवापहतानि
यत्त्वेतत्करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो इन्द्रेण चैवैतद्बृहस्पतिना च
दक्षिणतो सुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते
 
९/२/३/५
स यः स इन्द्रः । एष सोऽप्रतिरथोऽथ यः स बृहस्पतिरेष स ब्रह्मा
तद्यद्ब्रह्माप्रतिरथं जपतीन्द्रेण चैवैतद्बृहस्पतिना च दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते
तस्माद्ब्रह्माप्रतिरथं जपति
 
९/२/३/६
आशुः शिशानो वृषभो न भीम इति । ऐन्द्र्योऽभिरूपा द्वादश भवन्ति द्वादश मासाः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुब्वज्रेणैवैतद्दक्षिणतो
ऽसुरान्रक्षांसि नाष्ट्रा अपहन्ति ता द्वाविंशतिर्गायत्र्यः सम्पद्यन्ते तदाग्नेय्यो
भवन्त्यग्निकर्म हि
 
९/२/३/७
अथैनमुद्यचति । उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति तस्योक्तो बन्धुः
 
९/२/३/८
अथाभिप्रयन्ति । पञ्च दिशो दैवोर्यज्ञमवन्तु देवीरिति देवाश्चासुराश्चोभये
प्राजापत्या दिक्ष्वस्पर्धन्त ते देवा असुराणां दिशो वृञ्जत तथैवैतद्यजमानो
द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते दैवीरिति तदेना दैवीः कुरुते यज्ञमवन्तु
देवारिति यज्ञमिमवन्तु देवीरित्येतदपामतिं दुर्मतिं बाधमाना इत्यशनाया वा
अमतिरशनायामपबाधमाना इत्येतद्रायस्पोषे यज्ञपतिमाभजन्तीरिति रय्यां च
पोसे च यज्ञपतिमाभजन्तीरित्येतद्रायस्पोषे अधि यज्ञो अस्थादिति रय्यां च पोषे
चाधि यज्ञोऽस्थादित्येतत्
 
९/२/३/९
समिद्धे अग्नावधि मामहान इति । यजमानो वै मामहान उक्थपत्र इत्युक्थानि
ह्येतस्य पत्राणीड्य इति यज्ञियं इत्येतद्गृभीत इति धारित इत्येतत्तप्तं घर्मम्
परिगृह्यायजन्तेति तप्तं ह्येतं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमयजन्त
देवा इत्यूर्जा ह्येतं यज्ञमयजन्त देवाः
 
९/२/३/१०
दैव्याय धर्त्रे जोष्ट्र इति । दैवो ह्येष धर्ता जोषयितृतमो देवश्रीः श्रीमनाः
शतपया इति देवश्रीर्ह्येष श्रीमनाः शतपयाः परिगृह्य देवा यज्ञमायन्निति
परिगृह्य ह्येतं देवा यज्ञमायन्देवा देवेभ्यो अध्वर्यन्तो अस्थुरित्यध्वरो वै
यज्ञो देवा देवेभ्यो यज्ञियन्तोऽथुरित्येतत्
 
९/२/३/११
वीतं हविः शमितं शमिता यजध्या इति । इष्टं स्विष्टमित्येतत्तुरीयो यज्ञो यत्र
हव्यमेतीत्यध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा
दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञस्ततो वाका आशिषो नो जुषन्तामिति
ततो नो वाकाश्चाशिषश्च जुषन्तामित्येतत्
 
९/२/३/१२
सूर्यरश्मिर्हरिकेशः पुरस्तात् । सविता ज्योतिरुद्रियां अजस्रमित्यसौ वा आदित्य एषो
ऽग्निः स एष सूर्यरश्मिर्हरिकेशः पुरस्तात्सवितैतज्ज्योतिरुद्यचत्यजस्रं तस्य पूषा
प्रसवे याति विद्वानिति पशवो वै पूषा त एतस्य प्रसवे प्रेरते सम्पश्यन्विश्वा
भुवनानि गोपा इत्येष वा इदं सर्वं सम्पश्यत्येष उ एवास्य सर्वस्य भुवनस्य
गोप्ताः
 
९/२/३/१३
तद्या अमुष्मादादित्यादर्वाज्यः पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति
 
९/२/३/१४
अथाश्मानं पृश्निमुपदधाति । असौ वा आदित्योऽश्मा
पृश्निरमुमेवैतदादित्यमुपदधाति पृश्निर्भवति रश्मिभिर्हि मण्डलं पृश्नि
तमन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो
द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण
तपति
 
९/२/३/१५
आग्नीध्रवेलायाम् । अन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधाति तस्मादेषो
ऽन्तरिक्षायतनो व्यध्वे व्यध्वे ह्येष इतः
 
९/२/३/१६
स एष प्राणः । प्राणमेवैतदात्मन्धत्ते तदेतदायुरायुरेवैतदात्मन्धत्ते
तदेतदन्नमायुर्ह्येतदन्नमु वा आयुरश्मा भवति स्थिरो वा अश्मा स्थिरं तदायुः
कुरुते पृश्निर्भवति पृश्नीव ह्यन्नम्
 
९/२/३/१७
स उपदधाति । विमान एष दिवो मध्य आस्त इति विमानो ह्येष दिवो मध्य आस्त
आपप्रिवान्रोदसी अन्तरिक्षमित्युद्यन्वा एष इमांलोकानापूरयति स विश्वाचीरभिचष्टे
घृताचीरिति स्रुचश्चैतद्वेदीश्चाहान्तरा पूर्वमपरं च केतुमित्यन्तरेमं च
लोकममुं चेत्येतदथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमचीयतेति
 
९/२/३/१८
उक्षा समुद्रो अरुणः सुपर्ण इति । उक्षा ह्येष समुद्रोऽरुणः सुपर्णः पूर्वस्य
योनिं पितुराविवेशेति पूर्वस्य ह्येष एतं योनिं पितुराविशति मध्ये दिवो निहितः
पृश्निरश्मेति मध्ये ह्येष दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्ताविति
विक्रममाणो वा एष एषां लोकानामन्तान्याति

९/२/३/१९
द्वाभ्यामुपदधाति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदुपदधाति त्रिष्टुब्भ्यां त्रैष्टुभो ह्येष न सादयत्यसन्नोय्
ह्येष न सूददोहसाधिवदति प्राणो वै सूददोहाः प्राण एष किं प्राणे प्राणं
दध्यामिति तं निधाय यथा न नश्येत्
 
९/२/३/२०
अथोपायन्ति । इन्द्रं विश्वा अवीवृधन्निति तस्योक्तो बन्धुर्देवहूर्यज्ञ आ च
वक्षत्सुम्नहूर्यज्ञ आ च वक्षदिति देवहूश्चैव यज्ञः सुम्नहूश्च
यक्षदग्निर्देवो देवां आ च वक्षदिति यक्षच्चैवाग्निर्देवो देवाना च वहत्वित्येतत्
 
९/२/३/२१
वाजस्य मा प्रसवः । उद्ग्राभेणोदग्रभीत् अधा सपत्नानिन्द्रो मे निग्राभेणाधरा
अकरिति यथैव यजुस्तथा बन्धुः
 
९/२/३/२२
उद्ग्राभं च निग्राभं च । ब्रह्म देवा अवीवृधनधा सपत्नानिन्द्राग्नी मे
विषूचीनान्व्यस्यतामिति यथैव यजुस्तथा बन्धुः
 
९/२/३/२३
तद्या अमुष्मादादित्यादूर्ध्वाश्चतस्रो दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति
 
९/२/३/२४
अथाग्निमारोहन्ति । क्रमध्वमग्निना नाकमिति स्वर्गो वै लोको नाकः
क्रमध्वमनेनाग्निनैतं स्वर्गं लोकमित्येतदुख्यं हस्तेषु बिभ्रत
इत्युख्यं ह्येत एतं हस्तेषु बिभ्रति दिवस्पृष्ठं स्वर्गत्वा मिश्रा
देवेभिराध्वमिति दिवस्पृष्ठं स्वर्गं लोकं गत्वा मिश्रा देवेभिराध्वमित्येतत्
 
९/२/३/२५
प्राचीमनु प्रदिशं प्रेहि विद्वानिति । प्राची वै दिगग्नेः स्वामनु प्रदिशं प्रेहि
विद्वानित्येतदग्नेरग्ने पुरो अग्निर्भवेहेत्यस्य त्वमग्नेरग्ने पुरो
ऽग्निर्भवेहेत्येतद्विश्वा आशा दीद्यानो विभाहीति सर्वा आशा दीप्यमानो
विभाहीत्येतदूर्जं नो धेहि द्विपदे चतुष्पद इत्याशिषमाशास्ते
 
९/२/३/२६
पृथिव्या अहम् । उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति
गार्हपत्याद्ध्याग्नीध्रीयमागचन्त्याग्नीध्रीयादाहवनीयं दिवो नाकस्य
पृष्ठात्स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत्
 
९/२/३/२७
स्वर्यन्तो नापेक्षन्ते । आ द्यां रोहन्ति रोदसी इति न हैव तेऽपेक्षन्ते ये स्वर्गं
लोकं यन्ति यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिर इत्येष एव यज्ञो
विश्वतोधार एत उ एव सुविद्वांसो य एतं वितन्वते
 
९/२/३/२८
अग्ने प्रेहि प्रथमो देवयतामिति । इममेतदग्निमाह त्वमेषां प्रेहि प्रथमो
देवयतामिति चक्षुर्देवानामुत मर्त्यानामित्युभयेषां हैतद्देवमनुष्याणां
चक्षुरियक्षमाणा भृगुभिः सजोषा इति यजमाना भृगुभिः सजोषा इत्येतत्स्वर्यन्तु
यजमानाः स्वस्तीति स्वर्गं लोकं यन्तु यजमानाः स्वस्तीत्येतत्
 
९/२/३/२९
तद्या अमुष्मिंलोके पञ्च दिशः । ता एतद्देवा असुराणामवृञ्जताथो ता
एवैतत्समारोहंस्ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्तेऽथो ता
एवैतत्समारोहत्यथो एतद्वा एताभिर्देवा आतः
सम्प्राप्नुवंस्तथैवाभिरयमेतदातः सम्प्राप्नोति
 
९/२/३/३०
अथैनमभिजुहोति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतयाहुत्या
तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतयाहुत्या कृष्णायै
शुक्लवत्सायै पयसा रात्रिर्वै कृष्णा शुक्लवत्सा तस्या असावादित्यो वत्सः
स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणात्युपरि धार्यमाण उपरि हि स
यमेतत्प्रीणाति दोहनेन दोहनेन हि पयः प्रदीयते
 
९/२/३/३१
यद्वेवैनमभिजुहोति । शिर एतद्यज्ञस्य यदग्निः प्राणः पयः शीर्षंस्तत्प्राणं
दधाति यथा स्वयमातृणामभिप्रक्षरेदेवमभिजुहुयात्प्राणः स्वयमातृणा रस
एष शिरश्च तत्प्राणं च रसेन संतनोति संदधाति नक्तोषासा समनसा विरूपे इति
तस्योक्तो बन्धुः

९/२/३/३२
अग्ने सहस्राक्षेति । हिरण्यशकलैर्वा एष सहस्राक्षः शतमूर्धन्निति यददः
शतशीर्षा रुद्रोऽसृज्यत शतं ते प्राणाः सहस्रं व्याना इति शतं हैव तस्य प्राणाः
सहस्रं व्याना यः शतशीर्षा त्वं साहस्रस्य राय ईशिष इति त्वं सर्वस्यै रय्या ईशिष
इत्येतत्तस्मै ते विधेम वाजाय स्वाहेत्येष वै वाजस्तमेतत्प्रीणाति
 
९/२/३/३३
द्वाभ्यामभिजुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदभिजुहोति
 
९/२/३/३४
अथैनं निदधाति । सुपर्णोऽसि गरुत्मानित्येतद्वा एनमदो विकृत्य सुपर्णं
गरुत्मन्तं विकरोति तं सुपर्णं गरुत्मन्तं चिनोति तं सुपर्णं गरुत्मन्तं
कृत्वान्ततो निदधाति पृष्ठे पृथिव्याः सीद भासान्तरिक्षमापृण ज्योतिषा
दिवमुत्तभान तेजसा दिश उद्दूंहेत्येवं ह्येष एतत्सर्वं करोति
 
९/२/३/३५
आजुह्वानः सुप्रतीकः पुरस्तादिति । आजुह्वानो नः सुप्रतीकः पुरस्तादित्येतदग्ने त्वं
योनिमासीद साधुयेत्येष वा अस्य स्वो योनिस्तं साध्वासीदेत्येतदस्मिन्त्सधस्थे
अध्युत्तरस्मिन्निति द्यौर्वा उत्तरं सधस्थं विश्वे देवा यजमानश्च सीदतेति
तद्विश्वैर्देवैः सह यजमानं सादयति द्वाभ्यां निदधाति तस्योक्तो
बन्धुर्वषट्कारेण तस्योपरि बन्धुः
 
९/२/३/३६
अथास्मिन्त्समिध आदधाति । एतद्वा एनं देवा
ईयिवांसमुपरिष्टादन्नेनाप्रीणन्त्समिद्भिश्चाहुतिभिश्च
तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणाति समिद्भिश्चाहुतिभिश्च
 
९/२/३/३७
स वै शमीमयीं प्रथमामादधाति । एतद्वा एष एतस्यामाहुत्यां हुतायाम्
प्रादीप्यतोदज्वलत्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति त एतां
शमीमपश्यस्तयैनमशमयंस्तद्यदेतं शम्याशमयंस्तस्माचमी
तथैवैनमयमेतचम्या शमयति शान्त्या एव न जग्ध्यै
 
९/२/३/३८
तां सवितुर्वरेण्यस्य । चित्रामाहं वृणे सुमतिं विश्वजन्यां यामस्य कण्वो
अदुहत्प्रपीनां सहस्रधारां पयसा महीं गामिति कण्वो हैनां ददर्श सा हास्मै
सहस्रधारा सर्वान्कामान्दुदुहे तथैवैतद्यजमानाय सहस्रधारा
सर्वान्कामान्दुहे
 
९/२/३/३९
अथ वैकङ्कतीमादधाति । तस्या उक्तो बन्धुर्विधेम ते परमे जन्मन्नग्न इति
द्यौर्वा अस्य परमं जन्म विधेम स्तोमैरवरे सधस्थ इत्यन्तरिक्षं वा
अवरं सधस्थं यस्माद्योनेरुदारिथा यजे तमित्येष वा अस्य स्वो योनिस्तं यज
इत्येतत्प्र त्वे हवींषि जुहुरे समिद्ध इति यदा वा एष समिध्यते
ऽथैतस्मिन्हवींषि प्रजुह्वति
 
९/२/३/४०
अथौदुम्बरीमादधाति । ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेद्रसेन प्रीणाति
कर्णकवती भवति पशवो वै कर्णकाः पशुभिरेवैनमेतदन्नेन प्रीणाति यदि
कर्णकवतीं न विन्देद्दधिद्रप्समुपहत्यादध्यात्तद्यद्दधिद्रप्स
उपतिष्ठते तदेव पशुरूपं प्रेद्धो अग्ने दीदिहि पुरो न इति विराजादधान्यन्नं
विराडन्नेवैनमेतत्प्रीणाति तिस्रः समिध आदधाति त्रिवृदग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतदन्नेन प्रीणाति
 
९/२/३/४१
अथाहुतीर्जुहोति । यथा परिविष्यानुपाययेत्तादृक्तत्स्रुवेण पूर्वे स्रुचोत्तरामग्ने
तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ऋध्यामा त ओहैरिति यस्ते
हृदिस्पृक्ष्तोमस्तं त ऋध्यासमित्येतत्पङ्क्त्या जुहोति पञ्चपदा पङ्क्तिः पञ्चचितिको
ऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति
 
९/२/३/४२
अथ वैश्वकर्मणीं जुहोति । विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति चित्तिं जुहोमि
मनसा घृतेनेति चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतद्यथा देवा
इहागमन्निति यथा देवा इहागचानित्येतद्वीतिहोत्रा ऋतावृध इति सत्यवृध इत्येतत्पत्ये
विश्वस्य भूमनो जुहोमि विश्वकर्मण इति योऽस्य सर्वस्य भूतस्य पतिस्तस्मै
जुहोमि विश्वकर्मण इत्येतद्विश्वाहाहाभ्यं हविरिति सर्वदैवाक्षितं हविरित्येतत्
 
९/२/३/४३
अथ पूर्णाहुतिं जुहोति सर्वमेतद्यत्पूर्णं सर्वेणैवैनमेतत्प्रीणाति
 
९/२/३/४४
सप्त ते अग्ने समिध इति प्राणा वै समिधः प्राणा ह्येतं समिन्धते सप्त जिह्वा इति
यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वंस्तेषामेतदाह सप्त ऋषय इति सप्त
हि त ऋषय आसन्त्सप्त धाम प्रियाणीति चन्दांस्येतदाह चन्दांसि वा अस्य सप्त
धाम प्रियाणि सप्त होत्राः सप्तधा त्वा यजन्तीति सप्त ह्येतं होत्राः सप्तधा
यजन्ति सप्त योनिरिति चितीरेतदाहापृणस्वेत्या प्रजायस्वेत्येतद्घ्रृतेनेति रेतो वै घृतं
रेत एवैतदेषु लोकेषु दधाति स्वाहेति यज्ञो वै स्वाहाकारो यज्ञियमेवैतदिदं
सकृत्सर्वं करोति
 
९/२/३/४५
सप्त सप्तेति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रीणाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तिस्रः
समिध आदधाति तत्षट्तस्योक्तो बन्धुः
 
९/२/३/४६
तिष्ठन्त्समिध आदधाति । अस्थीनि वै समिधस्तिष्ठन्तीव वा अस्थीन्यासीन
आहुतीर्जुहोति मांसानि वा आहुतय आसत इव वै मांसान्यन्तराः समिधो भवन्ति
बाह्या आहुतयोऽन्तराणि ह्यस्थीनि बाह्यानि मांसानि
 
९/२/३/४७
अथातः सम्पदेव । षट्पुरस्ताज्जुहोति षडुपरिष्टात्षद्भिराश्मनः पृश्नेर्यन्ति
द्वाभ्यामश्मानं पृश्निमुपदधाति चतुर्भिराग्नेर्यन्ति पञ्चभिरग्निमारोहन्ति
तदेकां न त्रिंशदाहुतिरेव त्रिंशत्तमी द्वाभ्यामग्निं निदधाति
तद्द्वात्रिंशद्द्वात्रिंशदक्षरानुष्टुप्सैषानुष्टुप्
 
९/२/३/४८
तद्या अमूस्तिस्रोऽनुष्टुभः । गार्हपत्ये सम्पादयन्ति तासामेतामत्रिकामाहरन्ति
तद्यदेतामत्राहरन्त्यत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र तस्मै
नालमासीद्यदन्नमात्स्यत्
 
९/२/३/४९
सोऽग्निमब्रवीत् । त्वयान्नमदानीति तथेति तस्माद्यदैवैतमत्राहरन्त्यथैषो
ऽलमन्नायालमाहुतिभ्यो भवति
 
९/२/३/५०
अथो आहुः । प्रजापतिरेवैतं प्रियं पुत्रमुरस्याधत्त इति स यो हैतदेवं वेदा
हैवं प्रियं पुत्रमुरसि धत्ते

९/२/३/५१
यदेवैतमत्राहरन्ति । यान्वै तान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्नयमेव
स योऽयमग्निश्चीयतेऽथ यामेषां तामूर्ध्वां श्रियं रसं समुदौहन्नेष स
यमेतमत्राग्निमाहरन्ति तद्यदेतमत्राहरन्ति यैवैतेषा सप्तानां पुरुषाणां
श्रीर्यो रसस्तमेतदूर्ध्वं समुदूहन्ति तदस्यैतचिर आत्मायमग्निश्चत
आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति
 
९/३/१/१
अथातो वैश्वानरं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वैश्वानरो देवता
तस्मा एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै
हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते द्वादशकपालो द्वादश मासाः
संवत्सरः संवत्सरो वैश्वानरः
 
९/३/१/२
यद्वेवैतं वैश्वानरं जुहोति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति
तमदः पुरस्ताद्दीक्षणीयायां रेतो भूतं सिञ्चति यादृग्वै योनौ रेतः सिच्यते
तादृग्जायते तद्यत्तत्र वैश्वानरं रेतो भूतं सिञ्चति तस्मादयमिह वैश्वानरो
जायत उपांशु तत्र भवति रेतो वै तत्र यज्ञ उपांशु वै रेतः सिच्यते निरुक्त इह
निरुक्तं हि रेतो जातं भवति
 
९/३/१/३
स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वमग्निर्नरोऽन्तरिक्षमेव
विश्वं वायुर्नरो द्यौरेव विश्वमादित्यो नरः
 
९/३/१/४
ते ये त इमे लोकाः । इदं तचिर इदमेव पृथिव्योषधयः श्मश्रूणि तदेतद्विश्वं
वागेवाग्निः स नरः सोपरिष्टादस्य भवत्युपरिष्टाद्ध्यस्या अग्निः
 
९/३/१/५
इदमेवान्तरिक्षम् । तस्मादेतदलोमकमलोमकमिव ह्यन्तरिक्षं तदेतद्विश्वम्
प्राण एव वायुः स नरः स मध्येनास्य भवति मध्येन ह्यन्तरिक्षस्य वायुः
 
९/३/१/६
शिर एव द्यौः । नक्षत्राणि केशास्तदेतद्विश्वं चक्षुरेवादित्यः स
नरस्तदवस्ताचोर्ष्णो भवत्यवस्ताद्धि दिव आदित्यस्तदस्यैतचिरो वैश्वानर
आत्मायमग्निश्चित आत्मायमग्निश्चित आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति
 
९/३/१/७
अथ मारुतान्जुहोति । प्राणा वै मारुताः प्राणानेवास्मिन्नेतद्दधाति वैश्वानरं
हुत्वा
शिरो वै वैश्वानरः शीर्षंस्तत्प्राणान्दधाति
 
९/३/१/८
एक एष भवति । एकमिव हि शिरः सप्तेतरे सप्तकपाला यदु वा अपि बहु कृत्वः
सप्तसप्त सप्तैव तचीर्षण्येव तत्सप्त प्राणान्दधाति
 
९/३/१/९
निरुक्त एष भवति । निरुक्तमिव हि शिरोऽनिरुक्ता इतरेऽनिरुक्ता इव हि
प्राणास्तिष्ठन्नेतं जुहोति तिष्ठतीव हि शिर आसीन इतरानासत इव हि प्राणाः
 
९/३/१/१०
तद्यौ प्रथमौ मारुतौ जुहोति । इमौ तौ प्राणौ तौ मध्ये वैश्वानरस्य
जुहोति मध्ये हीमौ शीर्ष्णः प्राणौ
 
९/३/१/११
अथ यौ द्वितीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ
प्राणौ
 
९/३/१/१२
अथ यौ तृतीयौ । इमौ तौ तौ समन्तिकतरं जुहोति समन्तिकतरमिव हीमौ
प्राणौ वागेवारण्येऽनूच्यः सोऽरण्येऽनूच्यो भवति बहु हि वाचा घोरं निगचति
 
९/३/१/१३
यद्वेव वैश्वानरमारुतान्जुहोति । क्षत्रं वै वैश्वानरो विण्मारुताः क्षत्रं च
तद्विशं च करोति वैश्वानरं पूर्वं जुहोति क्षत्रं तत्कृत्वा विशं करोति
 
९/३/१/१४
एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि
तद्भूमानं दधाति
 
९/३/१/१५
निरुक्त एष भवति । निरुक्तमिव हि क्षत्रमनिरुक्ता इतरेऽनिरुक्तेव हि विट्
तिष्ठन्नेतं जुहोति तिष्ठतीव हि क्षत्रमासीन इतरानास्त इव हि विट्
 
९/३/१/१६
तं वा एतम् । पुरोऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति
हस्तेनैवेतरानासीनः स्वाहाकारेण क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं
करोति
 
९/३/१/१७
तदाहुः । कथमस्यैते पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता
भवन्तीत्येतेषां वै सप्तपदानां मारुतानां यानि त्रीणि प्रथमानि पदानि सा
त्रिपदा गायत्री पुरोऽनुवाक्याथ यानि चत्वार्युत्तमानि सा चतुष्पदा
त्रिष्टुब्याज्येदमेव कपुचलमयं दण्डः स्वाहाकारो वषट्कार एवमु हास्यैते
पुरोऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्ति
 
९/३/१/१८
तद्यं प्रथमं दक्षिणतो मारुतं जुहोति । याः सप्त प्राच्यः स्रवन्ति ताः स स
सप्तकपालो भवति सप्त हि ता याः प्राच्यः स्रवन्ति
 
९/३/१/१९
अथ यं प्रथममुत्तरतो जुहोति । ऋतवः स स सप्तकपालो भवति सप्त ह्यृतवः
 
९/३/१/२०
अथ यं द्वितीयं दक्षिणतो जुहोति । पशवः स स सप्तकपालो भवति सप्त हि
ग्राम्याः पशवस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यप्सु तत्पशून्प्रतिष्ठापयति
 
९/३/१/२१
अथ यं द्वितीयमुत्तररो जुहोति । सप्त ऋषयः स स सप्तकपालो भवति सप्त हि
सप्तऽर्षयस्तमनन्तर्हितं पूर्वस्माज्जुहोत्यृतुषु तदृषीन्प्रतिष्ठापयति
 
९/३/१/२२
अथ यं तृतीय दक्षिणतो जुहोति । प्राणाः स स सप्तकपालो भवति सप्त हि
शीर्षन्प्राणास्तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितांस्तचीर्ष्णः प्राणान्दधाति
 
९/३/१/२३
अथ यं तृतीयमुत्तरतो जुहोति । चन्दांसि स स सप्तकपालो भवति सप्त हि
चतुरुत्तराणि चन्दांसि तमनन्तर्हितं पूर्वस्माज्जुहोत्यनन्तर्हितानि
तदृषिभ्यश्चन्दांसि दधाति
 
९/३/१/२४
अथ याः सप्त प्रतीच्यः स्रवन्ति । सोऽरण्येऽनूच्यः स सप्तकपालो भवति सप्त हि ता
याः प्रतीच्यः स्रवन्ति सोऽस्यैषोऽवाङ्प्राण एतस्य प्रजापतेः सोऽरण्येऽनूच्यो भवन्ति
तिर इव तद्यदरण्यं तिर इवं तद्यदवाङ्प्राणस्तस्माद्य एतासां नदीनां पिबन्ति
रिप्रतराः शपनतरा आहनस्यवादितरा भवन्ति तद्यद्यदेतदाहेदं मारुता इति
तदस्मा अन्नं कृत्वापिदधाति तेनैनं प्रीणाति
 
९/३/१/२५
स यः स वैश्वानरो ।ऽसौ स आदित्योऽथ ये ते मारुता रश्मयस्ते ते सप्त सप्तकपाला
भवन्ति सप्तसप्त हि मारुता गणाः
 
९/३/१/२६
स जुहोति । शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्चेति नामान्येषामेतानि
मण्डलमेवैतत्संस्कृत्याथास्मिन्नेतान्रश्मीन्नामग्राहं प्रतिदधाति
 
९/३/२/१
अथातो वसोर्धारां जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वसुस्तस्मै देवा
एतां धारां प्रागृह्णंस्तयैनमप्रीणंस्तद्यदेतस्मै वसव एतां धाराम्
प्रागृह्णंस्तस्मादेनां वसोर्धारेत्याचक्षते तथैवास्मा अयमेतां धाराम्
प्रगृह्णाति तयैनं प्रीणाति
 
९/३/२/२
यद्वेवैतां वसोर्धारां जुहोति । अभिषेक एवास्यैष एतद्वा एनं देवाः सर्वं
कृत्स्नं संस्कृत्याथैनमेतैः कामैरभ्यषिञ्चन्नेतया वसोर्धारया
तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्याथैनमेतैः कामैरभिषिञ्चत्येतया
वसोर्धारयाज्येन पञ्चगृहीतेनौदुम्बर्या स्रुचा तस्योक्तो बन्धुः
 
९/३/२/३
वैश्वानरं हुत्वा । शिरो वै वैश्वानरः शीर्ष्णो वा अन्नमद्यतेऽथो शीर्षतो वा
अभिषिच्यमानोऽभिषिच्यते मारुतान्हुत्वा प्राणा वै मारुताः प्राणैरु वा अन्नमद्यते
ऽथो प्राणेषु वा अभिषिच्यमानोऽभिषिच्यते
 
९/३/२/४
तद्वा अरण्येऽनूच्ये । वाग्वा अरण्येऽनूच्यो वाचो वा अन्नमद्यतेऽथो वाचा वा
अभिषिच्यमानोऽभिषिच्यते तदेतत्सर्वं वसु सर्वे ह्येते कामाः सैषा वसुमयो
धारा यथा क्षोरस्य वा सर्पिषो वैवमारभ्यायैवेयमाज्याहुतिर्हूयते तद्यदेषा
वसुमयी धारा तस्मादेनां वसोधारेत्याचक्षते
 
९/३/२/५
स आह । इदं च म इदं च म इत्यनेन च त्वा प्रीणाम्यनेन चानेन च
त्वाभिषिञ्चाम्यनेन चेत्येतदथो इदं च मे देहीदं च म इति सा यदैवैषा
धाराग्निं प्राप्नुयादथैतद्यजुः प्रतिपद्येत
 
९/३/२/६
एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतान्कामानयाचन्त तेभ्य इष्टः प्रीतोऽभिषिक्त
एतान्कामान्प्रायचत्तथैवैनमयदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतान्कामान्याचते तस्मा इष्टः प्रीतोऽभिषिक्त
एतान्कामान्प्रयचति द्वौद्वौ कामौ संयुनक्त्यव्यवचेदाय यथा व्योकसौ
संयुञ्ज्यादेवं यज्ञेन कल्पन्तामिति
 
९/३/२/७
एतद्वै देवा अब्रुवन् । केनेमान्कामान्प्रतिग्रहीष्याम इत्यात्मनैवेत्यब्रुवन्यज्ञो
वै देवानामात्मा यज्ञ उ एव यजमानस्य स यदाह यज्ञेन कल्पन्तमित्यात्मना
मे कल्पन्तामित्येवैतदाह
 
९/३/२/८
द्वादशसु कल्पयति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणात्यथो
तावतैवैनमेतदन्नेनाभिषिञ्चति चतुर्दशसु कल्पयत्यष्टासु कल्पयति दशसु
कल्पयति त्रयोदशसु कल्पयति
 
९/३/२/९
अथार्धेन्द्राणि जुहोति । सर्वमेतद्यदर्धेन्द्राणि सर्वेणैवैनमेतत्प्रीणात्यथो
सर्वेणैवैनमेतदभिषिञ्चति
 
९/३/२/१०
अथ ग्रहान्जुहोति । यज्ञो वै ग्रहा यज्ञेनैवैनमेतदन्नेन प्रीणात्यथो
यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति
 
९/३/३/१
अथैतान्यज्ञक्रतून्जुहोति । अग्निश्च मे घर्मश्च म
इत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्यथो
एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति
 
९/३/३/२
अथायुज स्तोमान्जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं
लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भि स्तोमैः स्वर्गं लोकमेति
 
९/३/३/३
तद्वै त्रयस्त्रिंशादिति । अन्तो वै त्रयस्त्रिंशोऽयुजां स्तोमानामन्तत एव तद्देवाः
स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति
 
९/३/३/४
अथ युग्मतो जुहोति । एतद्वै चन्दांस्यब्रुवन्यातयामा वा अयुज स्तोमा
युग्मभिर्वयं स्तोमैः स्वर्गं लोकययामेति तानि युग्मभि स्तोमैः स्वर्गं
लोकमायंस्तथैवैतद्यजमानो युग्मभि स्तोमैः स्वर्गं लोकमेति
 
९/३/३/५
तद्वा अष्टाचत्वरिंशादिति । अन्तो वा अष्टाचत्वारिंशो युग्मतां स्तोमानामन्तत एव
तच्चन्दांसि स्वर्गं लोकमायंस्तथैवैतद्यजमानोऽन्तत एव स्वर्गं लोकमेति

९/३/३/६
स आह । एका च मे तिस्रश्च मे चतस्रश्च मेऽष्टौ च म इति यथा वृक्षं
रोहन्नुत्तरामुत्तरां शाखां समालम्भं रोहेत्तादृक्तद्यद्वेव
स्तोमान्जुहोत्यन्नं वै स्तोमा अन्नेनैवैनमेतदभिषिञ्चति
 
९/३/३/७
अथ वयांसि जुहोति । पशवो वै वयांसि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो
पशुभिरेवैनमेतदन्नेनाभिषिञ्चति
 
९/३/३/८
अथ नामग्राहं जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव
प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षम्
प्रीणाति वाजाय स्वाहा प्रसवाय स्वाहेति नामान्यस्यैतानि
नामग्राहमेवैनमेतत्प्रीणाति
 
९/३/३/९
त्रयोदशैतानि नामानि भवन्ति । त्रयोदश मासाः
संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतत्प्रीणाति यद्वेव नामग्राहं जुहोति
नामग्राहमेवैनमेतदभिषिञ्चति
 
९/३/३/१०
अथाह । इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां
त्वाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्ठिरन्नेनैवैनमेतत्प्रीणाति
 
९/३/३/११
यद्वेवाह । इयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां
त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि यमन ऊर्जे च
नोऽसि वृष्ट्यै च नोऽसि प्रजानां च न आधिपत्यायासीत्युपब्रुवत एवैनमेतदेतस्मै
नः सर्वस्मा अस्येतस्मै त्वा सर्वस्मा अभ्यषिचामहीति तस्मादु हेदं मानुषं
राजानमभिषिक्तमुपब्रुवते
 
९/३/३/१२
अथ कल्पान्जुहोति । प्राणा वै कल्पाः प्राणानेवास्मिन्नेतद्दधात्यायुर्यज्ञेन
कल्पतां प्राणो यज्ञेन कल्पतामित्येतानेवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति

९/३/३/१३
द्वादश कल्पान्जुहोति । द्वादश मासाः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतत्कॢप्तान्प्राणान्दधाति यद्वेव
कल्पान्जुहोति प्राणा वै कल्पा अमृतमु वै प्राणा अमृतेनैवैनमेतदभिषिञ्चति
 
९/३/३/१४
अथाह स्तोमश्च यजुश्च ऋक्च साम स बृहच्च रथन्तरं चेति त्रयी हैषा विद्यान्नं
वै त्रयी विद्यान्नेनैवैनमेतत्प्रीणात्यथो अन्नेनैवैनमेतदभिषिञ्चति स्वर्देवा
अग्नमामृता अभूमेति स्वर्हि गचत्यमृतो हि भवति प्रजापतेः प्रजा अभूमेति
प्रजापतेर्हि प्रजा भवति वेट्स्वाहेति वषट्कारो हैष परोऽक्षं यद्वेट्कारो
वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते
तदेनमेताभ्यामुभाभ्यां प्रीणाति वषट्कारेण च स्वाहाकारेण चाथो
एताभ्यामेवैनमेतदुभाभ्यामभिषञ्चत्यत्र तां स्रुचमनुप्प्रास्यति
यदत्राज्यलिप्तं तन्नेद्बहिर्धाग्नेरसदिति
 
९/३/३/१५
तस्यै वा एतस्यै वसोर्धारायै । द्यौरेवात्माभ्रमूधो विद्युत्स्तनो धारैव धारा
दिवोऽधि गामागचति
 
९/३/३/१६
तस्यै गौरेवात्मा । ऊध एवोध स्तन स्तनो धारैव धारा गोरधि यजमानम्
 
९/३/३/१७
तस्यै यजामान एवात्माम् । बाहुरूधः स्रुक्ष्तनो धारैव धारा यजमानादधि
देवान्देवेभ्योऽधि गां गोरधि यजमानं तदेतदनन्तमक्षय्यं
देवानामन्नं परिप्लवते स यो हैतदेवं वेदैवं
हैवास्यैतदनन्तमक्षय्यमन्नं भवत्यथातः सम्पदेवः
 
९/३/३/१८
तदाहुः । कथममस्यैषा वमोर्धारा संवत्सरमग्निमाप्नोति कथं
संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्राणि च शतान्येषा वसोर्धाराथ
षडथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि
तत्संवत्सरस्याहान्याप्नोत्यथ यानि ष्ट्षड्वा ऋतवस्तदृतूनां रात्रीराप्नोति
तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स
आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर
एवमु हास्यैषा वसोर्धारा संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना
सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्ते
ऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथग्वसोर्धारयाभिहुता
भवन्ति
 
९/३/३/१९
तदाहुः । कथमस्यैषा वसोर्धारा महदुक्थमाप्नोति कथं महतोक्थेन
सम्पद्यत इत्येतस्या एव वसोर्धारायै यानि नव प्रथमानि यजूंषि तत्त्रिवृचिरोऽथ
यान्यष्टाचत्वारिंशत्तौ चतुर्विंशौ पक्षावथ यानि पञ्चविंशतिः स पञ्चविंश
आत्माथ यान्येकविंशतिस्तदेकविंशं पुचमथ यानि त्रयस्त्रिंशत्स वशोऽथ या
अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ
यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु
हास्यैषा वसोर्धारा महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते
 
९/३/४/१
अथातो वाजप्रसवीयं जुहोति । अन्नं वै वाजोऽन्नप्रसवीयं हास्यैतदन्नमेवास्मा
एतेन प्रसौति
 
९/३/४/२
एतद्वा एनं देवाः । एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतद्भूय एवाप्रीणंस्तथैवैनमयमेतदेतेनान्नेन
प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय एव प्रीणाति
 
९/३/४/३
यद्वेवैतद्वाजप्रसवीयं जुहोति । अभिषेक एवास्यैष एतद्वा एतं देवा एतेनान्नेन
प्रीत्वैतैः कामैरभिषिच्यैतया वसोर्धारयाथैनमेतद्भूय
एवाभ्यषिञ्चंस्तथैवैनमयमेतदेतेनान्नेन प्रीत्वैतैः कामैरभिषिच्यैतया
वसोर्धारयाथैनमेतद्भूय एवाभिषिञ्चति
 
९/३/४/४
सर्वौषधं भवति । सर्वमेतदन्नं यत्सर्वौषधं
सर्वेणैवैनमेतदन्नेन प्रीणात्यथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति
तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण
चमसेनौदुम्बरेण स्रुवेण तयोरुक्तो बन्धुश्चतुःस्रक्तो भवतश्चतस्रो वै
दिशः सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणात्यथो सर्वाभ्य
एवैनमेतद्दिग्भ्योऽन्नेनाभिषिञ्चति
 
९/३/४/५
यद्वेवैतद्वाजप्रसवीयं जुहोति । एता ह देवताः सुता एतेन सवेन
येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं
सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै न तद्यदग्नौ जुहोति तदग्निमभिषिञ्चत्यथ
यदेताभ्यो देवताभ्यो जुहोति तदु तान्देवान्प्रीणाति य एतस्य सवस्येशते
 
९/३/४/६
अथ वा एतत्पार्थान्यपि जुहोति । एतद्वै देवा अकामयन्तात्रैव सर्वैः सवैः
सूयेमहीति तेऽत्रैव सर्वैः सवैरसूयन्त तथैवैतद्यजमानोऽत्रैव सर्वैः सवैः
सूयते
 
९/३/४/७
तद्यानि पार्थानि । तानि राजसूयस्य वाजप्रसवीयं तद्यत्तानि जुहोति तद्राजुसूयेन
सूयतेऽथ यानि चतुर्दशोत्तराणि ततो यानि सप्त पूर्वाणि तानि वाजपेयस्य
वाजप्रसवीयं तद्यत्तानि जुहोति तद्वाजपेयेन सूयतेऽथ यानि सप्तोत्तराणि
तान्यग्नेस्तद्यत्तानि जुहोति तदग्निसवेन सूयते
 
९/३/४/८
स वै राजसूयस्य पूर्वाणि जुहोति । अथ वाजपेयस्य राजा वै राजुसूयेनेष्ट्वा भवति
सम्राड्वाजपेयेन राज्यमु वा अग्रेऽथ साम्राज्यं तस्माद्वाजपेयेनेष्ट्वा न
राजसूयेन यजेत प्रत्यवरोहः स यथा सम्राट्सन्राजा स्यात्तादृक्तत्
 
९/३/४/९
अग्नेरुत्तमानि जुहोति । सर्वे हैते सवा यदग्निसवः सर्वं हैतदग्निसवेन सुतो
भवति राजा च सम्राट्च तस्मादग्नेरुत्तमानि जुहोति
 
९/३/४/१०
अथैनं कृष्णाजिनेऽभिषिञ्चति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतदभिषिञ्चति
लोमतश्चन्दांसि वै लोमानि चन्दःस्वेवैनमेतदभिषिञ्चत्युत्तरतस्तस्योपरि
बन्धुः प्राचीनग्रीवे तद्धि देवत्रा
 
९/३/४/११
तं हैके दक्षिणतोऽग्नेरभिषिञ्चन्ति । दक्षिणतो वा
अन्नस्योपचारस्तदेनमन्नस्यार्धादभिषिञ्चाम इति न तथा कुर्यादेषा वै
दिक्पितॄणां क्षिप्रे हैतां दिशं प्रैति यं तथाभिषिञ्चन्ति
 
९/३/४/१२
आहवनीय उ हैकेऽभिषिञ्चति । स्वर्गो वै लोक आहवनीयस्तदेनं स्वर्गे लोके
ऽभिषिञ्चाम इति न तथा कुर्याद्दैवो वा अस्यैष आत्मा मानुषोऽयमनेन हास्य ते
मर्त्येनात्मनैतं दैवमात्मनैतं दैवमानमनुप्रसजन्ति यं
तथाभिषिञ्चन्ति
 
९/३/४/१३
उत्तरत एवैनभिषिञ्चेत् । एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची
स्वायामेवैनमेतद्दिश्यायत्तं प्रतिष्ठितमभिषिञ्चति न वै स्व आयतने
प्रतिष्ठितो रिष्यति
 
९/३/४/१४
आसीनं भूतमभिषिञ्चेत् । आस्त इव वै भूतस्तिष्ठ्न्तं बुभूषन्तं तिष्ठतीव वै
बुभूषन्बस्ताजिने पुष्टिकाममभिषिञ्चेत्कृष्णाजिने
ब्रह्मवर्चसकाममुभयोरुभयकामं तदुत्तरतः पुचस्योत्तरलोम
प्राचीनग्रीवमुपस्तृणाति
 
९/३/४/१५
आस्पृष्टं परिश्रितः । तद्यत्कृष्णाजिनमास्पृष्टं परिश्रितो भवति तथो हास्यैष
दैव आत्मा कृष्णाजिनेऽभिषिक्तो भवत्यथ यदेनमन्वारब्धमग्निं
तिष्ठन्तमभिषिञ्चति तथा हैतस्माद्दैवादभिषेकान्न व्यवचिद्यते
 
९/३/४/१६
अग्नौ हुत्वाथैनमभिषिञ्चति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रे
ऽथ मनुष्यास्तस्मादग्नौ हुत्वाथैनं तस्यैव परिषिष्टेनाभिषिञ्चत्यत्र तं
स्रुवमनुप्रास्यति
 
९/३/४/१७
अथैनं दक्षिणं बाहुमनुपर्यावृत्याभिषिञ्चति । देवस्य त्वा सवितुः प्रसवे
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः
साम्राज्येनाभिषिञ्चामीति वाग्वै सरस्वती तस्या इदं सर्वं यन्त्रं सवितृप्रसूत
एवैनमेतदनेन सर्वेण सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः
साम्राज्येनाभिषिञ्चत्यत्र तं चमसमनुप्रास्यति यदत्र विलिप्तं
तन्नेद्बहिर्धाग्नेरसदिति
 
९/३/४/१८
तं वै मध्ये पार्थानामभिषिञ्चति । संवत्सरो वै पार्थानि
संवत्सरस्यैवैनमेतन्मध्यत आदधाति षट्पुरस्ताज्जुहोति षडुपरिष्टात्षड्वा
ऋतव ऋतुभिरेवैनमेततत्सुषुवाणमुभयतः परिगृह्णाति बृहस्पतिः
पूर्वेषामुत्तमो भवतीन्द्र उत्तरेषां प्रथमो ब्रह्म वै बृहस्पतिः
क्षत्रमिन्द्रो ब्रह्मणा चैवैनमेतत्क्षत्रेण च सुषुवाणमुभयतः परिगृह्णाति
 
९/४/१/१
अथातो राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रत्येता ह
देवताः सुता एतेन सवेन येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः
प्रीता एतं सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो
राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यद्राजानो राष्ट्राणि बिभ्रति
राजान उ एते देवास्तस्मादेता राष्ट्रभृतः
 
९/४/१/२
यद्वेवैता राष्ट्रभृतो जुहोति ।
प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन्गन्धर्वाप्सरसो भूत्वा तानि रथो भूत्वा
पर्यगचत्तानि परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुते
 
९/४/१/३
स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात्तानि
मिथुनान्युदक्रामन्नेतास्ता देवता याभ्य एतज्जुहोति
 
९/४/१/४
गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि भूत्वोदक्रामन्न्नथो गन्धेन
च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति तस्माद्यः कश्च मिथुनमुपप्रैति
गन्धं चैव स रूपं च कामयते
 
९/४/१/५
मिथुनानि जुहोति । मिथुनाद्वा अधि प्रजातिर्यो वै प्रजायते स राष्ट्रम्
भवत्यराष्ट्रं वै स भवति यो न प्रजायते तद्यन्मिथुनानि राष्ट्रं बिभ्रति
मिथुना उ एते देवास्तस्मादेता राष्ट्रभृत आज्येन द्वादशगृहीतेन ता उ
द्वादशैवाहुतयो भवन्ति तस्योत्रो बन्धुः
 
९/४/१/६
पुंसे पूर्वस्मै जुहोति । अथ स्रीभ्यः पुमांसं तद्वीर्येणात्यादधात्येकस्मा इव
पुंसे जुहोति बह्वीभ्य इव स्रीभ्यस्तस्मादप्येकस्य पुंसो बह्व्यो जाया
भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च पुंसे जुहोति स्वानाकारेणैव
स्त्रीभ्यः पुमांसमेव तद्वीर्येणात्यादधाति

९/४/१/७
ऋताषाडृतधामेति । सत्यसाट्सत्यधामेत्येतदग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस
इत्यग्निर्ह गन्धर्व ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम मुदो
नामेत्योषधयो वै मुद ओषधिभिर्हीदं सर्वं मोदते स न इदं ब्रह्म
क्षत्रं पातु तस्मै स्वाहा वाट्ताभ्यः स्वाहेति तस्योक्तो बन्धुः
 
९/४/१/८
संहित इति । असौ वा आदित्यः संहित एष ह्यहोरात्रे संदधाति विश्वसामेत्येष ह्येव
सर्वं साम सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस इति सूर्यो ह गन्धर्वो
मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्रामायुवो नामेत्यायुवाना इव हि मरीचयः
प्लवन्ते स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः
 
९/४/१/९
सुषुम्ण इति । सुयज्ञिय इत्येतत्सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो
रश्मयश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरस इति चन्द्रमा ह गन्धर्वो
नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह
नामैते भां हि नक्षत्राणि कुर्वन्ति स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो
बन्धुः
 
९/४/१/१०
इषिर इति । क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदं सर्वं व्यचः करोति वातो
गन्धर्वस्तस्यापो अप्सरस इति वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन
सहोच्चक्रामोर्जो नामेत्यापो वा ऊर्जोऽद्भ्यो ह्यूर्ग्जायते स न इदं ब्रह्म क्षत्रम्
पात्विति तस्योक्तो बन्धुः
 
९/४/१/११
भुज्युः सुपर्ण इति । यज्ञो वै भुज्युर्यज्ञो हि सर्वाणि भूतानि भुनक्ति यज्ञो
गन्धर्वस्तस्य दक्षिणा अप्सरस इति यज्ञो ह गन्धर्वो
दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम स्तावा नामेति दक्षिणा वै स्तावा
दक्षिणाभिर्हि यज्ञ स्तूयतेऽथो यो वै कश्च दक्षिणां ददाति स्तूयत एव स स न
इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः
 
९/४/१/१२
प्रजापतिर्विश्वकर्मेति । प्रजापतिर्वै विश्वकमा स हीदं सर्वमकरोन्मनो
गन्धर्वस्तस्य ऋक्षामान्यप्सरस इति मनो ह गन्धर्व
ऋक्षामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्षामानि वा एष्टय
ऋक्षामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्त्विति स न इदं ब्रह्म क्षत्रं पात्विति
तस्योक्तो बन्धुः
 
९/४/१/१३
अथ रथशीर्षे जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः
सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै नाज्येन पञ्चगृहीतेन ता उ पञ्चैवाहुतयो हुता भवन्ति
तस्योक्तो बन्धुः
 
९/४/१/१४
शीर्षतः । शीर्षतो वा अभिषिच्यमानोऽभिषिच्यत उपरि धार्यमाण उपरि हि स
यमेतदभिषिञ्चति समानेन मन्त्रेण समातो हि स यमेतदभिषिञ्चति सर्वतः
परिहारं सर्वत एवैनमेतदभिषिञ्चति
 
९/४/१/१५
यद्वेव रथशीर्षे जुहोति । असौ वा आदित्य एष रथ एतद्वै तद्रूपं कृत्वा
प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत
तथैवैनान्ययमेतत्परिगत्यात्मन्धत्त आत्मन्कुरुत उपरि धार्यमाण उपरि हि
स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत समानेन मन्त्रेण
समानो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत सर्वतः
परिहारं सर्वतो हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत
 
९/४/१/१६
स नो भुवनस्य पते प्रजापत इति । भुवनस्य ह्येष पतिः प्रजापतिर्यस्य त उपरि
गृहा यस्य वेहेत्युपरि च ह्येतस्य गृहा इह चास्मै ब्रह्मणेऽस्मै क्षत्रायेत्ययं
वा आग्निर्ब्रह्म च क्षत्रं च महि शर्म यच स्वाहेति महचर्म यच स्वाहेत्येतत्
 
९/४/२/१
अथ वातहोमान्जुहोति । इमे वै लोका एषोऽग्निर्वायुर्वातहोमा एषु तल्लोकेषु वायुं
दधाति तस्मादयमेषु लोकेषु वायुः
 
९/४/२/२
बाह्येनाग्निमाहरति । आप्तो वा अस्य स वायुर्य एषु लोकेष्वथ य इमांलोकान्परेण
वायुस्तमस्मिन्नेतद्दधाति
 
९/४/२/३
बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स वायुर्योऽस्यामथ य इमां परेण
वायुस्तमस्मिन्नेतद्दधाति
 
९/४/२/४
अञ्जलिना । न ह्येतस्येतीवाभिपत्तिरस्ति स्वाहाकारेण जुहोति ह्यधोऽधो धुरमसौ वा
आदित्य एष रथोऽर्वाचीनं तदादित्याद्वायुं दधाति तस्मादेषोऽर्वाचीनमेवातः
पवते
 
९/४/२/५
समुद्रोऽसि नभस्वानिति । असौ वै लोकः समुद्रो नभस्वानार्द्रदानुरित्येष
ह्यार्द्रं ददाति तद्योऽमुष्मिंलोके वायुस्तमस्मिन्नेतद्दधाति
शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि मा वाहीत्येतत्
 
९/४/२/६
मारुतोऽसि मरुतां गण इति । अन्तरिक्षलोको वै मारुतो मरुतां गणस्तद्यो
ऽन्तरिक्षलोके वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति
शिवः स्योनोऽभि मा वाहीत्येतत्
 
९/४/२/७
अवस्यूरसि दुवस्वानिति । अयं वै लोकोऽवस्यूर्दुवस्वांस्तद्योऽस्मिंलोके
वायुस्तमस्मिन्नेतद्दधाति शम्भूर्मयोभूरभि मा वाहि स्वाहेति शिवः स्योनोऽभि
मा वाहीत्येतत्
 
९/४/२/८
त्रिभिर्जुहोति । त्रय इमे लोका अथो त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव
तदेषु वायुं दधाति
 
९/४/२/९
यद्वेव वातहोमान्जुहोति । एतमेवैतद्रथं युनक्त्येदद्वै देवा एतं रथं
सर्वेभ्यः कामेभ्योऽयुञ्जत युक्तेन समश्नवामहा इति तेन युक्तेन
सर्वान्कामान्त्समाश्नुवत तथैवैतद्यजमान एतं रथं सर्वेभ्यः कामेभ्यो
युङ्क्ते युक्तेन समश्नवा इति तेन युक्तेन सर्वान्कामान्त्समश्नुते
 
९/४/२/१०
वातहोमैर्युनक्ति । प्राणा वै वातहोमाः प्राणैरेवैनमेतद्युनक्ति त्रिभिर्युनक्ति
त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवैनमेतद्युन्क्त्यधोऽधो धुरमधो
ऽधो हि धुरं योग्यं युञ्जन्ति हस्ताभ्यां हस्ताभ्यां हि योग्यं युञ्जन्ति
विपरिक्रामं विपरिक्रामं हि योग्यं युञ्जन्ति
 
९/४/२/११
स दक्षिणायुग्यमेवाग्रे युनक्ति । अथ सव्यायुग्यमथ दक्षिणाप्रष्टिमेवं
देवत्रेतरथा मानुषे तं नाभियुञ्ज्यान्नेद्युक्तमभियुनजानीति वाहनं तु
दद्याद्युक्तेन भुनजा इति तमुपर्येव हरन्त्याध्वर्योरावसथादुपरि ह्येष
तमध्वर्यवे ददाति स हि तेन करोति तं तु दक्षिणानां कालेऽनुदिशेत्
 
९/४/२/१२
अथ रुङ्नतीर्जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुचमैचत्तस्मिन्देवा
एताभि रुङ्नतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति
 
९/४/२/१३
यद्वेव रुङ्नतीर्जुहोति । प्रजापतेर्विस्रस्ताद्रुगुदक्रामत्तं यत्र देवाः
समस्कुर्वंस्तदस्मिन्नेताभी रुङ्नतीभी
रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति
 
९/४/२/१४
यास्ते अग्ने सूर्ये रुचः । या वो देवाः सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्विति रुचं
रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति तिस्र आहुतीर्जुहोति
त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रुचं दधाति
 
९/४/२/१५
अथ वारुणीं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र वरुणो देवता तस्मा
एतद्धविर्जुहोति तदेनं हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा
देवता न सा यस्यै न गृह्यते वारुण्यऽर्चा स्वेनैवैनमेतदात्मना स्वया देवतया
प्रीणाति
 
९/४/२/१६
यद्वेव वारुणीं जुहोति । प्रजापतेर्विस्रस्ताद्वीर्यमुदक्रामत्तं यत्र देवाः
समस्कुर्वंस्तदस्मिन्नेतया वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति वारुण्य
ऽर्चा क्षत्रं वै वरुणो वीर्यं वै क्षत्रं वीर्येणैवास्मिन्नेतद्वीर्यं दधाति

९/४/२/१७
तप्त्वा यामि ब्रह्मणा वन्दमान इति । तत्त्वा याचे ब्रह्मणा वन्दमान
इत्येतत्तदाशास्ते यजमानो हविर्भिरिति तदयमाशास्ते यजमानो
हविर्भिरित्येतदहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणेह
बोधीत्येतदुरुशंस मा न आयुः प्रमोषीरित्यात्मनः परिदां वदते
 
९/४/२/१८
अथार्काश्वमेधयोः संततीर्जुहोति । अयं वा अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ
सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः
समतन्वन्त्समदुधुस्तथैवैनावयमेताभिराहुतिभिः संतनोति संदधाति
 
९/४/२/१९
स्वर्ण घर्मः स्वाहेति । असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ
प्रतिष्ठापय्ति
 
९/४/२/२०
स्वर्णार्कः स्वाहेति । अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति
 
९/४/२/२१
स्वर्ण शुक्रः स्वाहेति । असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति
 
९/४/२/२२
स्वर्ण ज्योतिः स्वाहेति । अयमग्निर्ज्योतिस्तं पुनरिह दधाति
 
९/४/२/२३
स्वर्ण सूर्यः स्वाहेति । असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं
दधाति तस्मादेषोऽस्य सर्वस्योत्तमः
 
९/४/२/२४
पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनावेतत्संतनोति संदधाति

९/४/२/२५
यद्वेवाह । स्वर्ण घर्मः स्वाहा स्वर्णार्कः स्वाहेत्यस्यैवैतान्यग्नेर्नामानि
तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता
न सा यस्यै न गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति
 
९/४/२/२६
पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्च पञ्चऽर्तवः संवत्सरः संवत्सरो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति
 
९/४/२/२७
अथात आहुतीनामेवावपनस्य । यां कां च ब्राह्मणवतीमाहुतिं
विद्यात्तमेतस्मिन्काले जुहुयात्कामेभ्यो वा एतं रथं युङ्क्ते तद्यां कां चात्राहुतिं
जुहोत्याप्तां तां सतीं जुहोति
 
९/४/२/२८
तदाहुः । न जुहुयान्नेदतिरेचयानीति स वै जुहुयादेव कामेभ्यो वा एता आहुतयो
हूयन्ते न वै कामानामतिरिक्तमस्ति
 
९/४/३/१
अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपति । अग्नय एते यद्धिष्ण्या
अग्नीनेवैतच्चिनोति ता एता विशः क्षत्रमयमग्निश्चितः क्षत्रं च तद्विशं च
करोत्यमुं पूर्वं चिनोत्यथेमान्क्षत्रं तत्कृत्वा विशं करोति
 
९/४/३/२
एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति बहव इतरे विशि
तद्भमानं दधाति
 
९/४/३/३
पञ्चचितिक एष भवति । एकचितिका इतरे क्षत्रं तद्वीर्येणात्यादधाति क्षत्रं विशो
वीर्यवत्तरं करोत्यूर्ध्वमेतं चिनोति क्षत्रं तदूर्ध्वं चिति भिश्चिनोति तिरश्च
इतरान्क्षत्राय तद्विशमधस्तादुपनिषादिनीं करोति
 
९/४/३/४
उभाभ्यां यजुष्मत्या च लोकम्पृणया चैतं चिनोति ।
लोकम्पृणयैवेमान्क्षत्रमेव तद्वीर्येणात्यादधाति क्षत्रं विशो वीर्यवत्तरं
करोति विशं क्षत्रादवीर्यतराम्
 
९/४/३/५
स यदिमांलोकम्पृणयैव चिनोति क्षत्रं वै लोकम्पृणा क्षत्रं तद्विश्यत्तारं
दधात्युभयांश्चिनोत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वानथाग्नेस्तस्योक्तो
बन्धुर्यंयमेवाध्वरधिष्ण्यं निवपति तंतं चिनोत्याग्नीध्रीयं प्रथमं
चिनोति तं हि प्रथमं निवपति दक्षिणत उदङ्ङासीनस्तस्योक्तो बन्धुः
 
९/४/३/६
तस्मिन्नष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति तासामश्मा पृश्निर्नवमो
नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तानेवास्मिन्नेतद्दधाति यश्चिते
ऽग्निर्निधीयते स दशमो दश वै प्राणा मध्यमाग्नीध्रम्
मध्यतस्तत्प्राणान्दधाति मध्ये ह वा एतत्प्राणाः सन्त इति चेति
चात्मानमनुव्युच्चरन्ति
 
९/४/३/७
एकविंशतिं होत्रीय उपदधाति । एकविंशतिर्वेव परिश्रितस्तस्योक्तो बन्धुरेकादश
ब्राह्मणाचंस्य एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभ इन्द्र ऐन्द्रो
ब्राह्मणाचंस्यष्टावष्टावितरेषु तस्योक्तो बन्धुः
 
९/४/३/८
षण्मार्जालीये । षड्वा ऋतवः पितरस्तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे स
एषामेष दक्षिणतः स वा इतीममुपदधातीतीमानित्यमुं विशं
तत्क्षत्रमभिसम्मुखां करोति
 
९/४/३/९
अथैनान्परिश्रिद्भिः परिश्रयति । आपो वै परिश्रितोऽद्भिरेवैनांस्तत्परितनोति स वै
पर्येव निदधाति क्षत्रं हैता अपां याः खातेन यन्त्यथ हैता विशो यानीमानि
वृथोदकानि स यदमुं खातेन परिश्रयति क्षत्रे तत्क्षत्रं दधाति क्षत्रं
क्षत्रेण परिश्रयत्यथ यदिमान्पर्येव निदधाति विशि तद्विशं दधाति विशा विशम्
परिश्रयति तेषां वै यावत्य एव यजुष्मत्यस्तावत्यः परिश्रितो यावत्यो ह्येवामुष्य
यजुष्मत्यस्तावत्यः परिश्रितः क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं
करोति
 
९/४/३/१०
अथैषु पुरीषं निवपति । तस्योक्तो बन्धुस्तूष्णीमनिरुक्ता हि
विडथाग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपति दिश एषो
ऽग्निस्ताभ्य एतानि हवींषि निर्वपति तदेना हविषा देवतां करोति यस्यै वै देवतायै
हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते पञ्च भवन्ति पञ्च हि दिशः
 
९/४/३/११
ददाहुः । दशहविषमेवैतामिष्टिं निर्वपेत्सा सर्वस्तोमा सर्वपृष्ठा सर्वाणि
चन्दांसि सर्वा दिशः सर्व ऋतवः सर्वम्वेतदयमग्निस्तदेनं हविषा देवतां
करोति यस्यै वै देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यते दश
भवन्ति दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा
आग्नेर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति
 
९/४/३/१२
तत्त्वै देवस्वामेव । एतानि हवींषि निर्वपेदेता ह देवताः सुता एतेन सवेन
येनैतत्सोष्यमाणो भवति ता एवैतत्प्रीणाति ता अस्मा इष्टाः प्रीता एतं
सवमनुमन्यन्ते ताभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स
राजा भवति न स यस्मै न तद्यदेता देवताः सुता एतेन सवेन यद्वैनमेता देवता
एतस्मै सवाय सुवते तस्मादेता देवस्वः
 
९/४/३/१३
ता वै द्विनाम्न्यो भवन्ति । द्विनामा वै सवेना सुतो भवति यस्मै वै सवाय सूयते
येन वा सवेन सूयते तदस्य द्वितीयं नाम
 
९/४/३/१४
अष्टौ भवन्ति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतदन्नेन प्रीणाति
 
९/४/३/१५
तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा
एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च
पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि
निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः
पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति
पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडेष्टा
देवता भवन्त्यसमवहितं स्विष्टकृते
 
९/४/३/१६
अथैन पूर्वाभिषेकेणाभिमृशति । सविता त्वा सवानां सुवतामेष वोऽमी राजा सोमो
ऽस्माकं ब्राह्मणानां राजेति ब्राह्मणानेवापोद्धरत्यनाद्यान्करोति
 
९/४/४/१
अथ प्रातः प्रातरनुवाकमुपाकरिष्यन् । अग्निं युनक्ति युक्तेन समश्नवा इति तेन
युक्तेन सर्वान्कामान्त्समश्नुते तं वै पुरस्तात्सर्वस्य कर्मणो युनक्ति तद्यत्किं
चात्र ऊर्ध्वं क्रियते युक्ते तत्सर्वं समाधीयते
 
९/४/४/२
परिधिषु युनक्ति । अग्नय एते यत्परिधयोऽग्निभिरेव तदग्निं युनक्ति
 
९/४/४/३
स मध्यमं परिधिमुपस्पृश्य । एतद्यजुर्जपत्यग्निं युनज्मि शवसा घृतेनेति
बलं वै शवोऽग्निं युनज्मि बलेन च घृतेन चेत्येतद्दिव्यं सुपर्णं वयसा
बृहन्तमिति दिव्यो वा एष सुपर्णो वयसो बृहन्धूमेन तेन वयं गमेम
ब्रध्नस्य विष्टपं स्वर्गं लोकं रोहन्तोऽधि नाकमुत्तममित्येतत्
 
९/४/४/४
अथ दक्षिणे । इमौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने
ताभ्यां पतेम सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा
इत्यमूनेतदृषीनाह
 
९/४/४/५
अथोत्तरे । इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युरित्यमृतं वै
हिरण्यममृतपक्षः शकुनो भर्तेत्येतन्महान्त्सधस्थे ध्रुव आ निषत्तो
नमस्ते अस्तु मा मा हिंसीरित्यात्मनः परिदां वदते
 
९/४/४/६
तद्यन्मध्यमं यजुः । स आत्माथ ये अभितस्तौ पक्षौ तस्मात्तेपक्षवती
भवतः पक्षौ हि तौ
 
९/४/४/७
त्रिभिर्युनक्ति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्युनक्ति

९/४/४/८
अथ राजानमभिषुत्याग्नौ जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै
तमेता देवताः सवमनुमन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो
राज्यमनुमन्यन्ते स राजा भवति न स यस्मै न तद्यदग्नौ जुहोति
तदग्निमभिषिञ्चति सोऽस्यैष दैव आत्मा सोमाभिषिक्तो भवत्यमृताभिषिक्तोऽथ
भक्षयति तदात्मानमभिषिञ्चति सोऽस्यायमात्मा सोमाभिषिक्तो
भवत्यमृताभिषिक्तः
 
९/४/४/९
अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ
मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति
 
९/४/४/१०
अथैनं विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते यज्ञायज्ञियं
स्तोत्रमुपाकरिष्यन्त्स्वर्गो वै लोको यज्ञायज्ञियमेतस्य वै गत्या एनं युङ्क्ते
तदाप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते
 
९/४/४/११
तं वै पुरस्तात्स्तोत्रस्य विमुञ्चति । स यदुपरिष्टात्स्तोत्रस्य विमुञ्चेत्पराङ्हैतं
स्वर्गं लोकमतिप्रणश्येदथ यत्पुरस्तात्स्तोत्रस्य विमुञ्चति तत्सम्प्रति स्वर्गं
लोकमाप्त्वा विमुञ्चति
 
९/४/४/१२
परिधिषु विमुञ्चति । परिधिषु ह्येनं युनक्ति यत्र वाव योग्यं युञ्जन्ति तदेव
तद्विमुञ्चन्ति
 
९/४/४/१३
स संध्योरुपस्पृश्य । एने यजुषी जपति तथा द्वे यजुषी त्रीन्परिधीननुविभवतो
दिवो मूर्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधि तिष्ठसि श्रित
इत्युत्तरे मूर्धवतीभ्यां मूर्धा ह्यस्यैषो
ऽप्सुमतीभ्यामग्नेरेतद्वैश्वानरस्य स्तोत्रं यद्यज्ञायज्ञियं शान्तिर्वा
आपस्तस्मादप्सुमतीभ्याम्
 
९/४/४/१४
द्वाभ्यां विमुञ्चति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैनमेतद्विमुञ्चति त्रिभिर्युनक्ति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः
संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति
 
९/४/४/१५
तं हैके । प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमुञ्चन्ति संस्थारूपं वा
एतद्यद्विमोचनं किं पुरा संस्थायै संस्थारूपं कुर्यामेति न तथा
कुर्यादहरहरहर्वा एष यज्ञस्तायतेऽहरहः संतिष्ठतेऽहरहरेनं स्वर्गस्य
लोकस्य गत्यै युङ्क्तेऽहरहरेनेन स्वर्गं लोकं गचति तस्मादहरहरेव
युञ्ज्यादहरहर्विमुञ्चेत्
 
९/४/४/१६
अथो यथा प्रायणीयेऽतिरात्रे । सामिधेनीरनूच्य ब्रूयादुदयनीय एवातो
ऽनुवक्तास्मीति तादृक्तत्तस्मादहरहरेव युञ्ज्यदहरहर्विमुञ्चेत्
 
९/४/४/१७
तद्धैतचाण्डिल्यः । कङ्कतीयेभ्योऽहरहःकर्म प्रदिश्य प्रवव्राजाहरहरेव वो
युनजानहरहर्विमुञ्चानिति तस्मादहरहरेव युञ्ज्यादहरहर्विमुञ्चेत्
 
९/५/१/१
अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्याद्देवेभ्यो ह वा अमृतमपचक्राम
 
९/५/१/२
ते होचुः । श्रमेण तपसेदमन्विचामेति तच्रमेण तपसान्वैचंस्ते दीक्षित्वा
पयोव्रता अभवन्नेतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशुश्रुवुः
 
९/५/१/३
ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते
त्रीन्त्स्तनानुपेयुस्तत्पराददृशुः
 
९/५/१/४
ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति ते द्वौ स्तना उपेयुस्तन्नेदीयसः
पराददृशुः

९/५/१/५
ते होचुः । नेदीयो वै भवति भूयस्तप उपायामेति त एकं
स्तनमुपेयुस्तदधिजगाम न त्वभिपत्तुं शेकुः
 
९/५/१/६
ते होचुः अधि वा अगन्न त्वभिपत्तुं शक्नुमः सर्वं तप उपायामेति त उपवसथे
ऽनाशकमुपेयुरेतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात्
 
९/५/१/७
तत्प्रातरभिपद्य । अभिषुत्याग्नावजुहवुस्तदग्नावमृतमदधुः सर्वेषामु
हैष देवानामात्मा यदग्निस्तद्यदग्नावमृतमदधुस्तदात्मन्नमृतमदधत
ततो देवा अमृता अभवन्
 
९/५/१/८
तद्यत्तदमृतं सोमः सः । तदद्यापि यजमानः श्रमेण तपसान्विचति स दीक्षित्वा
पयोव्रतो भवत्येतद्वै तपो यो दीक्षित्वा पयोव्रतोऽसत्तस्य घोषमाशृणोतीत्यहे
क्रय इति
 
९/५/१/९
स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स
एकं स्तनमुपैति तदधिगचति न त्वभिपत्तुं शक्नोति स उपवसथे
ऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात्
 
९/५/१/१०
तत्प्रातरभिपद्य । अभिषुत्याग्नौ जुहोति तदग्नावमृतं दधात्यथ भक्षयति
तदात्मन्नमृतं धत्ते सोऽमृतो भवत्येतद्वै मनुष्यस्यामृतत्वं
यत्सर्वमायुरेति तथो हानेनात्मना सर्वमायुरेति
 
९/५/१/११
अग्नौ हुत्वाथ भक्षयति । दैवो वा अस्यैष आत्मा मानुषोऽयं देवा उ वा अग्रेऽथ
मनुष्यास्तस्मादग्नौ हुत्वाथ भक्षयति
 
९/५/१/१२
अथातः समिष्टयजुषामेव मीमांसा । देवाश्चासुराश्चोभये प्राजापत्याः प्रजापतेः
पितुर्दायमुपेयुर्वाचमेव सत्यानृते सत्यं चैवानृतं च त उभय एव
सत्यमवदन्नुभयेऽनृतं ते ह सदृशं वदन्तः सदृशा एवासुः
 
९/५/१/१३
ते देवा उत्सृज्यानृतम् । सत्यमन्वालेभिरेऽसुरा उ होत्सृज्य सत्यमनृतमन्वालेभिरे
 
९/५/१/१४
तद्धेदं सत्यमीक्षां चक्रे । यदसुरेष्वास देवा वा उत्सृज्यानृतं
सत्यमन्वालप्सत हन्त तदयानीति तद्देवानाजगाम
 
९/५/१/१५
अनृतमु हेक्षां चक्रे । यद्देवेष्वासासुरा वा उत्सृज्य सत्यमनृतमन्वालप्सत हन्त
तदयानीति तदसुरानाजगाम
 
९/५/१/१६
ते देवाः । सर्वं सत्यमवदन्त्सर्वमसुरा अनृतं ते देवा आसक्ति सत्यं वदन्त
ऐषावीरतरा इवासुरनाढ्यतरा इव तस्मादु हैतद्य आसक्ति सत्यं
वदत्यैषावीरतर इवैव भवत्यनाढ्यतर इव स ह त्वेवान्ततो भवति देवा
ह्येवान्ततोऽभवन्
 
९/५/१/१७
अथ हासुराः । आसक्त्यनृतं वदन्त ऊष इव पिपिसुराढ्या इवासुस्तस्मादु हैतद्य
आसक्त्यनृतं वदत्यूष इवैव पिस्यत्याढ्य इव भवति परा ह त्वेवान्ततो भवति
परा ह्यसुरा अभवन्
 
९/५/१/१८
तद्यत्तत्सत्यम् । त्रयी सा विद्या ते देवा अब्रुवन्यज्ञं कृत्वेदं सत्यं तनवामहा
इति
 
९/५/१/१९
ते दीक्षणीयां निरवपन् । तदु हासुरा अनुबुबुधिरे यज्ञं वै कृत्वा तद्देवाः
सत्यं तन्वते प्रेत तदाहरिष्यामो यदस्माकं तत्रेति तस्य
समिष्टयजुरहुतमासाथाजग्मुस्तस्मात्तस्य यज्ञस्य समिष्टयजुर्न जुह्वति ते
देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यत्कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति
पुनः प्रेयुः
 
९/५/१/२०
तेषु प्रेतेषु । प्रायणीयं निरवपंस्तदु हासुरा अन्वेव बुबुधिरे तस्य
शम्योरुक्तमासाथाजग्मुस्तस्मात्स यज्ञः शम्य्वन्तस्ते देवा असुरान्प्रतिदृश्य
ममुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः
 
९/५/१/२१
तेषु प्रेतेषु । राजानं क्रीत्वा पर्युह्याथास्मा आतिथ्यं हविर्निरवपंस्तदु हासुरा
अन्वेव बुबुधिरे तस्येडोपहूतासाथाजग्मुस्तस्मात्स यज्ञ इडान्तस्ते देवा
असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरेऽन्यद्वै कुर्वन्तीति
पुनरेव प्रेयुः
 
९/५/१/२२
तेषु प्रेतेषु । उपसदोऽतन्वत ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन्न
प्रयाजान्नानुयाजानुभयतो यज्ञस्योदसादयन्भूयिष्ठं हि तत्रात्वरन्त
तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति न
प्रयाजान्नानुयाजानुभयतो यज्ञस्योत्सादयति
 
९/५/१/२३
त उपवसथेऽग्नीषोमीयं पशुमालेभिरे । तदु हासुरा अन्वेव बुबुधिरे तस्य
समिष्टयजूंष्यहुतान्यासुरथाजग्मुस्तस्मात्तस्य पशोः समिष्टयजूंषि न जुह्वति
ते देवा असुरान्प्र
 
९/५/१/२४
तेषु प्रेतेषु । प्रातः प्रातःसवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे
तस्यैतावत्कृतमास यावत्प्रातःसवनमथाजग्मुस्ते देवा असुरान्प्र
 
९/५/१/२५
तेषु प्रेतेषु । माध्यन्दिनं सवनमतन्वत तदु हासुरा अन्वेव बुबुधिरे
तस्यैतावत्कृतमास यावन्माध्यन्दिनमथाजग्मुस्ते देवा असुरान्प्र
 
९/५/१/२६
तेषु प्रेतषु । सवनीयेन पशुनाचरंस्तदु हासुरा अन्वेव बुबुधिरे
तस्यैतावत्कृतमास यावदेतस्य पशोः क्रियतेऽथाजग्मुस्ते देवा असुरान्प्र
 
९/५/१/२७
तेषु प्रेतेषु । तृतीयसवनमतन्वत तत्समस्थापयन्यत्समस्थापयंस्तत्सर्वं
सत्यमाप्नुवंस्ततोऽसुरा अपपुप्रुविरे ततो देवा अभवन्परासुरा भवत्यात्मना
परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद
 
९/५/१/२८
ते देवा अब्रुवन् । ये न इमे यज्ञाः सामिसंस्थिता यानिमान्विजहतोऽगामोप तज्जानीत
यथेमान्त्संस्थापयामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिचतेति वाव
तदब्रुवंस्तदिचत यथेमान्यज्ञान्त्संस्थापयामेति
 
९/५/१/२९
ते चेतयमानाः । एतानि
समिष्टयजूंष्यपश्यंस्तान्यजुहवुस्तैरेतान्यज्ञान्त्समस्थापयन्यत्समस्थापयं
स्तस्मात्संस्थितयजूंष्यथ यत्समयजंस्तस्मात्समिष्टयजूंषि
 
९/५/१/३०
ते वा एते नव यज्ञाः । नवैतानि समिष्टयजूंषि तद्यदेतानि
जुहोत्येतानेवैतद्यज्ञान्त्संस्थापयत्युभयानि जुहोत्यध्वरस्य चाग्नेश्चाध्वरस्य
पूर्वाण्यथाग्नेस्तस्योक्तो बन्धुः
 
९/५/१/३१
द्वे अग्नेर्जुहोति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा
तावतैवैतद्यज्ञं संस्थापयतीष्टो यज्ञो भृगुभिरिष्टो अग्निराहुतः पिपर्तु न इति
 
९/५/१/३२
तान्युभयान्येकादश सम्पद्यन्ते । एकादशाक्षरा त्रिष्टुब्वीर्यं
त्रिष्टुब्वीर्यमेवैतद्यज्ञमभिसम्पादयति
 
९/५/१/३३
यद्वेवैकादश । एकादशाक्षरा वै त्रिष्टुप्त्रैष्ठुभ इन्द्र इन्द्रो यज्ञस्यात्मेन्द्रो
देवता तद्य एव यज्ञस्यात्मा या देवता तस्मिन्नेवैतद्यज्ञमन्ततः प्रतिष्ठापयति

९/५/१/३४
समिष्टयजूंषि हुत्वावभृथं यन्ति । अवभृथादुदेत्योदयनीयेन
चरित्वानूबन्ध्यस्य पशुपुरोडाशमनु देविकानां हवींषि निर्वपति
 
९/५/१/३५
एतद्वै प्रजापतिः । प्राप्य राद्ध्वेवामन्यत स दिक्षु प्रतिष्ठायेदं सर्वं
दधद्विदधदतिष्ठद्यद्दधद्विदधदतिष्ठत्तस्माद्धाता
तथैवैतद्यजमानो दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधत्तिष्ठति
 
९/५/१/३६
यद्वेवैतानि हवींषि निर्वपति । दिश एषोऽग्निस्ता उ एवामूः पुरस्ताद्दर्भस्तम्बं
च लोगेष्टकाश्चोपदधाति ताः प्राणभृतः प्रथमायां चितौ सर्वैव द्वितीया सर्वा
तृतीया सर्वा चतुर्थ्यथ पञ्चम्यै चितेरसपत्ना नाकसदः पञ्चचूडास्ता ऊर्ध्वा
उत्क्रामन्त्य आयंस्ताभ्यः प्रजापतिरबिभेत्सर्वं वा इदमिमाः पराच्योऽत्येष्यन्तीति
ता धाता भूत्वा पर्यगचत्तासु प्रत्यतिष्ठत्
 
९/५/१/३७
स यः स धातासौ स आदित्यः । अथ यत्तद्दिशां परमं क्रान्तमेतत्तद्यस्मिन्नेष
एतत्प्रतिष्ठितस्तपति
 
९/५/१/३८
स यः स धातायमेव स धात्रः । द्वादशकपालः पुरोडाशो द्वादशकपालो द्वादश
मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्धाताथ यत्तद्दिशां परमं
क्रान्तमेतानि तानि पूर्वाणि हवींष्यनुमत्यै चरूराकायै चरुः सिनीवाल्यै चरुः
कुह्व्यै चरुस्तद्यदेतानि निर्वपति यदेव तद्दिशां परमं क्रान्तं
तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तं सर्वं जुहोत्येतस्यैव कृत्स्नतायै
 
९/५/१/३९
ता वा एता देव्यः । दिशो ह्येताश्चन्दांसि वै दिशश्चन्दांसि देव्योऽथैष कः
प्रजापतिस्तद्यद्देव्यश्च कश्च तस्माद्देविकाः पञ्च भवन्ति पञ्च हि दिशः
 
९/५/१/४०
तदाहुः । नैतानि हवींषि निर्वपेन्नेदतिरेचयानीति तानि वै निर्वपेदेव कामेभ्यो वा
एतानि हवींषि निरुप्यन्ते न वै कामानामतिरिक्तमस्ति यद्वै किं च
पशुपुरोडाशमनु हविर्निरुप्यते पशावेव स मध्यतो मेधो धीयत उभयानि
निर्वपत्यध्वरस्य चाग्नेश्चाध्वरस्य पूर्वमथाग्नेस्तस्योक्तो बन्धुरुच्चैः
पशुपुरोडाशो भवत्युपांश्वेतानीष्टिर्ह्यनुब्रूहि प्रेष्येति
पशुपुरोडाशस्याहानुब्रूहि यजेत्येतेषामिष्टिर्हि समानः स्विष्टकृत्समानीडा
 
९/५/१/४१
तस्य वा एतस्य पशोः । जुह्वति समिष्टयजूंष्यभ्यवयन्ति हृदयशूलेनावभृथं
संस्था ह्येष पशुर्हृदयशूलेन चरित्वा
 
९/५/१/४२
प्रत्येत्य वैश्वकर्मणानि जुहोति । विश्वानि कर्मण्ययमग्निस्तान्यस्यात्र सर्वाणि
कर्माणि कृतानि भवन्ति तान्येतत्प्रीणाति तानि हविषा देवतां करोति यस्यै वै
देवतायै हविर्गृह्यते सा देवता न सा यस्यै न गृह्यतेऽथो
विश्वकर्मायमग्निस्तमेवैतत्प्रीणाति
 
९/५/१/४३
यद्वेव वैश्वकर्मणानि जुहोति । प्रायणं च हाग्नेरुदयनं च सावित्राणि प्रायणं
वैश्वकर्मणान्युदयनं स यत्सावित्राण्येव जुहुयान्न वैश्वकर्मणानि यथा
प्रायणमेव कुर्यान्नोदयनं तादृक्तदथ यद्वैश्वकर्मणान्येव जुहुयान्न
सावित्राणि यथोदयनमेव कुर्यान्न प्रायणं तादृक्तदुभयानि जुहोति प्रायणं च
तदुदयनंचकरोति
 
९/५/१/४४
अष्टावसूनि भवन्ति । एवमिमानि तद्यथा प्रायणंतथोदयनं करोतिस्वाहाकारो
ऽमीषां नवमो भवत्येवमेषां तद्यथा प्रायणं तथोदयनं
करोत्याहुतिरमीषां दशमी भवत्येवमेषां तद्यथा प्रायणं तथोदयनं
करोति संततां तत्राहुतिं जुहोति रेतो वै तत्र यज्ञो रेतसोऽविचेदाय स्रुवेणेह
स्वाहाकारं निरुक्तं हि रेतो जात भवति
 
९/५/१/४५
यदाकूतात् । समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो
वेत्येतस्माद्ध्येतत्सर्वस्मादग्रे कर्म समभवत्तदनु प्रेत सुकृतामु लोकं
यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह
 
९/५/१/४६
एतं सधस्थ । परि ते ददामीति स्वर्गो वै लोकः सधस्थस्तदेनं स्वर्गाय लोकाय
परिददाति यमावहाचेवधिं जातवेदाः अन्वागन्ता यज्ञपतिर्वो अत्र तं स्म जानीत
परमे व्योमन्निति यथैव यजुस्तथा बन्धुः
 
९/५/१/४७
एतं जानाथ । परमे व्योमन्देवाः सधस्था विद रूपमस्य
यदागचात्पथिभिर्देवयानैरिष्टापूर्ते कृणवथाविरस्मा इति यथैव यजुस्तथा
बन्धुरुद्बुध्यस्वाग्ने येन वहसीति तयोरक्तो बन्धुः
 
९/५/१/४८
प्रस्तरेण परिधिना । स्रुचा वेद्या च बर्हिषा ऋचेमं यज्ञं नो नय स्वर्देवेषु
गन्तव इत्येतैर्नो यज्ञस्य रूपैः स्वर्गं लोकं गमयेत्येतत्
 
९/५/१/४९
यद्दत्तं यत्परादानम् । यत्पूर्तं याश्च दक्षिणाः तदग्निर्वैश्वकर्मणः
स्वर्देवेषु नो दधदिति यच्चैव सम्प्रति दद्नो यच्चासम्प्रति तन्नो
ऽयमग्निर्वैश्वकर्मणः स्वर्गे लोके दधात्वित्येतत्
 
९/५/१/५०
यत्र धारा अनपेताः । मधोर्घृतस्य च याः तदग्निर्वैश्वकर्मणः स्वर्देवेषु णो
दधदिति यथैव यजुस्तथा बन्धुः
 
९/५/१/५१
अष्टौ वैश्वकर्मणानि जुहोति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवैनमेतदन्नेन प्रीणाति
 
९/५/१/५२
वैश्वकर्मणानि हुत्वा नाम करोति । यदा वै सर्वः कृत्स्नो जातो भवत्यथ नाम
कुर्वन्त्यत्र वा एष सर्वः कृत्स्नो जातो भवति
 
९/५/१/५३
नाम कृत्वाथैनमुपतिष्ठते । सर्वेण वा एष एतमात्मना चिनोति स
यदेतामत्रात्मनः परिदां न वदेतात्र हैवास्यैष आत्मानं वृञ्चीताथ
यदेतामत्रात्मनः परिदां वदते तयो हास्यैष आत्मानं न वृङ्क्ते ये अग्नयः
पाञ्चजन्या अस्यां पृथिव्यामधि तेषामसि त्वमुत्तमः प्र नो जीवातवे सुवेति ये के
चाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामसि त्वं सत्तमः प्रो
अस्मान्जीवनाय सुवेत्येतदनुष्टुभा वाग्वा अनुष्टुब्वागु सर्वाणि चन्दांसि
सर्वैरेवास्मा एतच्चन्दोभिर्निह्नुत उपस्थायाग्निं समारोह्य
निर्मथ्योदवसानीयया यजते
 
९/५/१/५४
अथ मैत्रावरुण्या पयस्यया यजते । देवत्रा वा एष भवति य एतत्कर्म करोति
दैवम्वेतन्मिथुनं यन्मित्रावरुणौ स यदेतयानिष्ट्वा मानुष्यां
चरेत्प्रत्यवरोहः स यथा दैवः सन्मानुषः स्यात्तादृक्तदथ यदेतया
मैत्रावरुण्या पयस्यया यजते दैवमेवैतन्मिथुनमुपैत्येतयेष्ट्वा कामं
यथाप्रतिरूपं चरेत्
 
९/५/१/५५
यद्वेवैतया मैत्रावरुण्या पयस्यया यजते । प्रजापतेर्विस्रस्ताद्रेतः परापतत्तं
यत्र देवाः समस्कुर्वंस्तदस्मिन्नेतया मैत्रावरुण्या पयस्यया रेतो
ऽदधुस्तथैवास्मिन्नयमेतद्दधाति
 
९/५/१/५६
स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ यदस्मात्तद्रेतः
परापतदेषा सा पयस्या मैत्रावरुणी भवति प्राणोदानौ वै मित्रावरुणौ
प्राणोदाना उ वै रेतः सिक्तं विकुरुतः पयस्या भवति पयो हि रेतो यज्ञो भवति
यज्ञो ह्येव यज्ञस्य रेत उपांशु भवत्युपांशु हि रेतः सिच्यतेऽन्ततो भवत्यन्ततो
हि रेतो धीयते
 
९/५/१/५७
तस्यै वाजिनेन चरन्ति । तस्मिन्दक्षिणां दधाति तूपरौ मिथुनौ
दद्यादित्यभ्याज्ञायेनैव मन्य इति ह स्माह माहित्थिः स्रवत्यु हैषाग्निचित आहुतिः
सोमाहुतिर्यामनिष्टके जुहोति
 
९/५/१/५८
स स्वयमातृणा एवोपदधीत । इमे वै लोकाः स्वयमातृणा इम उ लोका एषोऽग्निश्चितः
 
९/५/१/५९
ऋतव्या एवोपदधीत । संवत्सरो वा ऋतव्याः संवत्सर एषोऽग्निश्चितः
 
९/५/१/६०
विश्वज्योतिष एवोपदधीत । एता वै देवता विश्वज्योतिष एता उ देवता एषोऽग्निश्चितः
 
९/५/१/६१
पुनश्चितिमेवोपदधीत । पुनर्यज्ञो हैष उत्तरा हैषा देवयज्या
पुनर्यज्ञमेवैतदुपधत्त उत्तरामेव देवयज्यामुप हैनं पुनर्यज्ञो न
तथा कुर्याद्यो वाव चितेऽग्निर्निधीयते तामेवेष्टकामेष सर्वो
ऽग्निरभिसम्पद्यते तद्यदग्नौ जुहोति तदेवास्य यथा सर्वस्मिञ्चाण्डिलेऽग्नौ
संचिते पक्षपुचवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति
 
९/५/१/६२
सर्वाणि वा एष भूतानि । सर्वान्देवान्गर्भो भवति योऽग्निं भिभर्ति स यो
ऽसंवत्सरभृतं चिनुत एतानि ह स सर्वाणि भूतानि गर्भं भूतं निर्हते यो न्वेव
मानुषं गर्भं निर्हन्ति तन्न्वेव परिचक्षतेऽथ किं य एतं देवो ह्येष
नासंवत्सरभृतस्यऽर्त्विजा भवितव्यमिति ह स्माह वात्स्यो नेदस्य देवरेतसस्य
निर्हण्यमानस्य मेद्यसानीति
 
९/५/१/६३
षण्मास्यमन्तमं चिन्वीतेत्याहुः । षण्मास्या वा अन्तमा गर्भा जाता जीवन्तीति स
यद्यसंवत्सरभृते महदुक्थं शंसेदृगशीतीः शंसेदसर्वं वै
तद्यदसंवत्सरभृतोऽसर्वं तद्यदृगशीतयो विकृष्टं त्वेनं स भूयो
विकर्षेद्यदि चैव संवत्सरभृतः स्याद्यदि चासंवत्सरभृतः सर्वमेव
महदुक्थं शंसेत्
 
९/५/१/६४
अथ ह शाण्डिल्यायनः प्राच्यां जगाम । तं ह दैयाम्पातिरुवाच शाण्डिल्यायन
कथमग्निश्चेतव्यो ग्लायामोऽह संवत्सरभृतायाग्निमु चिकीषामह इति
 
९/५/१/६५
स होवाच । कामं न्वा एनं स चिन्वीत येन पुरा संवत्सरं भृतः स्यात्तं ह्येव
तं भृतं सन्तं चिनुत इति
 
९/५/१/६६
कामम्वेवैनं स चिन्वीत । यः संवत्सरमभिषविष्यन्त्स्यादेष वा एनं
प्रत्यक्षमन्नेन बिभर्त्येताभिराहुतिभिः
 
९/५/१/६७
कामम्वेवैनं स चिन्वीत । यः संवत्सरमग्निहोत्रं जुहुयाअद्बिभर्ति वा
एनमेष योऽग्निहोत्रं जुहोति
 
९/५/१/६८
कामम्वेवैनं स चिन्वीत । यः संवत्सरं जातः स्यात्प्राणो वा
अग्निस्तमेतद्बिभर्त्यथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति तद्विन्दते
तद्यज्जातंजातं विन्दते तस्माज्जातवेदास्तस्मादप्येवंवित्कामं सद्योभृतं चिन्वीत
यदु ह वा एवंवित्पिबति वा पाययति वा तदेवास्य यथा सर्वस्मिञ्चाण्डिलेऽग्नौ
संचिते पक्षपुचवत्याहुतयो हुताः स्युरेवमस्यैता आहुतयो हुता भवन्ति
 
९/५/२/१
इन्द्र एतत्त्सर्प्तच्चमपष्यत् न्यूनस्याप्त्या अतिरिक्त्यै व्यृद्धस्य समृद्ध्या अथ ह
वा ईश्वरोऽग्निं चित्वा किंचिद्दौरितमापत्तोर्वि वा ह्वलितोर्यद्वा यदा ह वा
एतच्यापर्णः सायकायनः शुश्रावाथ हैतत्कर्मोपदधर्ष
 
९/५/२/२
सैषा त्रयस्य समृद्धिः । अग्नेः समृद्धिर्योऽग्निं चिनुते तस्य समृद्धिर्योऽग्निं
चिनोति तस्य समृद्धिः
 
९/५/२/३
तद्यदेतेनोपतिष्ठते । यदेवास्यात्र विद्वान्वाविद्वाति वा रेचयति न वाभ्यापयति
तदेवास्यैतेन सर्वमाप्तं भवति यदस्य किं चानाप्तं य उ तस्यामनुष्टुभ्यृचि
कामोऽत्रैव तमाप्नोत्यथा एतस्मादेवैतत्कर्मणो रक्षांसि नाष्ट्रा अपहन्ति नो
हैनमनुव्याहारिण स्तृण्वते तस्मादप्येवंवित्कामं परस्मा अग्निं चिनुयादीश्वरो
ह श्रेयान्भवितोः
 
९/५/२/४
वार्त्रहत्याय शवसे । सहदानुं पुरुहूत क्षियन्तमिति वार्त्रघ्नीभ्याम्
प्रथमाभ्यामुपतिष्टत एतद्वै देवा वृत्रं पाप्मानं हत्वापहतपाप्मान
एतत्कर्माकुर्वत तथैवैतद्यजमानो वृत्रं पाप्मानं
हत्वापहतपाप्मैतत्कर्म कुरुते
 
९/५/२/५
वि न इन्द्र मृधो जहि । मृगो न भीमः कुचरो गिरिष्ठा इति वैमृधीभ्यां
द्वितीयाभ्यामेतद्वै देवा मृधः पाप्मानं हत्वापहतपाप्मान एतत्कर्माकुर्वत
तथैवैतद्यजमानो मृधः पाप्मानं हत्वापहतपाप्मैतत्कर्म कुरुते
 
९/५/२/६
वैश्वानरो न ऊतये । पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां
तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मान
एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं
दग्ध्वापहतपाप्मैतत्कर्म कुरुते
 
९/५/२/७
अश्याम त काममग्ने तवोतीति । एकया कामवत्यैतद्वै देवाः
पाप्मानमपहत्यैकया कामवत्यैकधान्ततः सर्वान्कामानात्मन्नकुर्वत
तथैवैतद्यजमानः षडृचेन पाप्मानमपहत्यैकया कामवत्येकधान्ततः
सर्वान्कामानात्मन्कुरुते
 
९/५/२/८
सप्तर्चं भवति । सप्तचितिकोऽग्निः सप्तऽर्तवः सप्त दिशः सप्त देवलोकाः सप्त
स्तोमाः सप्त पृष्ठानि सप्त चन्दांसि सप्त ग्राभ्याः पशवः सप्तारण्याः सप्त
शोर्षन्प्राणा यत्किं च सप्तविधमधिदेवतमध्यात्मं तदेनेन सर्वमाप्नोति ता
अनुष्टुभमभिसम्पद्यन्ते वाग्वा अनुष्टुब्वाचैवास्य तदाप्नोति यदस्य किं
चानाप्तम्
 
९/५/२/९
अष्टर्चेनोपतिष्ठेतेत्यु हैक आहुः । वयं ते अद्य ररिमा हि काममिति द्वितीयया
कामवत्या सप्त पूर्वास्तदष्टावष्टाक्षरो गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य
मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तमथो एवं समं देवते भजेते इति
न तथा कुर्यादेता वाव सप्ताष्टावनुष्टुभो भवन्ति स योऽष्टर्चे कामोऽत्रैव
तमाप्नोति
 
९/५/२/१०
ऐन्द्राग्नीभिरुपतिष्ठते । ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्रैवास्य
तदाप्नोति यदस्य किं चानाप्तमिन्द्राग्नी वै सर्वे देवाः सर्वदेवत्यो
ऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तम्
 
९/५/२/११
तद्धैके । कर्मणः कर्मण एवैतां प्रतिपदं कुर्वतेऽपहतपाप्मान
एतत्कर्म करवामहा इति पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हि सा
सर्वा कृत्स्ना भवतीति स यथा कामयेत तथा कुर्यादिति नु चयनस्याथातोऽचयनस्य

९/५/२/१२
त्रयो ह वै समुद्राः । अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचां स य
एतानि परस्मै करोत्येतान्ह स समुद्राञ्चोषयते ताञ्चुष्यतोऽन्वस्य चन्दांसि
शुष्यन्ति चन्दांस्यनु लोको लोकमन्वात्मात्मानमनु प्रजा पशवः स ह श्वः श्व
एव पापीयान्भवति य एतानि परस्मै करोति
 
९/५/२/१३
अथ य एतान्यकृत्वा । पस्मा अपि सर्वैरन्यैर्यज्ञक्रतुभिर्याजयेदेतेभ्यो हैवास्य
समुद्रेभ्यश्चन्दांसि पुनराप्यायन्ते चन्दांस्यनु लोको लोकमन्वात्मात्मानमनु
प्रजा पशवः स ह श्वः श्व एव श्रेयान्भवति य एतानि परस्मै न करोत्यथैष ह
वा अस्य दैवोऽमृत आत्मा स य एतानि परस्मै करोत्येतं ह स दैवमात्मानम्
परस्मै प्रयचत्यथ शुष्क एव स्थाणुः परिशिष्यते
 
९/५/२/१४
तद्धैके । कृत्वा कुर्वते वा प्रति वा कारयन्त एषा प्रायश्चित्तिरिति न तथा
कुर्याद्यथा शुष्कं स्थाणुमुदकेनाभिषिञ्चेतादृक्तत्पूयेद्वा वै स वि वा
म्रित्येन्नैतस्य प्रायश्चित्तिरस्तीत्येव विद्यात्
 
९/५/२/१५
अथ ह स्माह शाण्डिल्यः । तुरो ह कावषेयः कारोत्यां देवेभ्योऽग्निं चिकाय तं ह
देवाः पप्रचुर्मुने यदलोक्यामग्निचित्यामाहुरथ कस्मादचैषीरिति
 
९/५/२/१६
स होवाच । किं नु लोक्यं किमलोक्यमात्मा वै यज्ञस्य यजमानोऽङ्गान्यृत्विजो यत्र
वा आत्मा तदङ्गानि यत्रो अङ्गानि तदात्मा यदि वा ऋत्विजोऽलोका भवन्त्यलोक उ तर्हि
यजमान उभये हि समानलोका भवन्ति दक्षिणासु त्वेव न संवदितव्यं
संवादेनैवऽर्त्विजोऽलोका इति
 

॥इति शतपथब्राह्मणे नवम काण्डम् समाप्तम्॥

 
अन्य काण्ड पढ़ने के लिए यहाँ क्लिक करें 

Share This Article:

Related Posts

0 comments

डाउनलोड "दयानंद वेदभाष्य खंडनं " Pdf Book

डाउनलोड "दयानंद आत्मचरित (एक अधूरा सच)" Pdf Book

.

Contact Us

Name

Email *

Message *